NCERT Solutions • Class 7 Sanskrit (Deepakam - दीपकम्) |
Students rely onand Class 7th Sanskrit Deepakam Chapter 12 Question Answer वीराङ्गना पन्नाधाया to clarify their doubts after class.
Sanskrit Class 7 Chapter 12 Question Answer वीराङ्गना पन्नाधाया
Class 7 Sanskrit Chapter 12 NCERT Solutions वीराङ्गना पन्नाधाया
कक्षा 7 संस्कृत पाठ 12 के प्रश्न उत्तर वीराङ्गना पन्नाधाया
१. अधः प्रदत्तानां प्रश्नानाम् एकपदेन उत्तरं लिखन्तु।
(नीचे दिए प्रश्नों के उत्तर एक पद में लिखिए।)
(क) राजस्थानस्य वीराङ्गनासु का सुविख्याता ?
(ख) उदयसिंहः कस्य पुत्रः ?
(ग) बनवीरः कं मारयितुम् कुतन्त्रम् अरचयत् ?
(घ) कालान्तरे कः मेवाडस्य राजा अभवत्?
(ङ) पन्नाधायायाः निर्णयः कीदृशः आसीत्?
(च) महाराणाप्रतापः केषां हृदये चिरं स्थानं प्राप्नोत् ?
उत्तर:
(क) पन्नाधाया
(ख) सङ्ग्रामसिंहस्य
(ग) उदयसिंह
(घ) उदयसिंहः
(ङ) अकल्पनीयः
(च) भारतीयानाम्
२. अधः प्रदत्तानां प्रश्नानाम् पूर्णवाक्येन उत्तरं लिखन्तु।
(नीचे दिए प्रश्नों के उत्तर पूर्णवाक्य में लिखिए।)
(क) पन्नाधाया कस्य अद्वितीयम् उदाहरणम् अस्ति ?
(ख) महाराणासङ्ग्रामसिंहस्य पुत्रौ कौ आस्ताम्?
(ग) दुष्टबुद्धिः बनवीरः किम् अचिन्तयत् ?
(घ) बनवीरस्य कुतन्त्रं ज्ञात्वा पन्नाधाया किम् अकरोत् ?
(ङ) आचन्द्रार्कं किं तिष्ठति ?
(च) पन्नाधायायाः बलिदानं किं शिक्षयति ?
उत्तर:
(क) पन्नाधाया त्यागस्य शौर्यस्य च अद्वितीयम् उदाहरणम् अस्ति।
(ख) महाराणासङ्ग्रामसिंहस्य द्वौ पुत्रौ विक्रमादित्य : उदयसिंहः च आस्ताम्।
(ग) दुष्टबुद्धिः बनवीर : अचिन्तयत् यत्- “अहम् एकः एव उत्तराधिकारी भवेयम्। न कोऽपि मम प्रतिस्पर्धी स्यात् ” इति।
(घ) बनवीरस्य कुतन्त्रं ज्ञात्वा पन्नाधाया उदयसिंहस्य शयनस्थाने स्वपुत्रं चन्दनं शायितवती।
(ङ) पन्नाधायायाः त्यागः शौर्यः च जगति आचन्द्रार्क तिष्ठति।
(च) पन्नाधायायाः बलिदानं सर्वान् शौर्यं, राष्ट्रभक्तिं, कर्त्तव्यनिष्ठां बलिदानं, विवेकं च शिक्षयति।

३. उदाहरणानुसारम् उचितैः पदैः रिक्तस्थानानि पूरयन्तु।
(उदाहरणानुसार उचित पदों से रिक्त स्थान भरिए।)
उत्तर:


४. वाक्यानि पठित्वा उदाहरणानुसारं वचन परिवर्तनं कुर्वन्तु।
(वाक्यों को पढ़कर उदाहरणानुसार वचन बदलिए।)
उत्तर:


५. उदाहरणानुसारं रेखाङ्कितानि पदानि आश्रित्य प्रश्ननिर्माणं कुर्वन्तु।
(उदाहरणानुसार नीचे दिए गए रेखांकित पदों से प्रश्न निर्माण कीजिए।)
यथा-महाराणासङ्ग्रामसिंहस्यभ्राता पृथ्वीराजः।
प्रश्न- कस्य भ्राता पृथ्वीराज : ?
