BoardExams.in
Class 7sanskritCBSE 2026-27

NCERT Solutions for Class 7 sanskrit Chapter 9: Class 7 Sanskrit Chapter 10

6 Solved Questions & Exercises7 min estimated readingUpdated 2026-09-16
Top Sponsor / Ad Space

CBSE 2026-27 Board Exam Preparation & Practice Papers

Free Chapter Notes & Question Bank by BoardExams.in

NCERT Solutions • Class 7 Sanskrit (Deepakam - दीपकम्)
Chapter 9: Class 7 Sanskrit Chapter 10
Latest Rationalised Syllabus (NEP 2026-27)

Students rely onand Class 7th Sanskrit Deepakam Chapter 10 Question Answer दशमः कः to clarify their doubts after class.

Sanskrit Class 7 Chapter 10 Question Answer दशमः कः

Class 7 Sanskrit Chapter 10 NCERT Solutions दशमः कः

कक्षा 7 संस्कृत पाठ 10 के प्रश्न उत्तर दशमः कः

१. कोष्ठकात् समीचीनम् उत्तरं चित्वा लिखन्तु।

(कोष्ठक से सही उत्तर चुनकर लिखिए | )

(क) कति बालकाः स्नातुं गताः ? (पञ्च, द्वादश, दश)
(ख) कतमः बालकः नद्यां मग्नः इति निश्चयम् अकुर्वन् ? (प्रथमः, दशमः, पञ्चमः)
(ग) दशमः कः आसीत्? (नायकः, पथिकः, नदी)
(घ) कः सम्यक् रूपेण बालकान् गणितवान्? (नायकः, पथिकः, बालक:)
(ङ) बालकाः कां तीर्त्वा पारं गता: ? (पुष्करिणीम्, समुद्रम्, नदीम् )
उत्तरः
(क) दश
(ख) दशमः
(ग) नायकः
(घ) पथिकः
(ङ) नदीम्

२. पाठस्य आधारेण एकवाक्येन प्रश्नानाम् उत्तराणि लिखन्तु।

(पाठ के आधार पर प्रश्नों के उत्तर एक वाक्य में दीजिए।)

(क) दश बालकाः किमर्थं नदीम् अगच्छन्?
(ख) नायकः किम् अपृच्छत्?
(ग) बालकाः स्नानाय कुत्र अगच्छन् ?
(घ) बालकाः किं निश्चयम् अकुर्वन् ?
(ङ) बालकाः कथं गृहम् अगच्छन्?
उत्तरः
(क) दश बालकाः स्नानाय नदीम् अगच्छन्।
(ख) नायक: अपृच्छत् – अयि बालकाः ! युष्माकं दुःखस्य कारणं किम्?
(ग) बालकाः स्नानाय नदीम् अगच्छन्।
(घ) बालकाः निश्चयम् अकुर्वन् यत् दशमः नद्यां मग्नः।
(ङ) बालकाः मिलित्वा आनन्देन गृहम् अगच्छन्।

३. पट्टिकातः उचितं विशेषणपदं योजयित्वा वाक्यानि रचयन्तु।

(पट्टिका से उचित विशेषण पद को जोड़कर वाक्य बनाइए।)


उत्तरः
(क) द्वितीया
(ख) चतुर्थी
(ग) प्रथमा
(घ) पञ्चमी
(ङ) तृतीया

Class 7 Sanskrit Chapter 10 Diagram 1

४. पट्टिकां दृष्ट्वा प्रश्नानाम् उत्तराणि लिखन्तु।

(पट्टिका को देखकर प्रश्नों के उत्तर लिखिए।)

Class 7 Sanskrit Chapter 10 Diagram 2

(क) सप्ताहस्य प्रथमः दिवसः कः ? ………………
उत्तरः
रविवासरः

(ख) सप्ताहस्य कतमः दिवसः रविवासरः अस्ति ? ……………..
उत्तरः
प्रथमः

(ग) सप्ताहस्य षष्ठः दिवसः कः ? ……….
उत्तरः
शुक्रवासरः

(घ) सप्ताहस्य कतमः दिवसः शनिवासरः अस्ति ? ………..
उत्तरः
सप्तमः

(ङ) सप्ताहस्य अन्तिमः दिवसः कः अस्ति ? …………
उत्तरः
शनिवासरः

५. वाटिकां दृष्ट्वा प्रश्नानाम् उत्तराणि लिखन्तु।

(पट्टिका को देखकर प्रश्नों के उत्तर लिखिए।)

