BoardExams.in
Class 10sanskritCBSE 2026-27

NCERT Solutions for Class 10 sanskrit Chapter 2: बुद्धिर्बलवती सदा (Buddhirbalavati_Sada)

8 Solved Questions & Exercises10 min estimated readingUpdated 2026-09-16
Top Sponsor / Ad Space

CBSE 2026-27 Board Exam Preparation & Practice Papers

Free Chapter Notes & Question Bank by BoardExams.in

NCERT Class 10 Sanskrit (Shemushi Bhag 2 - शेमुषी) Solutions
Chapter 2: बुद्धिर्बलवती सदा (Buddhirbalavati_Sada)

Students can easily access theShemushi Chapter 2 बुद्धिर्बलवती सदा Questions and Answers which include important questions and deep explanations provided by our experts.

Shemushi Sanskrit Class 10 Solutions Chapter 2 बुद्धिर्बलवती सदा

Class 10 Sanskrit Shemushi Chapter 2 बुद्धिर्बलवती सदा Textbook Questions and Answers

प्रश्न-अभ्यासः (पृष्ठ 17-19)

प्रश्न 1


एकपदेन उतरं लिखत
(क) बुद्धिमती कुत्र व्याघ्र ददर्श?
(ख) भामिनी कया विमुक्ता?
(ग) सर्वदा सर्वकार्येषु का बलवती?
(घ) व्याघ्रः कस्मात् विभेति?
(ङ) प्रत्युत्पन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच?
उत्तर:
(क) गहनकानने
(ख) निजबुद्ध्या
(ग) बुद्धिः
(घ) मानुषात्
(ङ) जम्बुकम्

प्रश्न 2


अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) बुद्धिमती केन उपेता पितुर्गृह प्रति चलिता?
(ख) व्याघ्रः किं विचार्य पलायित:?।
(ग) लोके महतो भयात् कः मुच्यते?
(घ) जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति?
(ङ) बुद्धिमती शृगालं किम् उक्तवती?
उत्तर:
(क) बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।
(ख) ‘इयम् काचित् व्याघ्रमारी’ इति विचार्य व्याघ्रः पलायितः।
(ग) लोके महतो भयात् बुद्धिमान् मुच्यते।
(घ) “भवान् कुतः भयात् पलायितः।” इति वदन् जम्बुक: व्याघ्रस्य उपहासं करोति।
(ङ) बुद्धिमती शृगाल उक्तवती, “त्वया मह्यं पुरा व्याघ्रत्रयं दतम्। विश्वास्य अद्य एकम् आनीय कथं यासि इति अधुना वद।” |

प्रश्न 3


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत
(क) तत्र राजसिंहो नाम राजपुत्रः वसति स्म।
(ख) बुद्धिमती चपेटया पुत्रौ प्रहृतवती।
(ग) व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।
(घ) त्वं मानुषात् बिभेषि।
(ङ) पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्।
उत्तर:
(क) तत्र कः नाम राजपुत्रः वसति स्म?
(ख) बुद्धिमती कया पुत्रौ प्रहृतवती?
(ग) कम् दृष्ट्वा धूर्तः शृगालः अवदत्?
(घ) त्वं कस्मात् विभेषि?
(ङ) पुरा त्वया कस्मै व्याघ्रत्रयं दत्तम्?

More Resources for CBSE Class 10

  • NCERT Solutions
  • RD Sharma Class 10 Solutions
प्रश्न 4


अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत
(क) व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः।
(ख) प्रत्युत्पन्नमतिः सा शृगालं आक्षिपन्ती उवाच।
(ग) जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।
(घ) मार्गे सा एकं व्याघ्रम् अपश्यत्।
(ङ) व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच-अधुना एकमेव व्याघ्रं विभज्य भुज्यताम्।
(च) बुद्धिमती पुत्रद्वयेन उपेता पितुर्गृहं प्रति चलिता।
(छ) ‘त्वं व्याघ्रत्रयम् आनेतुं प्रतिज्ञाय एकमेव आनीतवान्।
(ज) गलबद्धशृगालकः व्याघ्रः पुनः पलायितः।
उत्तर:
(क) बुद्धिमती पुत्रद्वयेन उपेता पितुर्गृहं प्रति चलिता।
(ख) मार्गे सा एकं व्याघ्र अपश्यत्।
(ग) व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच-अधुना एकमेव व्याघ्रं विभज्य भुज्यताम्।
(घ) व्याघ्रः व्याघ्रमारी इयम् इति मत्वा पलायित:।
(ङ) जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।
(च) प्रत्युत्पन्नमतिः सा शृगालम् आक्षिपन्ती उवाच।
(छ) ‘त्वं व्याघ्रत्रयम् आनयितुम्’ प्रतिज्ञाय एकमेव आनीतवान्।
(ज) गलबद्धशृगालक: व्याघ्रः पुनः पलायितः।

