Chapter 10 tvam aapanam gach Solutions
05/11/2024Chapter 12 aalasyam hi manushyanam sharirastho mahan ripuh Solutions
05/11/2024Chapter 11 pruthivyam trini ratnani पृथिव्यां त्रीणि रत्नानि Solutions
NCERT Solutions
वयम् अभ्यासं कुर्मः
प्रश्न 1. एतानि सर्वाणि सुभाषितानि उच्चैः पठन्तु स्मरन्तु लिखन्तु च ।
उत्तरम्: स्वयेव कुर्वन्तु ।
प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।
(क) पृथिव्यां कति रत्नानि सन्ति? – ______
उत्तरम्: त्रीणि।
(ख) अयं निजः परो वा इति गणना केषां भवति ? – ______
उत्तरम्: लघुचेतसाम्।
(ग) कार्याणि क्रेन सिध्यन्ति ? – ______
उत्तरम्: उद्यमेन ।
(घ) विद्या किं ददाति ? – ______
उत्तरम्: विनयम् ।
(ङ) जननी जन्मभूमिश्च कस्मात् गरीयसी ? – ______
उत्तरम्: स्वर्गात् ।
(च) लङ्का कीदृशी आसीत्? – ______
उत्तरम्: स्वर्णमयी।
प्रश्न 3. अधोलिखितानां प्रश्नानाम् एकवाक्येन उत्तराणि लिखन्तु ।
(क) पृथिव्यां त्रीणि रत्नानि कानि सन्ति?
उत्तरम्: पृथिव्यां त्रीणि रत्नानि जलम् अन्नं सुभाषितं च सन्ति ।
(ख) उदारचरितानां भावः कः भवति ?
उत्तरम्: उदारचरितानां वसुधा एव कुटुम्बकम् अस्ति ।
(ग) मृगाः स्वयमेव कस्य मुखे न प्रविशन्ति ?
उत्तरम्: मृगाः स्वयमेव सुप्तस्य सिंहस्य मुखे न प्रविशन्ति ।
(घ) अभिवा4शीलस्य नित्यं कानि वर्धन्ते ?
उत्तरम्: अभिवादनशीलस्य नित्यं चत्वारि आयुर्विद्यायशोबलं वर्धन्ते ।
(ङ) मनुष्यः धनात् किम् आप्नोति ?
उत्तरम्: मनुष्यः धनात् धर्मं प्राप्नोति ।
(च) उत्पन्नेषु कार्येषु कीदृशं धनम् उपयोगाय न भवति ?
उत्तरम्: उत्पन्नेषु कार्येषु परहस्तगतं धनम् उपयोगाय न भवति ।
प्रश्न 4. चित्रं दृष्ट्वा वाक्यानि रचयन्तु ।
उदाहरणम्- वृक्षः फलानि यच्छति । त्वं फलानि स्वीकरोषि । अहं फलानि स्वीकरोमि ।
उत्तरम्:
(क) वृक्षः छायां यच्छति । छाया शीतला भवति । वयं छायायाम् विश्रामम् कुर्मः ।
(ख) वृक्ष: कर्गदम् यच्छति । कर्गदः उपयोगाय भवति। वयम् कर्गदेषु लिखामः ।
(ग) वृक्षः काष्ठं यच्छति । काष्ठम् इन्धनाय भवति। भवननिर्माणे काष्ठस्य आवश्यकता भवति ।
(घ) वृक्षः शुद्धं वायुं यच्छति । अनेन पर्यावरणस्य शुद्धिः भवति । शुद्धेन वायुना वयं स्वस्थाः भवामः ।
(ङ) वृक्षः पुष्पाणि यच्छति । पुष्पाणि सुगन्धं प्रसारयन्ति । पुष्पाणां माला भवति ।
प्रश्न 5. अधोलिखितानि वाक्यानि पठित्वा ‘आम्’ अथवा ‘न’ इति लिखन्तु ।
यथा – किं पृथिव्यां त्रीणि रत्नानि सन्ति? (आम्)
(क) त्रीणि रत्नानि जलम् अन्नं पाषाणः च सन्ति? ______
उत्तरम्: न
(ख) किं धर्मेण सुखं प्राप्यते ? ______
उत्तरम्: आम्
(ग) किं विद्या विनयं ददाति ? ______
उत्तरम्: आम्
(घ) किम् अभिवादनशीलस्य विद्या वर्धते ? ______
उत्तरम्: आम्
(ङ) किम् उद्यमेन कार्याणि नश्यन्ति ? ______
उत्तरम्: न
(च) किं जन्मभूमि स्वर्गात् गरीयसी भवति ? ______
उत्तरम्: आम्
प्रश्न 6. चित्रे दर्शितस्य नाम लिङ्गं च निर्दिशन्तु ।
