BoardExams.in
Class 9sanskritCBSE 2026-27

NCERT Solutions for Class 9 sanskrit Chapter 8: लौहतुला (Lauhatula)

1 Solved Questions & Exercises11 min estimated readingUpdated 2026-09-16
Top Sponsor / Ad Space

CBSE 2026-27 Board Exam Preparation & Practice Papers

Free Chapter Notes & Question Bank by BoardExams.in

NCERT Class 9 Sanskrit (Shemushi Bhag 1 - शेमुषी) Solutions
Chapter 8: लौहतुला (Lauhatula)

Students can easily access the

Shemushi Sanskrit Class 9 Chapter 8 Solutions लौहतुला

अभ्यासस्य प्रश्नोत्तराणि (पृष्ठ 59-61)

प्रश्न: 1.
एकपदेन उत्तरं लिखत
(क) वणिक्पुत्रस्य किं नाम आसीत्?
(ख) तुला कैः भक्षिता आसीत्?
(ग) तुला कीदृशी आसीत्?
(घ) पुत्रः केन हृतः इति जीर्णधनः वदति?
(ङ) विवदमानौ तौ द्वावपि कुत्र गतौ?
उत्तर:
(क) धनदेवः
(ख) मूषकैः
(ग) लौहघटिता
(घ) श्येनेन
(ङ) राजकुलम्

More Resources for CBSE Class 9

  • NCERT Solutions
  • NCERT Solutions Class 9 Maths
  • NCERT Solutions Class 9 Science
  • NCERT Solutions Class 9 Social Science
  • NCERT Solutions Class 9 English
  • NCERT Solutions Class 9 Hindi
  • NCERT Solutions Class 9 Sanskrit
  • NCERT Solutions Class 9 IT
  • RD Sharma Class 9 Solutions

प्रश्न: 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः किं व्यचिन्तयत्?
(ख) स्वतुला याचमानं जीर्णधनं श्रेष्ठी किम् अकथयत्?
(ग) जीर्णधनः गिरिगुहाद्वारं कया आच्छाद्य गृहमागतः?
(घ) स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं किम् अवदत्?
(ङ) धर्माधिकारिणः जीर्णधनश्रेष्ठिनौ कथं तोषितवन्तः?
उत्तर:
(क) देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः व्यचिन्तयत् यत् यस्मिन् देशे स्ववीर्यतः भोगाः भुक्ताः तत्र विभवहीनः यः वसेत् सः पुरुषाधमः।
(ख) स्वतुला याचमानं जीर्णधनं श्रेष्ठी अकथयत् यत् तुला मूषकैः भक्षिता।
(ग) जीर्णधनः गिरिगुहाद्वारं बृहत्शिलया आच्छाद्य गृहम् आगतः।
(घ) स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं अवदत् यत् नदीतटात् शिशुः श्येनेन हृतः।
(ङ) धर्माधिकारिणः जीर्णधनश्रेष्ठिनौ परस्परं संबोध्य तुला-शिशु-प्रदानेन तोषितवन्तः।

प्रश्न: 3.
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
(क) जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।
(ख) श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः।
(ग) वणिक् गिरिगुहां बृहच्छिलया आच्छादितवान्।
(घ) सभ्यैः तौ परस्परं संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ।
उत्तर:
(क) कः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्?
(ख) श्रेष्ठिनः शिशुः स्नानोपकरणमादाय केन सह प्रस्थितः?
(ग) वणिक् गिरिगुहां कया आच्छादितवान्।
(घ) सभ्यैः तौ परस्परं संबोध्य केन/कथम् सन्तोषितौ?

प्रश्न: 4.
अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तं पूरयत
(क) यत्र देशे अथवा स्थाने …….. भोगाः भुक्ता ……….. विभवहीनः यः …….. स पुरुषाधमः।
(ख) राजन्! यत्र लौहसहस्रस्य …….. मूषकाः …….. तत्र श्येनः ……..हरेत् अत्र संशयः न।
उत्तर:
(क) यत्र देशे अथवा स्थाने स्ववीर्यतः भोगाः भुक्ता तस्मिन् विभवहीनः यः वसेत् स पुरुषाधमः।
(ख) राजन्! यत्र लौहसहस्रस्य तुलां मूषकाः खादन्ति तत्र श्येनः बालकः हरेत् अत्र संशयः न।

प्रश्नः 5.
तत्पदं रेखाङ्कितं कुरुत यत्र
(क) ल्यप् प्रत्ययः नास्ति
विहस्य, लौहसहस्रस्य, संबोध्य, आदाय