प्रश्न 5


सधिं/सन्धिविच्छेदं वा कुरुत–

उत्तर:
(क) पितुर्गृहम् = पितुः + गृहम्
(ख) एकैक: = एक + एकः
(ग) अन्योऽपि = अन्य: + अपि
(घ) इत्युक्त्वा = इति + उक्त्वा
(ङ) यत्रास्ते = यत्र + आस्ते

बुद्धिर्बलवती सदा (Buddhirbalavati_Sada) Diagram 1

प्रश्न 6


अधोलिखितानां पदानाम् अर्थः कोष्ठकात् चित्वा लिखत
(क) ददर्श (दर्शितवान्, दृष्टवान्)
(ख) जगाद (अकथयत्, अगच्छत्)
(ग) ययौ (याचितवान्, गतवान्)
(घ) अत्तुम् (खादितुम्, आविष्कर्तुम्)
(ङ) मुच्यते (मुक्तो भवति, मग्नो भवति)
(च) ईक्षते (पश्यति, इच्छति)
उत्तर:
(क) ददर्श – दृष्टवान्
(ख) जगाद – अकथयत्
(ग) ययौ – गतवान्
(घ) अत्तुम् – खादितुम्
(ङ) मुच्यते – मुक्तो भवति
(च) ईक्षते – पश्यति

प्रश्न 7


(अ) पाठात् चित्वा पर्यायपदं लिखत
(क) वनम् – …………..
(ख) शृगालः – …………..
(ग) शीघ्रम् – …………..
(घ) पत्नी – …………..
(ङ) गच्छसि – …………..
उत्तर:
(क) वनम् – काननम्
(ख) शृगालः – जम्बुकः
(ग) शीघ्रम् – सत्वरम्
(घ) पत्नी – भार्या
(ङ) गच्छसि – यासि

(आ) पाठात् चित्वा विपरीतार्थकं पदं लिखत –
(क) प्रथमः – …………..
(ख) उक्त्वा – …………..
(ग) अधुना – …………..
(घ) अवेला – …………..
(ङ) बुद्धिहीना – …………..
उत्तर:
(क) द्वितीयः
(ख) श्रुत्वा
(ग) पश्चात्
(घ) वेला
(ङ) बुद्धिमती

परियोजनाकार्यम्
बुद्धिमत्याः स्थाने आत्मानं परिकल्प्य तद्भावनां स्वभाषया लिखत।
उत्तर:
बुद्धिमत्या स्थाने एकान्ते वने यदि कदाचित् अहम् व्याघ्र द्रक्ष्यामि तर्हि निजबुद्धया स्वरक्षायै उपायं करिष्यामि यतः बुद्धिमान् एव भयात् मुच्यते।

Class 10 Sanskrit Shemushi Chapter 2 बुद्धिर्बलवती सदा Additional Important Questions and Answers

पठित-अवबोधनम्
I. पठित-सामाग्रयाम् आधारितम् अवबोधनकार्यम्

अधोलिखितगद्यांशान् श्लोकान् च पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत —

(क) अस्ति देउलाख्यो ग्रामः। तत्र राजसिंहः नाम राजपुत्रः वसति स्म। एकदा केनापि आवश्यककार्येण तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता। मार्गे गहनकानने सा एकं व्यानं ददर्श। सा व्याघ्रमागच्छन्तं दृष्ट्वा धाष्ात् पुत्रौ चपेटया प्रहृत्य जगाद-“कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथः? अयमेकस्तावद्विभज्य भुज्यताम्। पश्चाद् अन्यो द्वितीयः कश्चिल्लक्ष्यते।” इति श्रुत्वा व्याघ्रमारी काचिदियमिति मत्वा व्याघ्रो भयाकुलचित्तो नष्टः।