(क)सःअचिन्तयत्।
(ख)शयनस्थानेचन्दनं शायितवती।
(ग)राष्ट्रहितंश्रेष्ठम्।
(घ) बनवीर:चन्दनम्अमारयत्।
(ङ)तस्याःनिर्णयः अकल्पनीयः आसीत्।
(च)उदयसिंह:मेवाडस्य राजा अभवत्।
(छ)ममप्रतिस्पर्धी न स्यात्।
उत्तर:
(क)कःअचिन्तयत् ?
(ख) चन्दनंकुत्रशायितवती ?
(ग)किंश्रेष्ठम् ?
(घ) बनवीर:कम्अमारयत् ?
(ङ)कस्याःनिर्णयः अकल्पनीयः आसीत्?
(च)कःमेवाडस्य राजा अवभवत्?
(छ)कस्यप्रतिस्पर्धी न स्यात् ?
६. उदाहरणानुसारम् अधः प्रदत्तानां पदानां सन्धिं कुर्वन्तु।
(उदाहरणानुसार नीचे दिए गए पदों की संधि कीजिए।)
यथा – विद्या + अभ्यासः =विद्याभ्यासः
(क) मम + अपि = ………………..
(ख) विद्या + अर्थी = ………………..
(ग) सह + अनुभूतिः = ………………..
(घ) कवि + इन्द्र: = ………………..
(ङ) गिरि + ईश: = ………………..
(च) वेद + अलङ्कारः = ………………..
(छ) दैत्य + अरिः = ………………..
(ज) सु + उक्तिः = ………………..
उत्तर:
(क) ममापि
(ख) विद्यार्थी
(ग) सहानुभूति:
(घ) कवीन्द्रः
(ङ) गिरीश :
(च) तस्यालङ्कारः
(छ) दैत्यारिः
(ज) सूक्ति:
७. उदाहरणानुसारम् अधः प्रदत्तानि वाक्यानि वर्तमानकाले (लट्लकारे) परिवर्तयन्तु।
(उदाहरणानुसार नीचे दिए गए वाक्यों को वर्तमानकाल (लट्लकार) में परिवर्तित कीजिए।)
यथा- पन्नाधाया राज्यम् अरक्षत्। –पन्नाधाया राज्यं रक्षति।
(क) उदयसिंहः वीरः आसीत्। – ……………..
(ख) अहं तत् सर्वम् अपश्यम्। – ……………..
(ग) बनवीरः कुतन्त्रम् अकरोत्। – ……………..
(घ) त्वं शयनस्थानम् अगच्छः। – ……………..
(ङ) ते कथाम् अपठन्। – ……………..
(च) धात्री उदयसिंहम् अपृच्छत्। – ……………..
(छ) वयं शूराः अभवाम| – ……………..
उत्तर:
(क) उदयसिंह : वीरः अस्ति।
(ख) अहं तत् सर्वं पश्यामि।
(ग) बनवीरः कुतन्त्रं करोति।
(घ) त्वं शयनस्थानं गच्छसि।
(ङ) ते कथां पठन्ति।
(च) धात्री उदयसिंहं पृच्छति।
(छ) वयं शूराः भवामः।
NCERT Class 7 Sanskrit Chapter 12 Extra Questions and Answers वीराङ्गना पन्नाधाया
प्रश्न 1
|
(नीचे लिखे गद्यांश को पढ़कर प्रश्नों के उत्तर लिखिए।)
(क) षोडशे शतके मेवाडनगरे महाराणा – सङ्ग्रामसिंहः इति सुविख्यातः महाराजः आसीत्। तस्य द्वौ पुत्रौ विक्रमादित्यः उदयसिंहः च आस्ताम्। महाराणासङ्ग्रामसिंहस्य भ्राता पृथ्वीराजः। बनवीरः पृथ्वीराजस्य अष्टादशसु पुत्रेषु अन्यतमः।
सः बनवीरः महाराणासङ्ग्रामसिंहस्य प्रथमं पुत्रं विक्रमादित्यं छलेन मारयित्वा मेवाडस्य शासनम् अकरोत्। ततः परमपि दुष्टबुद्धिः सः अचिन्तयत् यत् – ‘ अहम् एकः एव उत्तराधिकारी भवेयम्। न कोऽपि मम प्रतिस्पर्धी स्यात् इति।
अतः कदाचित् रात्रौ सः उदयसिंह मारयितुं कुतन्त्रम् अरचयत्। तद् ज्ञात्वा पन्नाधाया उदयसिंहस्य शयनस्थाने स्वपुत्रं चन्दनं शायितवती। सा तस्य दुष्परिणामं जानाति स्म। बनवीरः उदयसिंहस्य शयनागारम् आगच्छत्। तत्र सुप्तः चन्दनः एव उदयसिंहः इति मत्वा बनवीर : चन्दनम् अमारयत्।
एकपदेन उत्तरत।
(i) महाराणासङ्ग्रामसिंहः कदा राजा अभवत्?