(ख) यत्र द्वितीया विभक्तिः नास्ति
श्रेष्ठिनम्, स्नानोपकरणम्, सत्त्वरम्, कार्यकारणम्

(ग) यत्र षष्ठी विभक्तिः नास्ति
पश्यतः, स्ववीर्यतः, श्रेष्ठिनः सभ्यानाम्
उत्तर:
(क) लोहसहस्रस्य
(ख) सत्त्वरम्
(ग) स्ववीर्यतः

प्रश्न: 6.
सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरयत

उत्तर:

लौहतुला (Lauhatula) Diagram 1

लौहतुला (Lauhatula) Diagram 2

प्रश्न: 7.
समस्तपदं विग्रहं वा लिखत

उत्तर:
विग्रहः — समस्तपदम्
(क) स्नानस्य उपकरणम् — स्नानोपकरणम्
(ख) गिरेः गुहायाम् — गिरिगुहायाम्
(ग) धर्मस्य अधिकारी — धर्माधिकारी
(घ) विभवैः हीनाः — विभवहीनाः

लौहतुला (Lauhatula) Diagram 3

(अ) यथापेक्षम् अधोलिखितानां शब्दानां सहायतया “लौहतुला” इति कथायाः सारांशं संस्कृतभाषया

उत्तर:
जीर्णधनः नाम वणिक्पुत्रः धनाभावात् देशान्तरं गन्तुम् इच्छति स्म। सः स्वलौहतुला श्रेष्ठिनः गृहे निक्षेप भूतां कृत्वा प्रस्थितः। स्वपुरम् पुनः आगत्य सः श्रेष्ठिनं लौहतुलां दातुम् अकथयत्। लौहतुला मूषकैः भक्षिता इति ज्ञात्वा सः श्रेष्ठिनः पुत्रं आदाय स्नानार्थं गतः। गिरिगुहायां च तम् शिशुम् प्रक्षिप्य गृहम् आगतः। कथितः च यत् शिशुः श्येनेन हृतः। कलहं कुर्वन्तौ उभौ राजकुलं गतौ। वृत्तान्तं ज्ञात्वा धर्माधिकारिभिः तौ तुला-शिशु-प्रदानेन सन्तोषितौ।

लौहतुला (Lauhatula) Diagram 4

Class 9 Sanskrit Shemushi Chapter 8 लौहतुला Additional Important Questions and Answers

पठित-अवबोधनम्
I. पठित-सामग्र्याम् आधारितम् अवबोधनम्

अधोलिखितगद्यांशान् पठित्वा प्रश्नानाम् उत्तराणि लिखत
(क) आसीत् कस्मिंश्चिद् अधिष्ठाने जीर्णधनो नाम वणिक्पुत्रः। स च विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्

यत्र देशेऽथवा स्थाने भोगा भुक्ताः स्ववीर्यतः।
तस्मिन् विभवहीनो यो वसेत् स पुरुषाधमः॥

तस्य च गृहे लौहघटिता पूर्वपुरुषोपार्जिता तुला आसीत्। तां च कस्यचित् श्रेष्ठिनो गृहे निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः। ततः सुचिरं कालं देशान्तरं यथेच्छया भ्रान्त्वा पुनः स्वपुरम् आगत्य तं श्रेष्ठिनम् अवदत्-“भोः श्रेष्ठिन्! दीयतां मे सा निक्षेपतुला।” सोऽवदत्-“भोः! नास्ति सा, त्वदीया तुला मूषकैः भक्षिता” इति।

प्रश्नाः
I. एकपदेन उत्तरत
(i) लौहतुला कैः भक्षिता?
(ii) जीर्णधनः कस्य गृहे तुलाम् निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः?
उत्तर:
(i) मूषकैः
(ii) श्रेष्ठिनः

II. पूर्णवाक्येन उत्तरत
तुला कीदृशी आसीत्?
उत्तर:
तुला लौहघटिता पूर्वपुरुषोपार्जिता आसीत्।

III. निर्देशानुसारं विकल्पेभ्यः उचितं उत्तरम् चित्वा लिखत
(i) ‘तां च कस्यचित् गृहे…’ अत्र ‘तां’ सर्वनामपदं कस्यै प्रयुक्तम्?
(क) वणिकपुत्राय
(ख) जीर्णधनाय
(ग) तुलायै
(घ) तुलायाः
उत्तर:
(ग) तुलायै