उत्तरम्:
प्रश्न 7. वलये पदानि विलिख्य सुभाषितं पूरयन्तु ।
उत्तरम्:
प्रश्न 8. पट्टिकातः पदानि चित्वा निर्देशानुसार पदानि लिखन्तु ।

(क) प्रथमान्त-पुंलिङ्गपदानि सन्ति
उत्तरम्:
उद्यमः
विनयः
निजः
पराक्रमः
(ख) प्रथमान्त – स्त्रीलिङ्गपदानि सन्ति
उत्तरम्:
वसुधा
जननी
विद्या
बुद्धिः
शक्ति:
(ग) प्रथमान्त नपुंसकलिङ्गपदानि सन्ति
उत्तरम्:
साहसम्
धैर्यम्
पत्रम्
मूलम्
धनम्
प्रश्न 9. पाठगतानि सुभाषितानि स्मृत्वा रिक्तस्थानानि पूरयन्तु।
(क) पृथिव्यां त्रीणि रत्नानि _____ सुभाषितम्।
उत्तरम्: पृथिव्यां त्रीणि रत्नानि जलम् अन्नम् सुभाषितम्।
(ख) उदारचरितानां तु _____ कुटुम्बकं भवति ।
उत्तरम्: उदारचरितानां तु वसुधैव कुटुम्बकं भवति ।
(ग) उद्यमेन हि _____ सिद्ध्यन्ति ।
उत्तरम्: उद्यमेन हि कार्याणि सिद्ध्यन्ति ।
(घ) अभिवादनशीलस्य वृद्धोपसेविनः _____ वर्धन्ते ।
उत्तरम्: अभिवादनशीलस्य वृद्धोपसेविनः चत्वारि आयुर्विद्या यशोबलं वर्धन्ते ।
(ङ) उद्यमः _____ पराक्रमः ।
उत्तरम्: उद्यमः साहसं धैर्यं बुद्धिः वर्त्तन्ते, तत्र देवः सहायकृत् पराक्रमः ।
(च) विद्या _____ ददाति ।
उत्तरम्: विद्या विनयं ददाति ।
(छ) जननी जन्मभूमिश्च _____ गरीयसी भवति ।
उत्तरम्: जननी जन्मभूमिश्च स्वर्गादपि गरीयसी भवति ।
प्रश्न 10. चित्राणि दृष्ट्वा उचितान् श्लोकांशान् लिखन्तु ।
उत्तरम्:
(क) उद्यमेन हि सिध्यन्ति कार्याणि ।
(ख) पृथिव्यां त्रीणि रत्नानि जलम् अन्नम् सुभाषितम्।
(ग) जननीजन्मभूमिश्च स्वर्गादपि गरीयसी ।
(घ) पात्रत्वाद् धनम् आप्नोति ।
(ङ) उदारचरितानां तु वसुधैव कुटुम्बकम् ।
प्रश्न 11. परियोजनाकार्यम्
(i) पाठस्य सर्वाणि सुभाषितानि बृहत् स्फोरकपत्रे सचित्रं लिखित्वा कक्षायाः भित्तौ स्थापयन्तु ।
उत्तरम्: स्वयेव कुर्वन्तु ।
(ii) सुभाषितेषु प्रयुक्तानां क्रियापदानां सूचीं कुर्वन्तु । तेषाम् आधारेण वाक्यरचनां कुर्वन्तु ।
उत्तरम्: सुभाषितेषु प्रयुक्तानां क्रियापदानां वाक्यरचना:-
भवन्ति – संस्कृते त्रीणि वचनानि भवन्ति ।
सन्ति – अन्नम् जलं सुभाषितं च रत्नानि सन्ति ।
सिध्यन्ति परिश्रमेण एव कार्याणि सिध्यन्ति ।
प्रविशन्ति – मृगाः सुप्तस्य सिंहस्य मुखे न प्रविशन्ति ।
वर्धन्ते – अभिवादनशीलस्य आयुः विद्या, यशः बलम् च वर्धन्ते ।
ददाति – विद्या विनयम् ददाति ।
आप्नोति – योग्य नरः जीवने सर्वसुखं आप्नोति ।
रोचते – मह्यम् मम देशं एव रोचते ।
यच्छन्ति – धनिकाः दरिद्रेभ्यः भोजनं यच्छन्ति ।
(iii) विद्या, उद्यम, अभिवादनशीलः, इत्यादिगुणाः येषु सन्ति तादृशानां पञ्चानां महापुरुषाणां जीवनपरिचयं पठन्तु लिखन्तु च ।
उत्तरम्:
- पण्डित जवाहरलालनेहरू महोदयः पण्डित जवाहरलालनेहरू महोदयः स्वतन्त्र – भारतस्य प्रथमप्रधानमन्त्री आसीत् । तस्य जन्म उत्तरप्रदेशस्य प्रयागराजनगरे अभवत् । तस्य पिता मोतीलाल नेहरू माता च स्वरूपारानी आस्ताम्। सः आङ्ग्लदेशं उच्चशिक्षार्थम् अगच्छत्। स्वतन्त्रतासंग्रामे तस्य महत् योगदानम् आसीत्। स्वतन्त्रतायै सः बहुवारं कारागारम् अगच्छत् । सः कुशलः राजनीतिज्ञ: लेखक: च आसीत् । तस्य बालकान् प्रति प्रेमपूर्ण आचरणं आसीत् । एतदर्थं तस्य जन्मदिनम् अपि ‘बालदिवस’ इति रूपेण मन्यते।
- महात्मा गान्धिमहोदयः भारतीयानाम् प्रियः नेता महात्मा गान्धिमहोदयः अस्ति । तस्य पूर्णनाम ‘मोहनदास करमचन्द गाँधी’ अस्ति । तस्य जन्म गुजरातराज्ये ‘पोरबन्दर’ इति नगरे अभवत् । तस्य माता ‘पुतलीबाई’, पिता ‘करमचन्द गाँधी’ भार्या च ‘कस्तूरबा ‘ आसन्। सः सत्ये अहिंसायां च विश्वसिति स्म । भारतस्य स्वतन्त्रतायै सः बहुवारं कारागृहम् अगच्छत् । ‘राष्ट्रपिता’ महात्मा, ‘बापू’ इत्यादिभिः उपाधिभिः भारतीयाः तस्य सम्मानं अद्यापि कुर्वन्ति ।
- स्वामी विवेकानन्दः विवेकानन्दस्य नाम नरेन्द्रनाथः आसीत् । सः रामकृष्ण परमहंसस्य शिष्यः आसीत्। भारतीयानाम् दुर्दशां परतन्त्रताम् च दृष्ट्वा तस्य मनः अति खिन्नम् अभवत् । अमेरिकादेशे शिकागोनगरे अखिल विश्व धार्मिक-सम्मेलने भाषणं कृत्वा अयं महापुरुषः प्रसिद्धि प्राप्तवान् । अयं युगपुरुष: सम्पूर्ण विश्वे प्रातः स्मरणीयः अस्ति ।
- महात्मा बुद्धः भारतवर्षे कपिलवस्तु नगरे राजपरिवारे अस्य जन्म अभवत् । अस्य नाम ‘सिद्धार्थः ‘ आसीत्। पिता शुद्धोधनः आसीत् माता च मायादेवी । बाल्याकालात् एव सः गम्भीर विरक्तमनः दयालुः च आसीत् । अस्य विवाह: ‘यशोधरा’ नाम कन्यया सह अभवत् । ‘राहुल: ‘ तस्य पुत्रः आसीत् । एकदा रात्रौ सः सर्वम् त्यक्त्वा गृहात् निर्गतः । स्थानात् स्थानं भ्रमन् सः बोधगयाम् अगच्छत् । तत्रैव सः वटमूले तपः अकरोत् महाबोधं च अलभत् । अत एव सः ‘बुद्ध:’ इति नाम्ना विख्यातः अभवत् । तेन बौद्धधर्मस्य प्रचारः प्रसारः च कृतः।
- स्वामी दयानन्दः भारतस्य प्रमुखः समाज सुधारक: स्वामी दयानन्दः आसीत् । तस्य जन्म भारतस्य गुजरातप्रदेशे 1824 तमे वर्षे फरवरी मासस्य 12 दिनांके अभवत् । अध्यात्मविषये तस्य विशेषरुचिः आसीत् । सः आर्यसमाजस्य स्थापना अकरोत् । सः वैदिक शिक्षायाः प्रचाराय प्रसाराय च कार्यम् अकरोत् । अस्पृश्यता जातिभेदः इत्यादीनां सामाजिक दोषाणाम् सः तीव्रं विरोधं अकरोत् । ‘सत्यार्थ प्रकाश’ इति तेन लिखित: महत्वपूर्ण: ग्रन्थः प्रसिद्धः अस्ति ।
(iv) “वसुधैव कुटुम्बकम्” इति विषये एकां भाषणप्रतियोगिताम् आयोजयन्तु ।
उत्तरम्:
‘वसुधैव कुटुम्बकम्’: सृष्टेः स्त्रष्टा ईश्वर: एकः एव अस्ति । संसारस्य सर्वे प्राणिनः ईश्वरस्य सन्ततिः । अतः सम्पूर्णे विश्वे स्थिताः जनाः रूप-वर्ण- भाषा-संस्कृति-भेदान् धारयन्तः अपि ते सर्वे समानाः एव सन्ति। अतः श्रेष्ठः जनः सर्वप्राणिषु समानं व्यवहारं करोति, सर्वे स्निह्यति ते कमपि न पीडयति । भारतीयाः एतदर्थम् कथयन्ति । ‘सर्वे भवन्तु सुखिन: ‘ सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत्। अस्माकम् कृते तु वसुधैव कुटुम्बकम् इव अस्ति ।