(ii) महाराणा सङ्ग्रामसिंहस्य प्रथम – पुत्रस्य नाम किम् आसीत्?
उत्तर:
विक्रमादित्यः
(iii) बनवीरः कम् अमारयत्?
उत्तर:
चन्दनम्
II. पूर्णवाक्येन उत्तरत।
(i) महाराणासङ्ग्रामसिंहस्य कति पुत्राः आसन् ? तेषां नामानि लिखत।
उत्तर:
महाराणा सङ्ग्रामसिंहस्य द्वौ पुत्र विक्रमादियः, उदयसिंहः च आस्ताम्।
(ii) पृथ्वीराजस्य कति पुत्राः आसन् ?
उत्तर:
पृथ्वीराजस्य अष्टादश पुत्राः आसन्।
(iii) बनवीरः कं मारयितुं कुतन्त्रम् अरचयत् ?
उत्तर:
बनवीर : उदयसिंहं मारयितुम् कुतन्त्रम् अरचयत्।
III. भाषिककार्यम्।
(i) ‘पन्नाधाया स्वपुत्रं चन्दनं शायितवती। अत्र क्रियापदं किम् ?
(क) पन्नाधाया
(ख) शायितवती
(ग) स्वपुत्रं
उत्तर:
(ख) शायितवती
(ii) ‘जागरितः’ इति पदस्य विपर्ययपदं किं आगतम् ?
(क) सुप्तः
(ख) चन्दनः
(ग) बनवीरः
उत्तर:
(क) सुप्तः
(iii) ‘सा तस्य दुष्परिणामं जानाति स्म।’ अत्र कर्तृपदं किम् ?
(क) सा
(ख) तस्य
(ग) जानाति
उत्तर:
(क) सा
(iv) ‘दुष्टबुद्धि:’ पदं कस्मै प्रयुक्तम् ?
(क) चन्दनाय
(ख) बनवीराय
(ग) उदयसिंहाय
उत्तर:
(ख) बनवीराय
(ख) पन्नाधायायाः निर्णयः अकल्पनीयः आसीत्। ‘व्यक्तिहितं न, राष्ट्रहितम् एव श्रेष्ठम्’ इति सा जानाति स्म। तस्याः पुत्रस्तु दिवङ्गतः। परं सा मेवाडराज्यं बनवीरस्य कुतन्त्रात् अरक्षत्। कालान्तरे सः एव उदयसिंहः युद्धे बनवीरं हत्वा मेवाडराज्यस्य राजा अभवत्। तस्य पुत्रः एव पराक्रमी योद्धा महाराणाप्रतापः। सः प्रतापः शौर्येण भारतीयानां हृदये चिरं स्थानं प्राप्नोत्। कथ्यते एव – ‘यदि पन्नाधाया स्वपुत्रस्य बलिदानं न अकरिष्यत् तर्हि उदयसिंहः न अभविष्यत्। यदि उदयसिंहः न अभविष्यत् तर्हि महाराणाप्रतापः अपि न अभविष्यत’।
पन्नाधायायाः त्यागः शौर्यं च जगति आचन्द्रार्कं तिष्ठति। भारतीये इतिहासे वीराङ्गनानां गणनासु पन्नाधाया महत्तमं स्थानं प्राप्नोत्। पन्नाधायायाः बलिदानं सर्वान् शौर्यं, राष्ट्रभक्तिं कर्तव्यनिष्ठां बलिदानं, विवेकं च शिक्षयति।
एकपदेन उत्तरत।
(i) पन्नाधायायाः निर्णयः कीदृशः आसीत्?
(ii) महाराणाप्रतापः कस्य पुत्रः आसीत् ?
उत्तर:
उदयसिंहस्य
II. पूर्णवाक्येन उत्तरत।
(i) पन्नाधाया किं जानाति स्म ?
उत्तर:
‘व्यक्तिहितं न, राष्ट्रहितम् एव श्रेष्ठम्’ इति पन्नाधाया जानाति स्म।
(ii) वीराङ्गनानां गणनासु पन्नाधाया महत्तमं स्थानं कुत्र प्राप्नोत्?
उत्तर:
भारतीये इतिहासे वीराङ्गनानां गणनासु पन्नाधाया महत्तमं स्थानं प्राप्नोत्।
(iii) महाराणाप्रतापः कीदृशः आसीत्?