बुद्धिर्बलवती सदा (Buddhirbalavati_Sada) Diagram 2

प्रश्नाः
I. एकपदेन उत्तरत
(i) राजसिंहस्य भार्या कुत्र गता?
(ii) राजपुत्रस्य अभिधानम् किम् आसीत्?
उत्तर:
(i) पितुर्गृहम्
(ii) राजसिंहः

II. पूर्णवाक्येन उत्तरत
आगच्छन्तं व्याघ्रं दृष्ट्वा भार्या किम् अकरोत्?
उत्तर:
आगच्छन्तम् व्याघ्रम् दृष्ट्वा घाष्ात् पुत्रौ चपेटया प्रहृत्य उक्तवती-“कथम् एकैकशो व्याघ्रभक्षणाय कलहं कुरुथ:? अयम् एकः तावत् विभज्य भुज्यताम्। पश्चात् अन्यो द्वितीयः कश्चिल्लक्ष्यते।”

III. प्रदत्तविकल्पेभ्यो उचितम् उत्तरम् चित्वा लिखत
(i) ‘ददर्श’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) एकं
(ख) व्याघ्रं
(ग) मार्गे
(घ) सा
उत्तर:
(घ) सा

(ii) ‘तस्य भार्या’ अत्र ‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) राजपुत्रः
(ख) राजपुत्राय
(ग) भार्या
(घ) भार्यायै
उत्तर:
(ख) राजपुत्राय

(iii) ‘आगच्छन्तं’ इति पदस्य विशेषणपदं किम्?
(क) व्याघ्रम्
(ख) पुत्री
(ग) सा
(घ) चपेटया
उत्तर:
(क) व्याघ्रम्

(iv) ‘वने’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) गहन
(ख) कानने
(ग) गहनकानने
(घ) मार्गे
उत्तर:
(ख) कानने

(ख) निजबुद्ध्या विमुक्ता सा भयाद् व्याघ्रस्य भामिनी।
अन्योऽपि बुद्धिमाल्लोके मुच्यते महतो भयात्॥

बुद्धिर्बलवती सदा (Buddhirbalavati_Sada) Diagram 3

प्रश्ना :
I. एकपदेन उत्तरत
(i) भामिनी व्याघ्रस्य भयात् कथम् विमुक्ता?
(ii) का बुद्धिमती आसीत्?
उत्तर:
(i) निजबुद्ध्या
(ii) भामिनी

II. पूर्णवाक्येन उत्तरत
लोके महतो भयात् कः मुच्यते?
उत्तर:
लोके महतो भयात् बुद्धिमान् मुच्यते।

III. प्रदत्तविकल्पेभ्यो उचितम् उत्तरम् चित्वा लिखत

(i) ‘मुच्यते’ इति क्रियापदस्य कर्तृपदं किम्?
(क) अन्योऽपि
(ख) बुद्धिमान्
(ग) महतो
(घ) भयात्
उत्तर:
(ख) बुद्धिमान्

(ii) ‘भामिनी’ इति पदस्य कः अर्थः?
(क) रूपवती स्त्री
(ख) कन्या
(ग) राजकुमारी
(घ) वृद्धा
उत्तर:
(क) रूपवती स्त्री

(iii) ‘मूर्खः’ इति पदस्य विपरीतार्थकम् पदम् किम्?
(क) अन्यः
(ख) भामिनी
(ग) बुद्धिमान्
(घ) निजबुद्ध्या
उत्तर:
(ग) बुद्धिमान्

(iv) ‘भयात्’ इति पदस्य विशेषणपदं किम्?
(क) सा
(ख) अन्यः
(ग) महतो
(घ) लोके
उत्तर:
(ग) महतो

(ग) भयाकुलं व्याघ्रं दृष्ट्वा कश्चित् धूर्तः शृगालः हसन्नाह- “भवान् कुतः भयात् पलायितः?”

