BoardExams.in
Class 8sanskritCBSE 2026-27

NCERT Solutions for Class 8 sanskrit Chapter 9: सप्तभगिन्यः (Saptabhaginya)

0 Solved Questions & Exercises8 min estimated readingUpdated 2026-09-16
Top Sponsor / Ad Space

CBSE 2026-27 Board Exam Preparation & Practice Papers

Free Chapter Notes & Question Bank by BoardExams.in

NCERT Class 8 Sanskrit (Ruchira Bhag 3) Solutions
Chapter 9: सप्तभगिन्यः (Saptabhaginya)

Students rely on

Sanskrit Class 8 Chapter 9 Question Answer कोऽरुक्? कोऽरुक्? कोऽरुक्?

Class 8 Sanskrit Chapter 9 NCERT Solutions कोऽरुक्? कोऽरुक्? कोऽरुक्?

कक्षा 8 संस्कृत पाठ 9 के प्रश्न उत्तर कोऽरुक्? कोऽरुक्? कोऽरुक्?

अभ्यासात् जायते सिद्धिः (पृष्ठ 104–106)

१. अधोलिखितान् प्रश्नान् एकपदेन उत्तरत
(क) शुकरूपं कः धृतवान्?
उत्तराणि :
धन्वन्तरिः

(ख) धन्वन्तरिः (शुक:) कुत्र उपविश्य ध्वनिम् अकरोत्?
उत्तराणि :
पुष्पतरौ

(ग) अन्ते शुकः कस्य आश्रमस्य समीपं गतवान्?
उत्तराणि :
वाग्भटस्य

(घ) ऋतवः कति सन्ति ?
उत्तराणि :
षट्

(ङ) वाग्भटः शुकस्य रहस्यं केभ्यः उक्तवान्?
उत्तराणि :
शिष्येभ्यः।

२. पट्टिकातः उचितानि पदानि चित्वा रिक्तस्थानानि पूरयत-

चरकस्य, कुटीरसमीपं, भारतवर्षे, आयुर्वेदज्ञानेन, अतिमात्रं

(क) __________ जनाः कथं निरामयाः भवन्ति ?
उत्तराणि :
भारतवर्षे

सप्तभगिन्यः (Saptabhaginya) Diagram 1

(ख) अन्ते सः वैद्यस्य वाग्भटस्य __________ गतवान्।
उत्तराणि :
कुटीरसमीपम्

(ग) तव उत्कृष्टेन __________अहम् अतीव सन्तुष्टः अस्मि।
उत्तराणि :
आयुर्वेदज्ञानेन

(घ) महर्षेः __________ नाम भवन्तः श्रुतवन्तः स्युः।
उत्तराणि :
चरकस्य

(ङ) लघुद्रव्याणि __________ सेवनेन हानिकराणि जायन्ते।
उत्तराणि :
अतिमात्रम्।

३. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तराणि लिखत-
(क) मधुरां वाणीं श्रुत्वा चिकित्सानिरतः वाग्भटः किम् अकरोत् ?
उत्तराणि :
मधुरा वाणीं श्रुत्वा चिकित्सानिरतः वाग्भटः शुकाय फलानि अर्पितवान्।

(ख) वाग्भटः झटिति किम् अकरोत् ?
उत्तराणि :
वाग्भटः झटिति विहगाय फलानि समर्पितवान्।

(ग) छात्रा: पुन: जिज्ञासया आचार्यं किम् अपृच्छन्?
उत्तराणि :
छात्राः अपृच्छन् – शुकः ‘कोऽरुक्’ इति उक्तवान्। तस्य कोऽर्थः ?

