BoardExams.in
Class 6sanskritCBSE 2026-27

NCERT Solutions for Class 6 sanskrit Chapter 11: Class 6 Sanskrit Chapter 11

0 Solved Questions & Exercises8 min estimated readingUpdated 2026-09-16
Top Sponsor / Ad Space

CBSE 2026-27 Board Exam Preparation & Practice Papers

Free Chapter Notes & Question Bank by BoardExams.in

NCERT Solutions • Class 6 Sanskrit (Deepakam - दीपकम्)
Chapter 11: Class 6 Sanskrit Chapter 11
Latest Rationalised Syllabus (NEP 2026-27)

Click here to access the bestDeepakam Chapter 11 Question Answer पृथिव्यां त्रीणि रत्नानि textbook exercise questions and answers.

पृथिव्यां त्रीणि रत्नानि Class 6th Sanskrit Deepakam Chapter 11 Question Answer

वयम् अभ्यासं कुर्मः

१. एतानि सर्वाणि सुभाषितानि उच्चैः पठन्तु स्मरन्तु लिखन्तु च।

(इन सभी सुभाषितों को जोर से पढ़ो, याद करो और लिखो।)

२. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु।

(निम्नलिखित प्रश्नों के उत्तर एक पद में लिखें)

(क) पृथिव्यां कति रत्नानि सन्ति? – ……………..
उत्तरम्:
त्रीणि।

(ख) अयं निजः परो वा इति गणना केषां भवति ? – ………..
उत्तरम्:
लघुचेतसाम्।

(ग) कार्याणि क्रेन सिध्यन्ति ? – …………
उत्तरम्:
उद्यमेन।

(घ) विद्या किं ददाति ? – …………
उत्तरम्:
विनयम्।

(ङ) जननी जन्मभूमिश्च कस्मात् गरीयसी ? – ………..
उत्तरम्:
स्वर्गात्।

(च) लङ्का कीदृशी आसीत्? – ……………
उत्तरम्:
स्वर्णमयी।

३. अधोलिखितानां प्रश्नानाम् एकवाक्येन उत्तराणि लिखन्तु।

(अधोलिखित प्रश्नों के उत्तर एक वाक्य में लिखो)

(क) पृथिव्यां त्रीणि रत्नानि कानि सन्ति?
उत्तरम्:
पृथिव्यां त्रीणि रत्नानि जलम् अन्नं सुभाषितं च सन्ति।

(ख) उदारचरितानां भावः कः भवति ?
उत्तरम्:
उदारचरितानां वसुधा एव कुटुम्बकम् अस्ति।

(ग) मृगाः स्वयमेव कस्य मुखे न प्रविशन्ति ?
उत्तरम्:
मृगाः स्वयमेव सुप्तस्य सिंहस्य मुखे न प्रविशन्ति।

(घ) अभिवादनशीलस्य नित्यं कानि वर्धन्ते ?
उत्तरम्:
अभिवादनशीलस्य नित्यं चत्वारि आयुर्विद्यायशोबलं वर्धन्ते।

(ङ) मनुष्यः धनात् किम् आप्नोति ?
उत्तरम्:
मनुष्यः धनात् धर्मं प्राप्नोति।

(च) उत्पन्नेषु कार्येषु कीदृशं धनम् उपयोगाय न भवति ?
उत्तरम्:
उत्पन्नेषु कार्येषु परहस्तगतं धनम् उपयोगाय न भवति।

४. चित्रं दृष्ट्वा वाक्यानि रचयन्तु।

(चित्र देखकर वाक्यों की रचना करो)

उदाहरणम्-वृक्षः फलानि यच्छति।त्वं फलानि स्वीकरोषि।अहं फलानि स्वीकरोमि।
उत्तरम्:
(क) वृक्षः छायां यच्छति। छाया शीतला भवति। वयं छायायाम् विश्रामम् कुर्मः।
(ख) वृक्ष: कर्गदम् यच्छति। कर्गदः उपयोगाय भवति। वयम् कर्गदेषु लिखामः।
(ग) वृक्षः काष्ठं यच्छति। काष्ठम् इन्धनाय भवति। भवननिर्माणे काष्ठस्य आवश्यकता भवति।
(घ) वृक्षः शुद्धं वायुं यच्छति। अनेन पर्यावरणस्य शुद्धिः भवति। शुद्धेन वायुना वयं स्वस्थाः भवामः।
(ङ) वृक्षः पुष्पाणि यच्छति। पुष्पाणि सुगन्धं प्रसारयन्ति। पुष्पाणां माला भवति।