(क) मासेषु पञ्चमः मासः कः ?
(ख) मार्गशीर्षः कतमः मासः अस्ति ?
(ग) मासेषु दशमः मासः कः ?
(घ) कार्त्तिकः कतमः मासः अस्ति ?
(ङ) मासेषु अन्तिमः मासः कः ?
उत्तरः
(क) श्रावण:
(ख) नवमः
(ग) पौषः
(घ) अष्टमः
(ङ) फाल्गुनः

Class 7 Sanskrit Chapter 10 Diagram 3

६. मञ्जूषां पश्यन्तु, उत्तरं लिखन्तु –

आङ्ग्लमासाः
(मंजूषा देखिए और उत्तर लिखिए।)

Class 7 Sanskrit Chapter 10 Diagram 4

(क) आङ्ग्लमासेषु दशमः मासः ………………
(ख) फरवरीमासः ……………… मासः अस्ति।
(ग) आङ्ग्लमासेषु अष्टमः मासः ………………
(घ) सितम्बरमास: …….. मासः अस्ति।
(ङ) आङ्ग्लमासेषु अन्तिमः मासः …………।
उत्तरः
(क) अक्तूबरमासः
(ख) द्वितीयः
(ग) अगस्तमासः
(ङ) दिसम्बरमास:
(घ) नवमः

७. अधोलिखिते गद्यांशे अङ्कानां स्थाने संख्यावाचकशब्दान् लिखन्तु।

(निम्नलिखित गद्यांश में अंकों के स्थान पर संख्यावाचक शब्द लिखिए।)

यथा- (१) पाठशाला – एका पाठशाला।


उत्तरः

Class 7 Sanskrit Chapter 10 Diagram 5

Class 7 Sanskrit Chapter 10 Diagram 6

NCERT Class 7 Sanskrit Chapter 10 Extra Questions and Answers दशमः कः

प्रश्न 1


अधोलिखित- अङ्कानां स्थाने संख्यावाचक- पदैः रिक्तस्थानानि पूरयत। (नीचे दिए गए अंकों के स्थान पर संख्यावाचक शब्दों से रिक्तस्थानों की पूर्ति कीजिए।)

उत्तरः

Class 7 Sanskrit Chapter 10 Diagram 7

Class 7 Sanskrit Chapter 10 Diagram 8

प्रश्न 2


रिक्तस्थानपूर्तिः उचितसंख्यावाचकपदेन क्रियताम्।
(रिक्त स्थानों की पूर्तिसंख्यावाचक पदों से कीजिए।)
(क) धर्म-अर्थ-काममोक्षाः इति ……… (४) पुरुषार्थाः सन्ति।
(ख) हस्ते (५) ………. अङ्गुल्यः भवन्ति।
(ग) ईश्वरः ……… (१) अस्ति।
(घ) ………. (३). पत्राणि पतन्ति।
(ङ) सप्ताहे ……… (७) दिनानि भवन्ति।
(च) मासे ………. (२) पक्षौ भवतः शुक्लपक्षः कृष्णपक्षः च।
(छ) (१) ……… वर्षे …….. (१२) मासः भवन्ति।
(ज) धातवः …….. (८) भवन्ति।
(झ) वेदा: …….. (४) सन्ति ऋग्वेद:, यजुर्वेदः, सामवेदः, अथर्ववेदः च।
उत्तरः
(क) चत्वारः
(ख) पञ्च
(ग) एक:
(घ) त्रीणि
(ङ) सप्त
(च) द्वौ
(छ) एकस्मिन् ; द्वादश
(झ) चत्वारः
(ज) अष्ट