(घ) भगवान् धन्वन्तरिः अस्माकं कृते संक्षेपेण किं प्रदत्तवान्?
उत्तराणि :
धन्वन्तरिः अस्माकं कृते सन्देशं प्रदत्तवान्- व्यायामः दन्तधावनं स्वच्छजलेन स्नानं कर्त्तव्यम्।

(ङ) ऋषयः नित्यं कां प्रार्थनां कुर्वन्ति ?
उत्तराणि :
ऋषयः प्रार्थनां कुर्वन्ति – सर्वे भवन्तु सुखिनः।

४. पाठात् यथोचितानि विशेषणपदानि विशेष्यपदानि वा चित्वा रिक्तस्थानानि पूरयत-

उत्तराणि :

सप्तभगिन्यः (Saptabhaginya) Diagram 2

विशेषणम्

विशेष्यम्

विभिन्नानाम्

व्याधीनाम्

मनोहरम्

शुकरूपम्

विशाले

प्राङ्गणे

वैद्य:

वाग्भट:

मधुराणि

फलानि

उत्तमस्य

वैद्यस्य

महर्षे:

चरकस्य

विशेषणम्

विशेष्यम्

प्रख्याता:

वैद्या:

पार्श्वस्थे

वृक्षे

मधुराम्

वाणीम्

लौकिक:

खगः

समुचितम्

Solution:
म्

विस्मिता:

शिष्या:

सात्त्विकम्

भोजनम्

५. पाठं पठित्वा अधोलिखितपट्टिकातः पदानि चित्वा उचितसञ्चिकायां पूरयत-

लौकिकः, व्याधीनाम्, देव:, वृक्षे, त्रीणि, उत्तमस्य, वाणीम्,
विस्मितः, मधुरया, प्रश्नान्, पूज्यः, खगः, विशाले, शुकम्, वाग्भटः

Solution:
ाणि :

सप्तभगिन्यः (Saptabhaginya) Diagram 3

विशेषणपदानि

विशेष्यपदानि

देवः

वृक्षे

त्रीणि

वाणीम्

उत्तमस्य

प्रश्नान्

विस्मितः

खगः

मधुरया

शुकम्

पूज्य:

वाग्भटः

विशाल:

६. अधोलिखितानि वाक्यानि पठित्वा तेन सम्बद्धं श्लोकं पाठात् चित्वा लिखत-
(क) अस्माभिः नित्यं व्यायामः, स्नानं दन्तधावनं, बुभुक्षायाञ्च भोजनं कर्तव्यम्।
उत्तराणि :
व्यायामः प्रातरुत्थायं नित्यं दन्तविशोधनम्।
स्वच्छजलेन सुस्नानं बुभुक्षायाञ्च भोजनम्।

(ख) अस्माभिः हितकरः आहारः सेवनीयः येन विकाराणां शमनं स्वास्थ्यस्य च रक्षणं भवेत्।
उत्तराणि :
तच्च नित्यं प्रयुञ्जीत स्वास्थ्यं येनामुवर्त्तते।
अजातानां विकाराणामनुत्पत्तिकरं च यत्।।

(ग) ऋतोः अनुसारं भोजनेन बलस्य वर्णस्य च अभिवृद्धिः भवति।
उत्तराणि :
तस्यांशिताद्यादाहारात् बलं वर्णश्च वर्धते।
तस्यर्तुसात्म्यं विदितम् चेष्टाहारव्यपाश्रयम्।।

योग्यताविस्तारः

(क) श्रोकानां पदच्छेदः अन्वय: च-

तच्च नित्यं प्रयुञ्जीत, स्वास्थ्यं येनानुवर्तते।
अजातानां विकाराणामनुत्पत्तिकरं च यत्॥ ? ॥

पदच्छेदः – तत् च नित्यम् प्रयुञ्जीत स्वास्थ्यम् येन अनुवर्तते, अजातानाम् विकाराणाम् अनुत्पत्तिकरम् च यत्।
अन्वयः – अजातानां विकाराणां च यत् अनुत्पत्तिकरं, येन स्वास्थ्यम् अनुवर्तते च तत् नित्यं प्रयुञ्जीत।
भावार्थः – अर्थात् यस्य आहारस्य सेवनेन स्वास्थ्यस्य रक्षणं भवेत्, न जातानाम् अर्थात् अनुत्पन्नानां विकाराणाम् उत्पत्तिः न भवेत्, तादृशः आहारः सेवनीयः।

अल्पादाने गुरूणां च लघूनां चातिसेवने।
मात्राकारणमुद्दिष्टं द्रव्याणां गुरुलाघवे॥ २॥