Class 6 Sanskrit Chapter 11 Diagram 1

५. अधोलिखितानि वाक्यानि पठित्वा ‘आम्’ अथवा ‘न’ इति लिखन्तु।

Class 6 Sanskrit Chapter 11 Diagram 2

(अधोलिखित वाक्यों को पढ़कर ‘हाँ’ अथवा ‘नहीं’ में लिखो।)

यथा – किं पृथिव्यां त्रीणि रत्नानि सन्ति?(आम्)

(क) त्रीणि रत्नानि जलम् अन्नं पाषाणः च सन्ति? …………
उत्तरम्:

(ख) किं धर्मेण सुखं प्राप्यते ? ……..
उत्तरम्:
आम्

(ग) किं विद्या विनयं ददाति ? ……..
उत्तरम्:
आम्

(घ) किम् अभिवादनशीलस्य विद्या वर्धते ? ………
उत्तरम्:
आम्

(ङ) किम् उद्यमेन कार्याणि नश्यन्ति ? …………
उत्तरम्:

(च) किं जन्मभूमि स्वर्गात् गरीयसी भवति ?
उत्तरम्:
आम्

६. चित्रे दर्शितस्य नाम लिङ्गं च निर्दिशन्तु।


(चित्र में दर्शाए गए का नाम और लिङ्ग लिखो।)
उत्तरम्:

Class 6 Sanskrit Chapter 11 Diagram 3

Class 6 Sanskrit Chapter 11 Diagram 4

७. वलये पदानि विलिख्य सुभाषितं पूरयन्तु।

(घेरे में पदों को लिख कर सुभाषित पूरा करो।)

उत्तरम्:

Class 6 Sanskrit Chapter 11 Diagram 5

Class 6 Sanskrit Chapter 11 Diagram 6

८. पट्टिकातः पदानि चित्वा निर्देशानुसार पदानि लिखन्तु।

Class 6 Sanskrit Chapter 11 Diagram 7

(पट्टी से पदों को चुनकर निर्देशानुसार पद लिखो।)

जननी धैर्यम् विद्या विनयः निजः पत्रम्
बुद्धि: मूलम् पराक्रमः शक्तिः धनम् उद्यमः

(क) प्रथमान्त-पुंलिङ्गपदानि सन्ति

1.उद्यमः
2. …………….
3. …………….
4. ……………
उत्तरम्:
1.उद्यमः
2.विनयः
3.निजः
4.पराक्रमः

(ख) प्रथमान्त – स्त्रीलिङ्गपदानि सन्ति

1.वसुधा
2. …………….
3. ……………
4. ……………
5. ……………
उत्तरम्:
1.वसुधा
2.जननी
3.विद्या
4.बुद्धिः
5.शक्ति:

(ग) प्रथमान्त नपुंसकलिङ्गपदानि सन्ति

1.साहसम्
2. ……………….
3. ……………….
4. ………………
5. ……………..
उत्तरम्:
1.साहसम्
2.धैर्यम्
3.पत्रम्
4.मूलम्
5.धनम्

९. पाठगतानि सुभाषितानि स्मृत्वा रिक्तस्थानानि पूरयन्तु।

(पाठ में आए सुभाषितों को याद करके रिक्तस्थानों को पूरा करें।)

(क) पृथिव्यां त्रीणि रत्नानि ……… सुभाषितम्।
उत्तरम्:
पृथिव्यां त्रीणि रत्नानि जलम् अन्नम् सुभाषितम्।

(ख) उदारचरितानां तु ……….. कुटुम्बकं भवति।
उत्तरम्:
उदारचरितानां तु वसुधैव कुटुम्बकं भवति।

(ग) उद्यमेन हि ………. सिद्ध्यन्ति।
उत्तरम्:
उद्यमेन हि कार्याणि सिद्ध्यन्ति।

(घ) अभिवादनशीलस्य वृद्धोपसेविनः ……….. वर्धन्ते।
उत्तरम्:
अभिवादनशीलस्य वृद्धोपसेविनः चत्वारि आयुर्विद्या यशोबलं वर्धन्ते।