प्रश्न 3


अधोलिखितानि क्रमानुसारेण लिखन्तु।
(निम्नलिखित को क्रमानुसार लिखिए |)
यथा- मासः, पक्षः, दिवसः, वर्षम्।
• दिवसः, पक्षः, मासः, वर्षम्।

(क) कलियुगम्, द्वापरम्, त्रेता, सतयुगम्।
(ख) चतुर्थी, प्रतिपदा, त्रयोदशी, अष्टमी।
(ग) वर्षा, वसन्तः, ग्रीष्मः, हेमन्तः।
(घ) आषाढः, चैत्रः, ज्येष्ठः, वैशाखः।
उत्तरः
(क) सतयुगम्, त्रेता, द्वापर, कलियुगम्।
(ख) प्रतिपदा, चतुर्थी, अष्टमी, त्रयोदशी।
(ग) वसन्तः, ग्रीष्मः, वर्षा, हेमन्तः।
(घ) चैत्रः, वैशाखः, ज्येष्ठः, आषाढः।

प्रश्न 4


अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत।
(निम्नलिखित गद्यांश को पढ़कर प्रश्नों के उत्तर लिखिए।)

(क) एकदा दश बालकाः स्नानाय नदीम् अगच्छन्। ते नदीजले चिरं स्नानम् अकुर्वन्। ततः ते तीर्त्वा पारं गताः। तदा तेषां नायकः अपृच्छत्— अपि सर्वे बालकाः नदीम् उत्तीर्णा : ? तदा कश्चित् बालकः सर्वान् पङ्क्तौ स्थापयित्वा अगणयत् एकः द्वौ, त्रयः, चत्वारः, पञ्च, षट्, सप्त, अष्ट, नव इति। सः आत्मानं न अगणयत्। अतः सः अवदत् – अरे वयं नव एव स्मः भोः! दशमः नास्ति। अपरः अपि बालक : पुनः आत्मानं त्यक्त्वा अन्यान् बालकान् अगणयत्। तदा अपि नव एव आसन्। अतः ते निश्चयम् अकुर्वन् यत् दशमः नद्यां मग्नः। ते विषण्णाः तूष्णीम् अतिष्ठन्।

I. एकपदेन उत्तरत।

(i) कति बालकाः नदीम् अगच्छन् ?
उत्तरः
दश

(ii) बालकाः कीदृशा: अतिष्ठन् ?
उत्तरः
विषण्णाः

(iii) एकः बालकः कंम न अगणयत् ?
उत्तरः
आत्मानं

II. पूर्णवाक्येन उत्तरत।

(i) बालकानां नायकः किम् अपृच्छत् ?
उत्तरः
बालकानां नायकः: अपृच्छत्-अपि सर्वे बालकाः नदीम् उत्तीर्णा : ?

(ii) बालकाः किमर्थम् अगच्छन् ?
उत्तरः
बालकाः स्नानाय नदीम् अगच्छन्।

(iii) बालकाः किं कृत्वा पारं गता: ?
उत्तरः
बालकाः तीर्त्वा पारं गताः।

(iv) अपरः बालकः किम् अकरोत् ?
उत्तरः
अपरः बालकः अपि पुनः आत्मानं त्यक्त्वा अन्यान् बालकान् अगणयत्।

III. भाषिककार्यम्।

(i) ‘सर्वे बालकाः’ अत्र विशेषणपदं किम् ?
(क) सर्वे
(ख) बालकाः
(ग) सर्वे बालकाः
उत्तरः
(क) सर्वे

(ii) कश्चित् बालकः सर्वान् …….. स्थापयित्वा अगणयत्। रिक्तस्थानपूर्तिः क्रियताम्।
(क) पंक्तिः
(ख) पंक्तौ
(ग) पंक्तेः
उत्तरः
(ख) पंक्तौ

(iii) ‘अतः सः अवदत्।’ अत्र क्रियापदं किम् ?
(क) अवदत्
(ख) सः
(ग) अतः
उत्तरः
(क) अवदत्

(iv) ‘ते विषण्णाः अभवन्।’ अत्र कर्तृपदं किम् ?
(क) अभवत्
(ख) ते
(ग) विषण्णाः
उत्तरः
(ख) ते

