BoardExams.in
Class 8sanskritCBSE 2026-27

NCERT Solutions for Class 8 sanskrit Chapter 7: भारतजनताऽहम् (Bharat_Janta_Aham)

0 Solved Questions & Exercises5 min estimated readingUpdated 2026-09-16
Top Sponsor / Ad Space

CBSE 2026-27 Board Exam Preparation & Practice Papers

Free Chapter Notes & Question Bank by BoardExams.in

NCERT Class 8 Sanskrit (Ruchira Bhag 3) Solutions
Chapter 7: भारतजनताऽहम् (Bharat_Janta_Aham)

Students rely on

Sanskrit Class 8 Chapter 7 Question Answer मञ्जुलमञ्जूषा सुन्दरसुरभाषा

Class 8 Sanskrit Chapter 7 NCERT Solutions मञ्जुलमञ्जूषा सुन्दरसुरभाषा

कक्षा 8 संस्कृत पाठ 7 के प्रश्न उत्तर मञ्जुलमञ्जूषा सुन्दरसुरभाषा

अभ्यासात् जायते सिद्धिः (पृष्ठ 81–84)

१. अधः प्रदत्तानां प्रश्नानां एकपदेन उत्तरं लिखत-
(क) सुन्दरसुरभाषा कस्य वचनातीता?
___________________________
उत्तराणि :
मम (कवे 🙂

(ख) संस्कृतभाषा कुत्र विजयते ?
___________________________
उत्तराणि :
सर्वत्र

(ग) संस्कृतभाषा कस्य आशा ?
___________________________
उत्तराणि :
जीवनस्य

(घ) संस्कृते कति रसाः सन्ति?
___________________________
उत्तराणि :
नवरसाः

(ङ) कस्याः ध्वनिश्रवणेन सुखं वर्धते ?
___________________________
उत्तराणि :
संस्कृतभाषायाः

२. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत-
(क) संस्कृतभाषा केषां जीवनस्य आशा अस्ति ?
___________________________
उत्तराणि :
संस्कृतभाषा पौराणिक – सामान्यजनानां जीवनस्य आशा अस्ति।

(ख) केषां विचाराः जनान् अभिप्रेरयन्ति?
___________________________
उत्तराणि :
वेदविषय – वेदान्तानाम् विचाराः जनान् अभिप्रेरयति।

(ग) कै: रसैः समृद्धा साहित्यपरम्परा विराजते ?
___________________________
उत्तराणि :
नवरसैः समृद्धा साहित्यपरम्परा विराजते।

(घ) संस्कृतभाषा केषु शास्त्रेषु विहरति ?
___________________________
उत्तराणि :
संस्कृतभाषा वेदवेदान्तादिषु, वैद्य – व्योमशास्त्रादिषु च विहरति।

(ङ) संस्कृतभाषायाः कानि कानि सम्बोधनपदानि अत्र प्रयुक्तानि ?
___________________________
उत्तराणि :
श्रुतिसुखनिनदे ! सकलप्रमोदे ! स्मृतिहितवरदे। सरसविनोदे! गति-मति – प्रेरक – काव्यविशारदे ! मात! इत्यादीनि सम्बोधनपदानि संस्कृतभाषायाः कृते अत्र प्रयुक्तानि।

३. रेखाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत-
(क) मुनिगणाः संस्कृतभाषायाः विकासं कृतवन्तः।
___________________________
उत्तराणि :
मुनिगणा: कस्या: विकासं कृतवन्त:?

(ख) सामान्यजनानां जीवनं काव्यैः प्रभावितम् अस्ति।
___________________________
उत्तराणि :
सामान्यजनानां जीवनं कै: प्रभावितम् अस्ति?

(ग) कवयः अपि उपादेयानि काव्यानि रचितवन्तः।
___________________________
उत्तराणि :
कवयः अपि कीदृशानि काव्यानि रचितवन्तः?

(घ) संस्कृतभाषा पुथिव्यां विहरति।
___________________________
उत्तराणि :
संस्कृतभाषा कुत्र विहरति?

(ङ) संस्कृतभाषा विविधभाषा: परिपोषयति।
___________________________
उत्तराणि :
संस्कृतभाषा का: परिषोषयति?

(च) वेद-वेदाङ्गादीनि गभीराणि शास्त्राणि सन्ति।
___________________________
उत्तराणि :
वेद-वेदाङ्गादीनि गभीराणि कानि सन्ति?