उत्तर:
महाराणाप्रतापः पराक्रमी योद्धा आसीत्।
III. भाषिककार्यम्।
(i) ‘रक्षाम् अकरोत्’ इति अर्थे किं पदं आगतम् ?
(क) अरक्षत्
(ख) अभवत्
(ग) अमारयत्
उत्तर:
(क) अरक्षत्
(ii) ‘सा जानाति स्म।’ अत्र क्रियापदं किम् ?
(क) जानाति
(ख) सा
(ग) स्म
उत्तर:
(क) जानाति
(iii) ‘संसारे’ इति अर्थे समानपदं किं आगतम् ?
(क) सर्वान्
(ख) जगति
(ग) विवेकम्
उत्तर:
(ख) जगति
(iv) ‘यदि उदयसिंह: न अभविष्यत् तर्हि महाराणाप्रतापः अपि न अभविष्यत्।’ अत्र कति अव्ययाः सन्ति?
(क) त्रीणि
(ख) चत्वारि
(ग) पञ्च
उत्तर:
(ख) चत्वारि
प्रश्न 2
|
(क)विद्यार्थीआलस्यं त्यजेत्।
(i) विद्या + अर्थी
(iii) विद्या + रथी
(ii) विद्य + आर्थी
उत्तर:
(i) विद्या + अर्थी
(ख) मह्यम् वर्षर्तुःअतीवरोचते।
(i) अती + ईव
(ii) अति + इव
(iii) अतीव + इव
उत्तर:
(ii) अति + इव
(ग)हिमालयःभारतस्य उत्तरदिशि अस्ति।
(i) हिम + आलय:
(ii) हिमा + लय:
(iii) हिमा + अलयः
उत्तर:
(i) हिम + आलय:
(घ)अद्यावकाशःअस्ति।
(i) अद्या + काशः
(ii) अद्य + अवकाशः
(iii) अद्या + आवकाशः
उत्तर:
(ii) अद्य + अवकाशः
(ङ) अहम् एकः एवउत्तराधिकारीभवेयम्।
(i) उत्तर + अधिकारी
(ii) उत्तरा + धिकारी
(iii) उत्तराधि + कारी
उत्तर:
(i) उत्तर + अधिकारी
(च)विक्रमादित्यःप्रतापी राजा अभवत्।
(i) विक्रमा + दित्य
(ii) विक्रम + आदित्यः
(iii) विक्र + मादित्य
उत्तर:
(ii) विक्रम + आदित्यः
(छ) गुरुं प्रतिअध्ययनार्थंगच्छति।
(i) अध्ययन + अर्थ
(ii) अध्ययना + आर्थां
(iii) अध्ययन + रथम्
उत्तर:
(i) अध्ययन + अर्थ
(ज) शृगालःपिपासाकुलःअभवत्।
(i) पिपास + अकुल:
(ii) पिपासा + अकुलः
(iii) पिपासय + कुलः
उत्तर:
(ii) पिपासा + अकुलः
(झ)सत्यार्थप्रकाशः प्रसिद्धः ग्रन्थः अस्ति।
(i) सत्य + अर्थः
(ii) सत्या + आर्थ
(iii) सत्य + आरथ
उत्तर:
(i) सत्य + अर्थः
प्रश्न 3
|
(क) अत्रसु + उक्तिःकिमर्थं लिखितम् ?