पदच्छेदः – अल्पादाने गुरूणाम् च लघूनाम् च अतिसेवने मात्राकारणम् उद्दिष्टम् द्रव्याणाम् गुरुलाघवे।
अन्वयः – गुरूणाम् (द्रव्याणाम्) अल्पादाने (हितं भवति) लघूनां (द्रव्याणां) च अतिसेवने (हानिः भवति)। गुरुलाघवे (भोजनग्रहणे) द्रव्याणां मात्रा कारणम् उद्दिष्टम् (अस्ति)।
भावार्थः – अर्थात् गरिष्ठद्रव्याणि अपि अल्पमात्रं सेवनेन सुपाच्यानि भवन्ति, लघुद्रव्याणि च अतिमात्रं सेवनेन हानिकराणि जायन्ते। अतः मात्रानुसारम् एव खादितव्यम्।

तस्याशिताद्यादाहारात् बलं वर्णश्च वर्धते।
तस्यर्तुसात्म्यं विदितम् चेष्टाहारव्यपाश्रयम्॥ ३॥

पदच्छेदः-तस्य अशिताद्यात् आहारात् बलम् वर्णः च वर्धते, तस्य ऋतुसात्म्यम् विदितम्, चेष्टा-आहार-व्यपाश्रयम्।
अन्वयः – तस्य (जनस्य) अशिताद्यात् आहारात् बलं वर्णः च वर्धते। तस्य चेष्टा आहारव्यपाश्रयम् ऋतुसात्म्यं विदितम् (भोक्तव्यम्)।
भावार्थः – वसन्तः, ग्रीष्मः, वर्षा, शरद, हेमन्तः शिशिरः, चेति षट् ऋतवः भवन्ति।
यः पुरुषः ऋतूनाम् अनुकूलं स्वास्थ्यप्रदम् आहारसेवनं जानाति, तदनुसारं च आचरणं करोति, तस्य जनस्य अशितम् अर्थात् भुक्तं पीतं च सर्वमपि बलवर्धकं, वर्णकान्तिजनकं, सुखवर्धकम् आयुर्वर्धकज्च भवति। अतः ऋतोः अनुसारं भोक्तव्यम् इति। नियमित-भावेन समयानुसारं सात्त्विकभोजनम् आवश्यकम् इति ऋतुभुक् इति पदस्य भावः।

व्यायामः प्रातरुत्थाय, नित्यं दन्तविशोधनम्।
स्वच्छजलेन सुस्नानं, बुभुक्षायाञ्च भोजनम्॥ ४॥

पदच्छेदः – व्यायामः प्रातः उत्थाय नित्यम् दन्तविशोधनम् स्वच्छजलेन सुस्नानम् बुभुक्षायाम् च भोजनम्।
अन्वयः – नित्यं प्रातः उत्थाय व्यायामः (करणीयः) दन्तविशोधनं (कर्त्तव्यम्) स्वच्छजलेन सुस्नानं (कार्यम्) बुभुक्षायां (जातायां) भोजनं च (कर्त्तव्यम्)।
भावार्थः – प्रतिदिनं प्रातः एव जागरणं कुर्यात्, ततः परं व्यायामः करणीयः। पुनः सम्यक्तया दन्तमार्जनं करणीयम्। स्वच्छजलेन उत्तमरीत्या स्नानं कर्त्तव्यम्। यदा उदरे बुभुक्षा भवति तदा एव हितकरं स्वल्पं तथा ऋत्वनुकूलं भोजनं ग्रहणीयम्।

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभागभवेत्॥५॥

पदच्छेदः-सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग् भवेत्।
अन्वयः – सर्वे सुखिनः भवन्तु, सर्वे निरामयाः सन्तु। सर्वे भद्राणि पश्यन्तु, कश्चिद् दुःखभाक् मा भवेत्।
भावार्थः – संसारे सर्वे सुखेन निवसेयुः, ते नीरोगिणः च भवेयुः। ते परस्परं समभावेन उत्तमविचारैः च विचारयेयुः। तेषां कल्याणं भवेत्। कश्चिद् अपि जनः कदापि दुःखं न प्राप्नुयात्। वस्तुतः सर्वे नियमित-हितकर-भोजनेन रोगमुक्ताः भवेयुः।