व्याघ्रः – गच्छ, गच्छ जम्बुक! त्वमपि किञ्चिद् गूढप्रदेशम्। यतो व्याघ्रमारीति या शास्त्रे श्रूयते तयाहं हन्तुमारब्धः परं गृहीतकरजीवितो नष्टः शीघ्रं तदग्रतः।
शृगालः – व्याघ्र! त्वया महत्कौतुकम् आवेदितं यन्मानुषादपि बिभेषि ?
व्याघ्रः – प्रत्यक्षमेव मया सात्मपुत्रावेकैकशो मामत्तुं कलहायमानौ चपेटया प्रहरन्ती दृष्टा।
जम्बुकः – स्वामिन्! यत्रास्ते सा धूर्ता तत्र गम्यताम्। व्याघ्र! तव पुनः तत्र गतस्य सा सम्मुखमपीक्षते यदि, तर्हि त्वया अहं हन्तव्यः इति।

प्रश्नाः
I. एकपदेन उत्तरत
(i) गृहीतकरजीवितः कः पलायित:?
(ii) व्याघ्रः जम्बुकम् कुत्र गन्तुम् अकथयत्?
उत्तर:
(i) व्याघ्रः
(ii) गूढप्रदेशम्

II. पूर्णवाक्येन उत्तरत
व्याघ्रन किम् कुर्वन्ती सा दृष्टा?
उत्तर:
व्याघ्रन सा आत्मपुत्रौ एकैकशः व्याघ्रम् अत्तुम् (खादितुम्) कलहायमानौ चपेटया प्रहरन्ती दृष्टा।

III. प्रदत्तविकल्पेभ्यो शुद्धम् उत्तरम् चित्वा लिखत

(i) ‘त्वया अहं हन्तव्यः’ अत्र ‘त्वया’ इति सर्वनामपदम् कस्य कृते प्रयुक्तम्? _
(क) व्याघ्रस्य
(ख) व्याघ्राय
(ग) जम्बुकाय
(घ) जम्बुकस्य
उत्तर:
(क) व्याघ्रस्य

(ii) ‘भयाकुलं’ इति पदस्य विशेष्यपदं किम्?
(क) शृगालः
(ख) कश्चित्
(ग) भवान्
(घ) व्याघ्रम्
उत्तर:
(घ) व्याघ्रम्

(iii) ‘पलायितः’ इति क्रियापदस्य कर्तृपदं किम्?
(क) भवान्
(ख) कुतः
(ग) भयात्
(घ) व्याघ्रः
उत्तर:
(क) भवान्

(iv) ‘भक्षयितुम्’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) हन्तुम्
(ख) अत्तुम्
(ग) हन्तव्यः
(घ) आवेदितम्
उत्तर:
(ख) अत्तुम्

(घ) व्याघ्रः – शृगाल! यदि त्वं मां मुक्त्वा यासि तदा वेलाप्यवेला स्यात्।
जम्बुकः – यदि एवं तर्हि मां निजगले बद्ध्वा चल सत्वरम्। स व्याघ्रः तथाकृत्वा काननं ययौ।
शृगालेन सहितं पुनरायान्तं व्याघ्र दूरात् दृष्ट्वा बुद्धिमती चिन्तितवती-जम्बुककृतोत्साहाद् व्याघ्रात् कथं मुच्यताम् ? परं प्रत्युत्पन्नमतिः सा जम्बुकमाक्षिपन्त्यङ्गल्या तर्जयन्त्युवाच

प्रश्ना :
I. एकपदेन उत्तरत
(i) व्याघ्रः केन सह काननं ययौ?
(ii) प्रत्युत्पन्नमतिः का आसीत्?
उत्तर:
(i) शृगालेन
(ii) भामिनी/राजपुत्रस्य भार्या

II. पूर्णवाक्येन उत्तरत
पुनरायान्तं व्याघ्रं दृष्ट्वा बुद्धिमती किम् अचिन्तयत्?
उत्तर:
पुनरायान्तं व्याघ्रं दृष्ट्वा बुद्धिमती अचिन्तयत् यत् जम्बुककृतोत्साहाद् व्याघ्रात् कथम् मुच्यताम्।

III. प्रदत्तविकल्पेभ्यो उचितम् उत्तरं चित्वा लिखत
(i) ‘यासि’ इति क्रियापदस्य कर्तृपदं किम्? ____
(क) जम्बुकः
(ख) व्याघ्रः
(ग) त्वं
(घ) माम्
उत्तर:
(ग) त्वं

(ii) ‘समयः’ इति पदस्य समानार्थकम् पदं किम्?
(क) वेला
(ख) अवेला
(ग) सत्वरं
(घ) पुनः
उत्तर:
(क) वेला