४. अध: प्रदत्तानां उदाहरणानुसारं विभक्तिं वचनं च लिखत-

उत्तराणि :

भारतजनताऽहम् (Bharat_Janta_Aham) Diagram 1

(क) तव

षष्ठी

एकवचनम्

(ख) मज्जूषा

प्रथमा

एकवचनम्

(ग) संस्कृतिः

प्रथमा

एकवचनम्

(घ) जनानाम्

षष्ठी

बहुवचनम्

(ङ) जीवनस्य

षष्ठी

एकवचनम्

(च) धरायाम्

सप्तमी

एकवचनम्

(छ) शास्त्रेषु

सप्तमी

बहुवचनम्

५. अधोलिखितानां पद्यांशानां यथायोग्यं मेलनं कुरुत-

‘कवर्गः’

‘खवर्गः’

(क) अयि मातस्तव पोषणक्षमता

स्मृतिहितवरदे सरसविनोदे

(ख) वेदव्यास-वाल्मीकि -मुनीनां

विजयते धरायाम्

(ग) पौराणिक-सामान्यजनानाम्

मम वचनातीता, सुन्दरसुरभाषा

(घ) श्रुतिसुखनिनदे सकलप्रमोदे

कालिदासबाणादिकवीनाम्

(ङ) वैद्यव्योम-शास्त्रादिविहारा

जीवनस्य आशा, सुन्दरसुरभाषा

Solution:
ाणि :

‘कवर्गः’

‘खवर्गः’

(क) अयि मातस्तव पोषणक्षमता

मम वचनातीता,

(ख) वेदव्यास-वाल्मीकि – मुनीनां

सुन्दरसुरभाषा।

(ग) पौराणिक-सामान्यजनानाम्

कालिदासबाणादिकवीनाम्।

(घ) श्रुतिसुखनिनदे सकलप्रमोदे

जीवनस्य आशा, सुन्दरसुरभाषा।

(ङ) वैद्यव्योम – शास्त्रादिविहारा

स्मृतिहितवरदे सरसविनोदे।

६. उदाहरणानुसारम् अधः प्रदत्तानां पदानाम् एकपदेन अर्थं लिखत-

यथा— देवस्य आलयः = देवालयः
(क) सुराणां भाषा = _______________
(ख) सुन्दरी सुरभाषा = _______________
(ग) नवरसैः रुचिरा = _______________
(घ) पोषणस्य क्षमता = _______________
(ङ) मञ्जुला भाषा = ______________
उत्तराणि :
(क) सुरभाषा
(ख) सुन्दरसुरभाषा
(ग) नवरसरुचिरा
(घ) पोषणक्षमता
(ङ) मञ्जुलभाषा

भारतजनताऽहम् (Bharat_Janta_Aham) Diagram 2

७. पेटिकातः पदानि चित्वा रिक्तस्थानानि पूरयत-

कालिदासबाणादि, आशा, संस्कृतिः, विजयते, मम, वेदविषय, मञ्जुलमञ्जूषा, सकलप्रमोदे

यथा – मुनिवर – विकसित – कविवर – विलसित- मञ्जुलमञ्जूषा सुन्दरसुरभाषा।
(क) अयि मातः तव पोषणक्षमता ______________ वचनातीता।
उत्तराणि :
मम

(ख) वेदव्यास-वाल्मीकि – मुनीनां ______________ कवीनाम्।
उत्तराणि :
कालिदासबाणादि

(ग) पौराणिक – सामान्य जनानां जीवनस्य ______________।
उत्तराणि :
आशा

(घ) श्रुतिसुखनिनदे ______________ स्मृतिहितवरदे सरसविनोदे।
उत्तराणि :
सकलप्रमोदे

(ङ) गति-मति -प्रेरक-काव्य-विशारदे, तव ______________ एषा सुन्दरसुरभाषा।
उत्तराणि :
संस्कृति:

(च) नवरस-रुचिरालङ्कृतिधारा ______________ वेदान्तविचारा।
उत्तराणि :
वेदविषय

(छ) वैद्य-व्योम-शास्त्रादि-विहारा ______________ धरायाम्, सुन्दरसुरभाषा।
उत्तराणि :
विजयते

८. अधोलिखितविकल्पेषु प्रसङ्गानुसारम् अर्थं चिनुत-
(i) “मञ्जुलमञ्जूषा” इत्यस्य अर्थः कः ?
(क) कठोरभाषा
(ख) शोचनीया भाषा
(ग) मनोहररूपेण संकलिता
(घ) सामान्यभाषा
उत्तराणि :
(ग) मनोहररूपेण संकलिता