(ख) तदा कश्चित् पथिकः तत्र आगच्छत्। सः तान् बालकान् दुःखितान् दृष्ट्वा अपृच्छत् – अयि बालकाः ! युष्माकं दुःखस्य कारणं किम्? बालकानां नायक: अकथयत् ‘वयं दश बालकाः स्नातुम् आगताः। इदानीं नव एव स्मः। एकः नद्यां मग्नः’ इति।

पथिक : तान् अगणयत्। तत्र दश बालकाः तु आसन्। सः नायकम् आदिशत् त्वं बालकान् गणय। सः नव बालकान्
एव अगणयत्। तदा पथिकः अवदत् – दशमः त्वम् असि इति। तत् श्रुत्वा सर्वे प्रहृष्टाः भूत्वा अकथयन् – दशमः प्राप्तः दशमः प्राप्तः इति। ततः सर्वे मिलित्वा आनन्देन गृहम् अगच्छन्।

I. एकपदेन उत्तरत।

(i) तत्र कः आगच्छत् ?
उत्तरः
पथिकः

(ii) पथिकः कान् अगणयत् ?
उत्तरः
बालकान्

(iii) बालकाः कति आसन् ?
उत्तरः
दश

(iv) पथिकः कम् आदिशत् ?
उत्तरः
नायकम्

II. पूर्णवाक्येन उत्तरत।

(i) पथिकः किम् अपृच्छत् ?
उत्तरः
पथिकः अपृच्छत्- अयि बालकाः ! युष्माकं दुःखस्य कारणं किम् ?

(ii) पथिकः किम् अवदत् ?
उत्तरः
पथिकः किम् अवदत् – ‘दशमः त्वम् असि।’

(iii) किं श्रुत्वा बालकाः प्रसन्नाः अभवन्?
उत्तरः
‘दशमः त्वम् असि।’ इति श्रुत्वा बालकाः प्रसन्नाः अभवन्।

(iv) नायकः किम् अकथयत् ?
उत्तरः
नायक: अकथयत् ‘वयं दश बालकाः स्नातुम् आगताः। इदानीं नव एव स्मः एकः नद्यांमग्नः’ इति।

III. भाषिककार्यम्।

(i) ‘तदा कश्चित् पथिकः तत्र आगच्छत्। ‘ अस्मिन् वाक्ये अव्ययपदानि प्रयुक्तानि –
(क) त्रीणि
(ख) चत्वारि
(ग) पञ्च
उत्तरः
(क) त्रीणि

(ii) ‘आकर्ण्य’ इति पदस्य समानार्थकपदं किं प्रयुक्तम् ?
(क) सर्वे
(ख) प्रहृष्टाः
(ग) श्रुत्वा
उत्तरः
(ग) श्रुत्वा

(iii) ‘त्वं बालकान् गणय।’ अत्र कर्तृपदं किम् ?
(क) बालकान्
(ख) त्वम्
(ग) गणय
उत्तरः
(ख) त्वम्

(iv) ‘सः बालकान् अगणयत्।’ अत्र क्रियापदं किम् आगतम्?
(क) सः
(ख) बालकान्
(ग) अगणयत्
उत्तरः
(ग) अगणयत्

प्रश्न 5


विलोमपदानि मेलयत।
(विलोम पदों को मिलाइए।)

उत्तरः
(क) – (iv)
(ख) – (i)
(ग) – (vi)
(घ) – (v)
(ङ) – (ii)
(च) – (iii)

Class 7 Sanskrit Chapter 10 Diagram 9

प्रश्न 6


पर्यायपदानि मेलयत।
(पर्याय पदों को मिलाइए।)

उत्तरः
(क) – (iv)
(ख) – (i)
(ग) – (viii)
(घ) – (ii)
(ङ) – (vii)
(च) – (iii)
(छ) – (vi)
(ज) – (v)

Class 7 Sanskrit Chapter 10 Diagram 10

In-Article Ad Slot

CBSE 2026-27 Board Exam Preparation & Practice Papers

Free Chapter Notes & Question Bank by BoardExams.in