(ख) चरकसंहितायाः परिचयः —
महर्षिः चरकः चरकसंहिताग्रन्थं रचितवान्। चरकसंहिता इति आयुर्वेदस्य प्रमुखः ग्रन्थः अस्ति। अस्मिन् ग्रन्थे ‘सूत्रस्थानं, निदानस्थानं, विमानस्थानं, शरीरस्थानम्, इन्द्रियस्थानं, चिकित्सास्थानं, कल्पस्थानं, सिद्धिस्थानं’ चेति अष्टस्थानानि सन्ति। अत्र न केवलं रोगाणां चिकित्सा एव वर्णिता, अपितु स्वास्थ्यस्य संरक्षणार्थम् आयुषः च संवर्धनार्थम् उपायाः अपि निर्दिष्टाः।

(ग) आहारपरिचयः –
सात्त्विक: आहारः

आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः।
रस्या: स्निग्धा: स्थिरा हृद्या: आहारा: सात्त्विकप्रिया:॥ (श्रीमद्-भगवद्गीता १७/८)

भावार्थः – खाद्यं विना जीवनधारणं सम्भवं नास्ति। भगवता प्रदत्तं शरीरम् आहारेण पुष्टं भूत्वा कर्मकरणाय समर्थं स्यात्। मानवस्य कृते ये सात्त्विकाहाराः भवन्ति, ते श्रोकेऽस्मिन् प्रदत्ताः। ये आहाराः आयुषः वर्द्धकाः, बुद्धिप्रदायकाः, बलकारकाः, आरोग्यप्रदाः, सुखदाः, प्रीतिगुणयुक्ताः, रसयुक्ताः, स्निग्धगुणपरिपूर्णाः, खाद्यसारपरिपूरिताः च ते आहाराः स्वभावतः सात्विकजनानां प्रियाः भवन्ति। अतः आरोग्यार्थं सात्त्विकः आहारः सेवनीयः।

राजसिक: आहार:

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः॥ (श्रीमद्भगवद्गीता १७/९)

भावार्थः – अतिकटुः, अत्यम्लः, अतिलवणः, अत्युष्णः, अतितीक्ष्णः, अतिरूक्षः, अतिविदाही च आहारः राजसजनानां प्रियः भवति। एतस्य आहारस्य सेवनेन अनेके व्याधयः भवन्ति। एतस्य सेवनेन मनुष्यः दुःखं शोकं च प्राप्नोति। अतः हितम् इच्छन् छात्रः कदापि एतस्य आहारस्य सेवनं न कुर्यात्।

तामसिक: आहार:

यातयामं गतरसं पूतिं पर्युषितं च यत्।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्॥ (श्रीमद्भगवद्गीता १७/१०)

  • मिताहारो नरः सोढुं शक्तः कष्ट-शतं सुखम्।
    अनभ्यस्तो हि कष्टानामध्यशनो विपद्यते॥ (सुमनोवाटिका)
  • अशीतेनाम्भसा स्नानं कवोष्णदुग्धसेवनम्।
    एतद् वो मानुषाः पथ्यं स्निग्धमुष्णं च भोजनम्॥ (भोजप्रबन्धः)

परियोजनाकार्यम्

१. विद्यालयस्य परिसरे विद्यमानानां पञ्चवृक्षाणां नामानि तेषाम् औषधीयं प्रयोगं च लिखत।
२. स्वास्थ्येन सम्बद्धानां दशश्ठोकानां संग्रहणं कुरुत।
३. पाठे आगतान् श्रोकान् कण्ठस्थीकृत्य कक्षायां श्रावयत।

सप्तभगिन्यः (Saptabhaginya) Diagram 4

अत्र इदम् अवधेयम्

1. विशेषणम् – यत् पदं कस्यचित् विशेषतां सूचयति तत् विशेषणम् इति उच्यते।
यथा – अस्मिन् पाठे ‘उत्तमा: ‘, ‘मनोहरम्’ इत्यादयः शब्दाः विशेषतां प्रकटयन्ति अतः एते शब्दाः विशेषणम् इति उच्यन्ते।