(ङ) उद्यमः …………. पराक्रमः।
उत्तरम्:
उद्यमः साहसं धैर्यं बुद्धिः वर्त्तन्ते, तत्र देवः सहायकृत् पराक्रमः।

(च) विद्या ………… ददाति।
उत्तरम्:
विद्या विनयं ददाति।

(छ) जननी जन्मभूमिश्च ……….. गरीयसी भवति।
उत्तरम्:
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी भवति।

१०. चित्राणि दृष्ट्वा उचितान् श्लोकांशान् लिखन्तु।

(चित्र देखकर उचित श्लोकों का अंश लिखो)


उत्तरम्:
(क) उद्यमेन हि सिध्यन्ति कार्याणि।
(ख) पृथिव्यां त्रीणि रत्नानि जलम् अन्नम् सुभाषितम्।
(ग) जननीजन्मभूमिश्च स्वर्गादपि गरीयसी।
(घ) पात्रत्वाद् धनम् आप्नोति।
(ङ) उदारचरितानां तु वसुधैव कुटुम्बकम्।

Class 6 Sanskrit Chapter 11 Diagram 8

Class 6 Sanskrit Chapter 11 Diagram 9

योग्यताविस्तरः

एतानि सुभाषितानि विविधग्रन्थेभ्य: स्वीकृतानि सन्ति।
तेषां ग्रन्थानां परिचयः अत्र वर्णितः अस्ति, यथा-

(क) चाणक्यनीतिः – एषः एकः नीतिग्रन्थः अस्ति। अस्य रचनाकार: चाणक्यः अस्ति। अस्मिन् ग्रन्थे सूत्ररूपेण धर्म-संस्कृति-न्यायव्यवस्था – शान्ति – सुशिक्षा – इत्यादीनां विषये सुन्दरं विवरणम् अस्ति।

(ख) मनुस्मृतिः – मनुस्मृतिः एकः प्रसिद्धः नीतिग्रन्थः धर्मग्रन्थः च अस्ति। अस्य रचनाकार: महर्षि मनुः अस्ति। अस्मिन् ग्रन्थे द्वादश अध्यायाः सन्ति। अस्मिन् ग्रन्थे संसारस्य उत्पत्तिः, धर्म, संस्कृतिः मनुष्यस्य कर्तव्यानि इत्यादीनां वर्णनम् अस्ति।

(ग) पञ्चतन्त्रम्ः- पञ्चतन्त्रं कथाग्रन्थः अस्ति। अस्य रचनाकार: पण्डितः विष्णुशर्मा अस्ति। अस्मिन् पञ्च तन्त्राणि सन्ति। मित्रभेदः, मित्रलाभः काकोलूकीयम्, लब्धप्रणाशः, अपरीक्षितकारकं च।

(घ) हितोपदेशः – हितोपदेशस्य रचनाकार : नारायणपण्डितः अस्ति। अस्मिन् पशु-पक्षिणां कथाभिः बालानां कृते नीतिबोध: प्रस्तुतः अस्ति।

(ङ) रामायणम् – एषः ग्रन्थः भारतीयसंस्कृतेः आदर्शस्वरूपं दर्शयति। रामायणस्य रचयिता महर्षि वाल्मीकि : अस्ति। अस्मिन् ग्रन्थे भगवतः श्रीरामस्य चरितं वर्णितम् अस्ति। एषः ग्रन्थः आदिकाव्यम् इति नाम्ना प्रसिद्धः अस्ति।

(घ) सुभाषितरत्नभाण्डागारः – अस्मिन् ग्रन्थे सुभाषितानां संग्रह: अस्ति। विविध संस्कृतग्रन्थेभ्य: सुभाषितानि चित्वा अस्मिन् ग्रन्थे तेषां सङ्कलनं कृतम् अस्ति।

परियोजनाकार्यम्

१. पाठस्य सर्वाणि सुभाषितानि बृहत् स्फोरकपत्रे सचित्रं लिखित्वा कक्षायाः भित्तौ स्थापयन्तु।
उत्तरम्:
स्वयेव कुर्वन्तु।

२. सुभाषितेषु प्रयुक्तानां क्रियापदानां सूचीं कुर्वन्तु। तेषाम् आधारेण वाक्यरचनां कुर्वन्तु।
उत्तरम्:
सुभाषितेषु प्रयुक्तानां क्रियापदानां वाक्यरचना:-