(ii) सुन्दरसुरभाषा केषां जीवनस्य आशा उच्यते ?
(क) केवलं कवीनाम्
(ख) बालकानाम्
(ग) पौराणिक – सामान्यजनानाम्
(घ) छात्राणाम्
उत्तराणि :
(ग) पौराणिक – सामान्यजनानाम्

(iii) सुन्दरसुरभाषा कुत्र विजयते ?
(क) आकाशे
(ख) जलधौ
(ग) धरायाम्
(घ) पवने
उत्तराणि :
(ग) धरायाम्

(iv) सुन्दरसुरभाषायां किं नास्ति ?
(क) शास्त्रज्ञानम्
(ख) संस्कृतिः
(ग) वेदान्तचिन्तनम्
(घ) अशुद्धि:
उत्तराणि :
(घ) अशुद्धि:

(v) कविः सुन्दरसुरभाषां केन पदेन सम्बोधयति ?
(क) पितः
(ख) मात:
(ग) भ्रात:
(घ) दात:
उत्तराणि :
(ख) मात:

योग्यताविस्तारः

संस्कृतप्रशस्तय:

१. मातृभूमिः सदा सेव्या मातृभाषा तथैव च। भारतं मातृभूमिर्नो मातृभाषा हि संस्कृतम्॥
२. भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा। विहाय संस्कृतं नास्ति संस्कृतिः संस्कृताश्रिता॥
३. पुरुषा: संस्कृताः सन्तु महिलाः सन्तु संस्कृताः। संस्कृतेन विचारेण राष्ट्रं भातु सुसंस्कृतम्॥
૪. संस्कृतं संस्कृतेर्मूलं ज्ञानविज्ञानवारिधिः। वेदतत्त्वार्थसज्जुष्टं लोकालोककरं शिवम्॥
५. यावद् भारतवर्षं स्याद् यावद् विन्ध्यहिमाचलौ। यावद् गङ्गा च गोदा च तावदेव हि संस्कृतम्॥

भारतजनताऽहम् (Bharat_Janta_Aham) Diagram 3

परियोजनाकार्यम्

१. संस्कृतेन जीवनं कथं समृद्धं भवेत् इति अधिकृत्य ‘सुन्दरसुरभाषा धरायां विजयते’ इति संस्कृतनाटिकया छात्रा: जागरूका: करणीयाः।
२. सरलसंस्कृतगीतानां सङ्ग्रहं कुरुत कक्षायां च गायत। यथा – सुरससुबोधा विश्वमनोज्ञा, मनसा सततं स्मरणीयम्, मृदपि च चन्दनमस्मिन् देशे, इत्यादीनि।
३. संस्कृतसाहित्ये प्रसिद्धानां कवीनां काव्यानां च सङ्ग्रहः करणीयः।

अत्र इदम् अवधेयम्

परस्परसम्बद्धानां सार्थकपदानाम् एकपदीभावः समासः इति कथ्यते। प्रायेण द्वयोः ततोऽधिकानां वा पदानां संक्षिप्तीकरणं नाम समासः।

  • यथा, नद्याः तीरम् – नदीतीरम्, राजः पुत्रः – राजपुत्रः, सुराणां भाषा – सुरभाषा, पोषणस्य क्षमता – पोषणक्षमता, वचनम् अतीता –
  • वचनातीता, नवसंख्याकाः रसाः – नवरसाः, नवरसैः रुचिरा नवरसरुचिरा।
  • समासानां विविधाः प्रभेदाः सन्ति – अव्ययीभावः, तत्पुरुषः, कर्मधारयः, द्विगुः, द्वन्द्वः, बहुव्रीहिः च इति।

अव्ययीभावसमासे प्रायः पूर्वम् अव्ययपदस्य प्रयोगः भवति।

  • यथा – रूपस्य योग्यम् – अनुरूपम्। तत्पुरुषसमासे परपदस्य प्राधान्यं भवति।
  • यथा – सुराणां भाषा – सुरभाषा। द्विगुसमासे पूर्वं संख्यावाचकपदस्य व्यवहारः भवति।
  • यथा, पञ्चानां वटानां समाहारः – पञ्चवटी। बहुव्रीहिसमासे अन्यपदस्य प्राधान्यं भवति।
  • यथा, पीतम् अम्बरं यस्य सः – पीताम्बरः (श्रीविष्णुः)।
In-Article Ad Slot

CBSE 2026-27 Board Exam Preparation & Practice Papers

Free Chapter Notes & Question Bank by BoardExams.in