(ii) ‘स्वपराक्रमेण’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) उपार्जिता
(ख) अधिष्ठाने
(ग) स्ववीर्यतः
(घ) श्रेष्ठिनः
उत्तर:
(ग) स्ववीर्यतः

(iii) ‘आसीत् ‘. इति क्रियापदस्य कर्तृपदं किम्?
(क) जीर्णधनः
(ख) अधिष्ठाने
(ग) कास्माश्चत्
(ग) कस्मिंश्चित्
(घ) नाम
उत्तर:
(क) जीर्णधनः

(iv) ‘गत्वा’ इति पदस्य विलोमपदं किम्?
(क) गन्तुम्
(ख) आगत्य
(ग) प्रस्थितः
(घ) नास्ति
उत्तर:
(ख) आगत्य

(ख) जीर्णधनः अवदत्-“भोः श्रेष्ठिन्! नास्ति दोषस्ते, यदि मूषकैः भक्षिता। ईदृशः एव अयं संसारः। न किञ्चिदत्र शाश्वतमस्ति। परमहं नद्यां स्नानार्थं गमिष्यामि। तत् त्वम् आत्मीयं एनं शिशुं धनदेवनामानं मया सह स्नानोपकरणहस्तं प्रेषय” इति। स श्रेष्ठी स्वपुत्रम् अवदत्-“वत्स! पितृव्योऽयं तव, स्नानार्थं यास्यति, तद् अनेन साकं गच्छ” इति। अथासौ श्रेष्ठिपुत्रः धनदेवः स्नानोपकरणमादाय प्रहृष्टमनाः तेन अभ्यागतेन सह प्रस्थितः। तथानुष्ठिते स वणिक् स्नात्वा तं शिशुं गिरिगुहायां प्रक्षिप्य, तद्वारं बृहत् शिलया आच्छाद्य सत्त्वरं गृहमागतः।

प्रश्ना :
I. एकपदेन उत्तरत
(i) कः नद्यां स्नानार्थं गमिष्यति?
(ii) वणिकिशिशु: किम आदाय अभ्यागतेन सह प्रस्थितः
उत्तर:
(i) जीर्णधनः
(ii) स्नानोपकरणम्

II. पूर्णवाक्येन उत्तरत
जीर्णधनः किम् कृत्वा सत्वरं गृहम् आगतः?
उत्तर:
जीर्णधनः नद्यां स्नात्वा तं शिशुं च गिरिगुहायां प्रक्षिप्य तद्द्वारम् बृहलिया आच्छाद्य सत्वरं गृहम् आगतः।

III. निर्देशानुसारं विकल्पेभ्यः उचितम् उत्तरम् चित्वा लिखत।
(i) ‘नास्ति दोषः ते’ अत्र ‘ते’ सर्वनामपदं कस्य कृते प्रयुक्तम्?
(क) श्रेष्ठी
(ख) श्रेष्ठिनः
(ग) जीर्णधनाय
(घ) जीर्णधनस्य
उत्तर:
(ख) श्रेष्ठिनः

(ii) ‘सह’ इति पदस्य पर्यायपदम् किम्?
(क) सार्धम्
(ख) शाश्वतम्
(ग) परम्
(घ) वत्स
उत्तर:
(क) सार्धम्

(iii) ‘गमिष्यामि’ इति क्रियापदस्य कर्तृपदं किम्?
(क) परमहं
(ख) नद्यां
(ग) अहम्
(घ) स्नानार्थम्
उत्तर:
(ग) अहम्

(iv) ‘अनावृत्य’ इति पदस्य विलोमपदं किम्?
(क) आच्छाद्य
(ख) सत्वरं
(ग) प्रक्षिप्य
(घ) प्रेषय
उत्तर:
(क) आच्छाद्य

(ग) सः श्रेष्ठी पृष्टवान्-“भोः! अभ्यागत! कथ्यतां कुत्र मे शिशुः यः त्वया सह नदीं गतः”? इति। स अवदत्-“तव पुत्रः नदीतटात् श्येनेन हृतः” इति। श्रेष्ठी अवदत् – “मिथ्यावादिन्! किं क्वचित् श्येनो बालं हर्तुं शक्नोति? तत् समर्पय मे सुतम् अन्यथा राजकुले निवेदयिष्यामि।” इति। सोऽकथयत्-“भोः सत्यवादिन्! यथा श्येनो बालं न नयति, तथा मूषका अपि लौहघटितां तुला न भक्षयन्ति। तदर्पय मे तुलाम्, यदि दारकेण प्रयोजनम्।” इति। एवं विवदमानौ तौ द्वावपि राजकुलं गतौ। तत्र श्रेष्ठी तारस्वरेण अवदत्-“भोः! वञ्चितोऽहम्! वञ्चितोऽहम्! अब्रह्मण्यम्! अनेन चौरेण मम शिशुः अपहृतः” इति।
अथ धर्माधिकारिणः तम् अवदन्-“भोः! समर्म्यतां श्रेष्ठिसुतः।