३. विद्या, उद्यम, अभिवादनशीलः, इत्यादिगुणाः येषु सन्ति तादृशानां पञ्चानां महापुरुषाणां जीवनपरिचयं पठन्तु लिखन्तु च।
उत्तरम्:
1. पण्डित जवाहरलालनेहरू महोदयः पण्डित जवाहरलालनेहरू महोदयः स्वतन्त्र – भारतस्य प्रथमप्रधानमन्त्री आसीत्। तस्य जन्म उत्तरप्रदेशस्य प्रयागराजनगरे अभवत्। तस्य पिता मोतीलाल नेहरू माता च स्वरूपारानी आस्ताम्। सः आङ्ग्लदेशं उच्चशिक्षार्थम् अगच्छत्। स्वतन्त्रतासंग्रामे तस्य महत् योगदानम् आसीत्। स्वतन्त्रतायै सः बहुवारं कारागारम् अगच्छत्। सः कुशलः राजनीतिज्ञ: लेखक: च आसीत्। तस्य बालकान् प्रति प्रेमपूर्ण आचरणं आसीत्। एतदर्थं तस्य जन्मदिनम् अपि ‘बालदिवस’ इति रूपेण मन्यते।

2. महात्मा गान्धिमहोदयः भारतीयानाम् प्रियः नेता महात्मा गान्धिमहोदयः अस्ति। तस्य पूर्णनाम ‘मोहनदास करमचन्द गाँधी’ अस्ति। तस्य जन्म गुजरातराज्ये ‘पोरबन्दर’ इति नगरे अभवत्। तस्य माता ‘पुतलीबाई’, पिता ‘करमचन्द गाँधी’ भार्या च ‘कस्तूरबा ‘ आसन्। सः सत्ये अहिंसायां च विश्वसिति स्म। भारतस्य स्वतन्त्रतायै सः बहुवारं कारागृहम् अगच्छत्। ‘राष्ट्रपिता’ महात्मा, ‘बापू’ इत्यादिभिः उपाधिभिः भारतीयाः तस्य सम्मानं अद्यापि कुर्वन्ति।

3. स्वामी विवेकानन्दः विवेकानन्दस्य नाम नरेन्द्रनाथः आसीत्। सः रामकृष्ण परमहंसस्य शिष्यः आसीत्। भारतीयानाम् दुर्दशां परतन्त्रताम् च दृष्ट्वा तस्य मनः अति खिन्नम् अभवत्। अमेरिकादेशे शिकागोनगरे अखिल विश्व धार्मिक-सम्मेलने भाषणं कृत्वा अयं महापुरुषः प्रसिद्धि प्राप्तवान्। अयं युगपुरुष: सम्पूर्ण विश्वे प्रातः स्मरणीयः अस्ति।

4. महात्मा बुद्धः भारतवर्षे कपिलवस्तु नगरे राजपरिवारे अस्य जन्म अभवत्। अस्य नाम ‘सिद्धार्थः ‘ आसीत्। पिता शुद्धोधनः आसीत् माता च मायादेवी। बाल्याकालात् एव सः गम्भीर विरक्तमनः दयालुः च आसीत्। अस्य विवाह: ‘यशोधरा’ नाम कन्यया सह अभवत्। ‘राहुल: ‘ तस्य पुत्रः आसीत्। एकदा रात्रौ सः सर्वम् त्यक्त्वा गृहात् निर्गतः। स्थानात् स्थानं भ्रमन् सः बोधगयाम् अगच्छत्। तत्रैव सः वटमूले तपः अकरोत् महाबोधं च अलभत्। अत एव सः ‘बुद्ध:’ इति नाम्ना विख्यातः अभवत्। तेन बौद्धधर्मस्य प्रचारः प्रसारः च कृतः।

5. स्वामी दयानन्दः भारतस्य प्रमुखः समाज सुधारक: स्वामी दयानन्दः आसीत्। तस्य जन्म भारतस्य गुजरातप्रदेशे 1824 तमे वर्षे फरवरी मासस्य 12 दिनांके अभवत्। अध्यात्मविषये तस्य विशेषरुचिः आसीत्। सः आर्यसमाजस्य स्थापना अकरोत्। सः वैदिक शिक्षायाः प्रचाराय प्रसाराय च कार्यम् अकरोत्। अस्पृश्यता जातिभेदः इत्यादीनां सामाजिक दोषाणाम् सः तीव्रं विरोधं अकरोत्। ‘सत्यार्थ प्रकाश’ इति तेन लिखित: महत्वपूर्ण: ग्रन्थः प्रसिद्धः अस्ति।