2. विशेष्यम् – यत् पदं मुख्यतया विशेषरूपेण उच्यते तत् पदं विशेष्यं भवति।
यथा–‘उत्तमाः वैद्याः’ अत्र ‘वैद्यस्य’ विशेषता उक्ता। अतः अत्र ‘वैद्याः’ इति विशेष्य-पदं वर्तते।

3. विशेष्य- विशेषणयोः सम्बन्धः-
(क) विशेष्यस्य यत् लिङ्गं भवति तत् एव लिङ्गं विशेषणस्य अपि भवति।
यथा-लौकिकः खगः। अत्र ‘खगः’ इति विशेष्यपदं पुलिङ्गम् अस्ति। अतः लौकिकः इति विशेषणपदमपि पुलिङ्गम् एव।
(ख) विशेष्यस्य यत् वचनं भवति तदेव वचनं विशेषणस्य अपि भवति।
यथा-उत्तमाः वैद्याः। अत्र ‘वैद्याः’ इति विशेष्यपदं बहुवचने वर्तते, अतः उत्तमाः इति विशेषणपदमपि बहुवचने एव भविष्यति।
(ग) विशेष्यस्य या विभक्तिः सा एव विभक्तिः विशेषणस्य अपि भवति।
यथा – मधुरां वाणीम्। अत्र ‘वाणीम्’ इति विशेष्यपदं द्वितीयाविभक्तौ वर्तते, अत: ‘मधुराम्’ इति विशेषणपदमपि द्वितीयाविभक्तौ एव भविष्यति।

यल्लिङ्गं यद्वचनं या च विभक्तिर्विशेष्यस्य।
तल्लिङ्गं तद्वचनं सा च विभक्तिर्विशेषणस्यापि ॥

1. विशेषण – जो पद किसी की विशेषता सूचित करता है, वह विशेषण कहा जाता है। जैसे – इस पाठ में ‘उत्तमा:’, ‘मनोहरम्’ इत्यादि शब्द विशेषता को प्रकट करते हैं। अतः ये शब्द विशेषण कहे जाते हैं।
2. विशेष्य- जो पद मुख्यतया विशेषरूप में कहा जाता है, वह विशेष्य होता है। जैसे- ‘उत्तमा: वैद्याः’ यहाँ वैद्य की विशेषता कही गई है। इसलिए यहाँ ‘वैद्या: ‘ विशेष्य पद है।
3. विशेष्य- विशेषण का सम्बन्ध-
(क) विशेष्य की जो लिङ्ग होती है, वही लिङ्ग विशेषण की भी होती है। जैसे- ‘लौकिकः खगः’ यहाँ ‘खगः’ विशेष्य पद पुलिंङ्ग है। अतः ‘लौकिक:’ पद भी विशेषण पुलिङ्ग ही है।
(ख) विशेष्य का जो वचन होता है, वही वचन वैद्या: विशेषण का भी होता है। यथा-‘उत्तमाः यहाँ ‘वैद्याः’ यह विशेष्य पद बहुवचन में है। अतः ‘उत्तमाः’ यह विशेषण पद भी बहुवचन में ही होगा।
(ग) विशेष्य की जो विभक्ति है, वही विशेषण की भी होती है। यथा – ‘मधुरां वाणीम् ‘ यहाँ ‘वाणीम्’ यह विशेष्य पद द्वितीया विभक्ति में है। अतः ‘मधुराम्’ विशेषण पद भी द्वितीया विभक्ति में है। जो लिङ्ग, जो वचन और जो विभक्ति विशेष्य की हैं, वह लिङ्ग, वह वचन और वह विभक्ति विशेषण की भी होती है।

अस्यां सारिण्यां केषाञ्चन विशेषणपदानां त्रिषु लिङ्गेषु प्रयोग: दर्शितः। एतान् पठत।

सप्तभगिन्यः (Saptabhaginya) Diagram 5

अस्यां सारिण्यां केषाञ्चन विशेषण – विशेष्यपदानां वाक्यप्रयोगः दर्शितः।

सप्तभगिन्यः (Saptabhaginya) Diagram 6

In-Article Ad Slot

CBSE 2026-27 Board Exam Preparation & Practice Papers

Free Chapter Notes & Question Bank by BoardExams.in