(iii) ‘तर्हि माम् निजगले…..।’ अस्मिन् वाक्ये ‘माम्’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) जम्बुकः
(ख) व्याघ्रः
(ग) जम्बुकाय
(घ) व्याघ्राय
उत्तर:
(ग) जम्बुकाय

(iv) ‘बद्ध्वा’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) धूर्ता
(ख) मुक्त्वा
(ग) कृत्वा
(घ) दृष्ट्वा
उत्तर:
(ख) मुक्त्वा

II. प्रश्ननिर्माणम्

अधोलिखितकथनेषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं क्रियताम् उत्तराणि
(i)राजपुत्रस्यभार्या बुद्धिमती आसीत्।
(ii)मार्गे गहनकाननेबुद्धिमती एकं व्याघ्रं ददर्श।
(iii)भयाकुलंव्याघ्रं दृष्ट्वा शृगालः अहसत्।
(iv)शृगालेनसह व्याघ्रः पुनः आयाति स्म।
(v) बुद्धिमतीव्याघ्रस्यभयात् मुक्ता अभवत्।
(vi)प्रत्युत्पन्नमतिःसा शृगालं आक्षिपन्ती उवाच।
प्रश्ना:
(i) कस्य भार्या बुद्धिमती आसीत्?
(ii) कुत्र बुद्धिमती एकं व्याघ्रं ददर्श?
(iii) कीदृशं व्याघ्रं दृष्ट्वा शृगालः अहसत्?
(iv) केन सह व्याघ्रः पुनः आयाति स्म?
(v) बुद्धिमती कस्य भयात् मुक्ता अभवत्?
(vi) कीदृशी सा शृगालं आक्षिपन्ती उवाच?

III. ‘क’ अन्वयः

अधोलिखितश्लोकयोः अन्वययोः समुचितपदैः पूरयत
(1) निजबुद्ध्या विमुक्ता सा भयाद् व्याघ्रस्य भामिनी।
अन्योऽपि बुद्धिमाँल्लोके मुच्यते महतो भयात्।।
अन्वयः- सा भामिनी (i) ……………… व्याघ्रस्य (ii) ……………… लोके अन्यः (iii) ……………… बुद्धिमान् (iv) ………………
उत्तर:
सा भामिनी निजबुद्ध्या व्याघ्रस्य भयाद् विमुक्ता।
लोके अन्यः अपि बुद्धिमान् महतो भयात् मुच्यते।

(2) इत्युक्त्वा धाविता तूर्णं व्याघ्रमारी भयङ्करा।
व्याघ्रोऽपि सहसा नष्टः गलबद्ध शृगालकः।।
अन्वयः- इति (i). ……… भयङ्करा व्याघ्रमारी (ii)…………..गलबद्ध शृगालकः (iii). ….... अपि (iv)………..
उत्तर:
इति उक्त्वा भयङ्करा व्याघ्रमारी तूर्णं धाविता।
गलबद्ध शृगालकः व्याघ्रः अपि सहसा नष्टः।।

III. ‘ख’ भावार्थः

अधोलिखितकथनयोः समुचितं भावं प्रदत्तविकल्पेभ्यः चित्वा लिखत
(1) ‘अन्योऽपि बुद्धिमाँल्लोके मुच्यते महतो भयात्।
भावार्थ:-अस्य कथनस्य भावः अस्ति यत् सा (i)……………. निजबुद्ध्या (ii)………….. भयात् विमुक्ता अभवत् एवमेव बुद्धिमान् (iii)……….. महतो (iv)…. ….. अपि मुच्यते।।
मञ्जूषा- | भयात्, भामिनी, व्याघ्रस्य, जनः
उत्तर:
(i) भामिनी
(ii) व्याघ्रस्य
(iii) जनः
iv) भयात्

(2) ‘बुद्धिर्बलवती तन्वि सर्वकार्येषु सर्वदा।’
भावार्थ:-अस्य कथनस्य भावः अस्ति यत् बुद्धिः यस्य (i)……………. तस्य। नरः (ii)…………….. सर्वसमस्यानाम् समाधानं (ui). शक्नोति सर्वेषु कार्येषु च (iv)…. सफलः भवति।
मञ्जूषा- | सर्वदा, कर्तुम्, बलं, स्वबुद्ध्या |
उत्तर:
(i) बलं
(ii) स्वबुद्ध्या
(iii) कर्तुम्
(iv) सर्वदा