४. “वसुधैव कुटुम्बकम्” इति विषये एकां भाषणप्रतियोगिताम् आयोजयन्तु।
उत्तरम्:
‘वसुधैव कुटुम्बकम्’: सृष्टेः स्त्रष्टा ईश्वर: एकः एव अस्ति। संसारस्य सर्वे प्राणिनः ईश्वरस्य सन्ततिः। अतः सम्पूर्णे विश्वे स्थिताः जनाः रूप-वर्ण- भाषा-संस्कृति-भेदान् धारयन्तः अपि ते सर्वे समानाः एव सन्ति। अतः श्रेष्ठः जनः सर्वप्राणिषु समानं व्यवहारं करोति, सर्वे स्निह्यति ते कमपि न पीडयति। भारतीयाः एतदर्थम् कथयन्ति। ‘सर्वे भवन्तु सुखिन: ‘ सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत्। अस्माकम् कृते तु वसुधैव कुटुम्बकम् इव अस्ति।

पठित-अवबोधनम्|

१. अधोलिखितश्लोकं पठित्वा प्रश्नानाम् उत्तरत-

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः।।

प्रश्ना:-

I. एकपदेन उत्तरत-

प्रश्न i.
के मुखे न प्रविशन्ति ?
उत्तरम्:
मृगा:

प्रश्न ii.
उद्यमेन कानि सिध्यन्ति ?
उत्तरम्:
कार्याणि

प्रश्न iii.
मनोरथैः कानि न सिध्यन्ति ?
उत्तरम्:
कार्याणि

प्रश्न iv.
कार्याणि केन सिध्यन्ति ?
उत्तरम्:
उद्यमेन

II. पूर्णवाक्येन उत्तरत-

(i) मृगाः कस्य मुखे न प्रविशन्ति ?
उत्तरम्:
मृगाः सुप्तस्य सिंहस्य मुखे न प्रविशन्ति।

III. निर्देशानुसारं उत्तरत-

(i) ‘मनोरथैः’ इति पदे का विभक्तिः ?
(क) द्वितीया
(ग) षष्ठी
(ख) तृतीया
(घ) सप्तमी
उत्तरम्:
(ख) तृतीया

(ii) प्रविशन्ति ‘ अत्र कः लकारः ?
(क) लृट्
(ख) लटू
(ग) लङ्
(घ) लोट्
उत्तरम्:
(क) लृट्

२. निम्नलिखितश्लोकस्य अन्वयं मञ्जूषातः समुचितं पदं चित्वा पूरयत-

श्लोक – विद्या ददाति विनयं विनयाद्याति पात्रताम्।
पात्रत्वाद्धनमाप्नोति धनाद्धर्मः ततः सुखम्।।

मञ्जूषा – धर्मः, विनयं धनम्,
अन्वयः – विद्या ……..(i)……… ददाति विनयात् ……… (ii)…… याति पात्रत्वात् …….(iii)……. आप्नोति, धनात् ……(iv)……. ततः सुखम्।
उत्तरम्:
(i) विनयं
(iii) धनम्
(ii) पात्रताम्
(iv) धर्म:

Class 6 Sanskrit Chapter 11 Diagram 10

३. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(i) लङ्कास्वर्णमयीआसीत्।
उत्तरम्:
लङ्का कीदृशी आसीत्?

(ii)अभिवादनशीलस्यचत्वारि वर्धन्ते।
उत्तरम्:
कस्य चत्वारि वर्धन्ते ?

(iii)देवःसहायक : भवति।
उत्तरम्:
कः सहायक : भवति ?

(iv)विद्याविनयं ददाति।
उत्तरम्:
का विनयं ददाति ?

(v) पात्रत्वात्धनम्आप्नोति।
उत्तरम्:
पात्रत्वाद् किम् आप्नोति ? दैः सह मेलयत-

४. पर्यायपदैः

उत्तरम्:

Class 6 Sanskrit Chapter 11 Diagram 11

Class 6 Sanskrit Chapter 11 Diagram 12

In-Article Ad Slot

CBSE 2026-27 Board Exam Preparation & Practice Papers

Free Chapter Notes & Question Bank by BoardExams.in