(i) सूक्ति:
(ii) सुक्ति
(iii) सुउक्ति
उत्तर:
(i) सूक्ति:
(ख) अद्य ममपरि + ईक्षाअस्ति।
(i) परिक्षा
(ii) परीक्षा
(iii) परिईक्षा
उत्तर:
(ii) परीक्षा
(ग)दया + आनन्दःसमाज सुधारकः आसीत्।
(i) दयानन्दः
(ii) दयायानंद
(iii) दयाआनन्द
उत्तर:
(i) दयानन्दः
(घ)राम + अनुजःलक्ष्मणः हनुमन्तं वदति।
(i) रामनुजः
(ii) रामानुजः
(iii) रामआनुज
उत्तर:
(ii) रामानुजः
(ङ) मम विद्यालये एक:पुस्तक + आलयःअस्ति।
(i) पुस्तकालयः
(ii) पुस्ताकालयः
(iii) पुस्तक आलय
उत्तर:
(i) पुस्तकालयः
(च) तत्र एक: शिवस्यदेव + आलयःअस्ति।
(i) देवस्यआलय
(ii) देवानां आलय
(iii) देवालयः
उत्तर:
(iii) देवालयः
(छ) पूर्वदिशिभानु + उदयःभवति।
(i) भानूदयः
(ii) भानुदयः
(iii) भानुउदय:
उत्तर:
(i) भानूदयः
(ज)हरि + ईश:अत्रैव वसति।
(i) हरिश:
(ii) हरीश:
(iii) हरिईश
उत्तर:
(ii) हरीश:
(झ) वाल्मीकि:मुनि + इन्द्र:अपि कथ्यते।
(i) मुनिइन्द्रः
(ii) मुनिन्द्रः
(iii) मुनीन्द्रः
उत्तर:
(iii) मुनीन्द्रः
प्रश्न 4
|
(विकल्पों से उचित विभक्ति युक्त पदों को चुनकर वाक्यपूर्ति कीजिए।)
(क) ………. अनुजः नवमकक्षायां पठति।
(i) माम्
(ii) मम
(iii) मह्यम्
उत्तर:
(ii) मम
(ख) भो: आचार्य अत्र ………. बालिकाः लिखन्ति।
(i) त्रयः
(ii) त्रीणि
(iii) तिस्र:
उत्तर:
(iii) तिस्र:
(ग) या श्रमेण पठति ……… एव साफल्यं लभते।
(i) सा
(ii) सः
(iii) ते
उत्तर:
(i) सा
(घ) एते ……… सन्ति।
(i) विद्वान
(ii) विद्वांसः
(iii) विदुषः
उत्तर:
(ii) विद्वांसः
(ङ) गुरु: ………. आशीर्वादं यच्छति।
(i) छात्रेभ्यः
(ii) छात्रान्
(iii) छात्रा:
उत्तर:
(i) छात्रेभ्यः
(च) अत्र मधुराणि …….. सन्ति।
(i) फलम्
(ii) फले
(iii) फलानि
उत्तर:
(iii) फलानि
(छ) …….. नाम किम् अस्ति ?
(i) तव
(ii) त्वया
(iii) त्वाम्
उत्तर:
(i) तव
(ज) राष्ट्रपति: ……… सम्मानं करोति।
(i) कविषु
(ii) कविभिः
(iii) कवीनाम्
उत्तर:
(iii) कवीनाम्
(झ) मेवाडनगरे ……… सुविख्यातः महाराजः आसीत्।
(i) सङ्ग्रामसिंहः
(ii) सङ्ग्रामसिंहम्
(iii) सङ्ग्रामसिंहेन
उत्तर:
(i) सङ्ग्रामसिंहः
(ञ) ……… निर्णयः अकल्पनीयः आसीत्।
(i) पन्नाधाया
(ii) पन्नाधायाया:
(iii) पन्नाधायस्य
उत्तर:
(ii) पन्नाधायाया:
प्रश्न 5
|
(क) अहम् उद्याने तिष्ठिष्यामि।
(ख) ते बालकाः फलानां रसं पिबिष्यन्ति।
(ग) श्वः अवकाशः अस्ति।
(घ) यः सोमवासरः भविष्यति।
(ङ) अहमपि त्वया सह गच्छिष्यामि।
उत्तर:
(क) अहम् उद्याने स्थास्यामि।
(ख) ते बालकाः फलानां रसं पास्यन्ति।
(ग) श्वः अवकाशः भविष्यति।
(घ) ह्यः सोमवासरः आसीत्।
(ङ) अहमपि त्वया सह गमिष्यामि।
प्रश्न 6
|
(क)काकानांवर्णः कृष्णः भवति। (एकवचने)
(ख)वृक्षस्यसुरक्षा अनिवार्या। (बहुवचने)
(ग)बालकस्यगीतं मधुरम् अस्ति। (द्विवचने)
(घ)युष्माकंविद्यालयः विशालः अस्ति। (एकवचने)
(ङ)ममदेश: भारतम् अस्ति। (बहुवचने)
(च)वेदस्यभाषा संस्कृतम् अस्ति। (बहुवचने)
उत्तर:
(क) काकस्य वर्णः कृष्णः भवति।
(ख) वृक्षाणां सुरक्षा अनिवार्या।
(ग) बालकयोः गीतं मधुरम् अस्ति।
(घ) तव विद्यालयः विशालः अस्ति।
(ङ) अस्माकं देश: भारतम् अस्ति।
(च) वेदानां भाषा संस्कृतम् अस्ति।
प्रश्न 7
|

CBSE 2026-27 Board Exam Preparation & Practice Papers
Free Chapter Notes & Question Bank by BoardExams.in