IV. कथा-क्रमानुसारम्
अधोलिखितानि वाक्यानि कथाक्रमेण संयोज्य लिखत

(i) “कथमेकैकशो व्याघ्रभक्षणाय कहलं कुरुथ:?”
(ii) तत्र राजसिंहः नाम राजपुत्रस्य भार्या पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।
(iii) मार्गे गहनकानने सा एकं व्याघ्रं ददर्श।
(iv) इयम् काचित् व्याघ्रमारी इति मत्वा व्याघ्रः भयाकुलचित्तो नष्टः।
(v) धूर्तः शृगालः हसन् आह-” भवान् कुतः भयात् पलायितः?”
(vi) बुद्धिमती व्याघ्रजाद् भयात् पुनः मुक्ता अभवत्।
(vii) यदि त्वं मां मुक्त्वा यासि तदा वेलाप्यवेला स्यात्।
(viii) बुद्धिमती चिन्तितवती-जम्बुककृतोत्साहाद् व्याघ्रात् कथं मुच्यताम्।
उत्तर:
(i) तत्र राजसिंहः नाम राजपुत्रस्य भार्या पुत्रद्वयोपेता पितुर्गृह प्रति चलिता।
(ii) मार्गे गहनकानने सा एकं व्याघ्रं ददर्श।
(iii) “कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथ:”?
(iv) इयम् काचित् व्याघ्रमारी इति मत्वा व्याघ्रः भयाकुलचित्तो नष्टः।
(v) धूर्तः शृगालः हसन् आह-” भवान् कुतः भयात् पलायित:”?
(vi) यदि त्वं मां मुक्त्वा यासि तदा वेलाप्यवेला स्यात्।
(vii) बुद्धिमती चिन्तितवती-जम्बुककृतोत्साहाद् व्याघ्रात् कथं मुच्यताम्।
(vii) बुद्धिमती व्याघ्रजाद् भयात् पुनः मुक्ता अभवत्।

Question 1 (V)

प्रसङ्गानुकूलम् उचितार्थम्

I. रेखाङ्कितपदानाम् प्रसंगानुसारम् शुद्धम् अर्थम् चित्वा लिखत

(i) व्याघ्रः तथाकृत्वा काननंययौ।
(क) अगच्छत्
(ख) अभ्रमत्
(ग) अधावत्
(घ) अगच्छताम्

Solution:
(क) अगच्छत्

(ii) गहनकानने सा एकं व्याघ्रंददर्श।।
(क) ददसि
(ख) ददाति
(ग) ददति
(घ) अपश्यत्
उत्तर:
(घ) अपश्यत्

(iii) सा पुत्रौ चपेटया प्रहृत्यजगाद।
(क) उक्तवती
(ख) जिघ्रति
(ग) जहाति
(घ) आगच्छत्
उत्तर:
(क) उक्तवती

(iv) गच्छ, गच्छजम्बुक!
(क) सिंहः
(ख) कटुफलम्
(ग) उष्ट्रः
(घ) शृगाल
उत्तर:
(घ) शृगाल

(v) तदावेलाअपि अवेला स्यात्।
(क) समयः
(ख) पुष्पम्
(ग) फलं
(घ) बालिका
उत्तर:
(क) समयः

(vi) बुद्धिमतीचपेटयापुत्रौ प्रहृतवती।
(क) चपलया
(ख) चञ्चलया
(ग) चालिता
(घ) करप्रहारेण
उत्तर:
(घ) करप्रहारेण

VI. पर्यायपदानि/विलोमपदानि

(1) अधोलिखितपदानां पर्यायपदानि लिखत
भार्या, कानने, जम्बुकः, तूर्णम्
उत्तर:
भार्या — पत्नी, वनिता।
कानने — विपिने, अरण्ये।
जम्बुकः — शृगालः, सियारः।
तूर्णम् — शीघ्रम्, त्वरितम्।

(2) ‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे तेषां विलोमपदानि, तयोः संयोगं कुरुत

उत्तर:

बुद्धिर्बलवती सदा (Buddhirbalavati_Sada) Diagram 4

बुद्धिर्बलवती सदा (Buddhirbalavati_Sada) Diagram 5

In-Article Ad Slot

CBSE 2026-27 Board Exam Preparation & Practice Papers

Free Chapter Notes & Question Bank by BoardExams.in