लौहतुला (Lauhatula) Diagram 5

प्रश्ना :
I. एकपदेन उत्तरत
(i) वञ्चितोऽहम् अब्रह्मण्यम्! इति तारस्वरेण कः उवाच?
(ii) शिशुः केन सह नदीं गतः?
उत्तर:
(i) श्रेष्ठी
(ii) जीर्णधनेन

II. पूर्णवाक्येन उत्तरत
विवदमानौ तौ कुत्र गतौ?
उत्तर:
विवदमानौ तौ राजकुलं गतौ।

III. निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरम् चित्वा लिखत
(i) ‘श्येनः बालं न नयति’ अत्र कर्तृपदं किम्?
(क) श्येनः
(ख) बालं
(ग) नयति
(घ) न
उत्तर:
(क) श्येनः

(ii) ‘कलहं कुर्वन्तौ’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) द्वावपि
(ख) तारस्वरेण
(ग) विवदमानौ
(घ) प्रोवाच
उत्तर:
(ग) विवदमानौ

(iii) ‘मे तुलाम्’ अत्र ‘मे’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) जीर्णधनाय
(ख) जीर्णधनस्य
(ग) जीर्णधनः
(घ) वणिक्पुत्रः
उत्तर:
(क) जीर्णधनाय

(iv) ‘विवदमानौ’ इति पदस्य विशेष्यपदं किम्?
(क) द्वावपि
(ख) तौ
(ग) गतौ उत्तराणि
(घ) राजकुलम्
उत्तर:
(ख) तौ

(घ) सोऽवदत्-“किं करोमि? पश्यतो मे नदीतटात् श्येनेन शिशुः अपहृतः। इति।
तच्छ्रुत्वा ते अवदन्-भोः! भवता सत्यं नाभिहितम्-किं श्येनः शिशुं हर्तुं समर्थो भवति? ‘सोऽअवदत्-भोः! भोः! श्रूयतां मद्वचः

तुला लौहसहस्रस्य यत्र खादन्ति मूषकाः।
राजन्तत्र हरेच्छ्येनो बालकं, नात्र संशयः॥

प्रश्ना :
I. एकपदेन उत्तरत
(i) कस्य पश्यतः श्येनेन शिशुः अपहृतः?
(ii) तुलां के खादन्ति?
उत्तर:
(i) जीर्णधनस्य
(ii) मूषकाः

II. पूर्णवाक्येन उत्तरत
केन सत्यम् न अभिहितम्?
उत्तर:
जीर्णधनेन सत्यं न अभिहितम्।

III. निर्देशानुसारं उचितम् उत्तरं प्रदत्तविकल्पेभ्यः चित्वा लिखत
(i) ‘किं श्येनः शिशु-हर्तुं समर्थः भवति’ अस्मिन् वाक्ये कर्तृपदम् किम्?
(क) श्येनः
(ख) शिशुं
(ग) हर्तुं
(घ) भवति
उत्तर:
(क) श्येनः

(ii) ‘अभिहितम्’ इति पदस्य कः अर्थः?
(क) हितम्
(ख) अहितम्
(ग) कथितम्
(घ) विहितम्
उत्तर:
(ख) अहितम्

(iii) ‘शिशुः’ इति पदस्य विशेषणपदं किम्?
(क) अपह्तः
(ख) अनेन
(ग) श्येनः
(घ) पश्यतः
उत्तर:
(क) अपह्तः

(iv) ‘अनृतम्’ इति पदस्य विलोमपदं किम्?
(क) अभिहितं
(ख) प्रोचुः
(ग) संशयः
(घ) सत्यम्
उत्तर:
(घ) सत्यम्

II. प्रश्ननिर्माण

स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत उत्तराणि

(क) जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।
(ख) मूषकैः तुला भक्षिता।
(ग) विवदमानौ तौ राजकुलं गतौ।
(घ) नदीतटात् बालकः श्येनेन हृतः।
(ङ) वणिक्पुत्रः गुहाद्वारं बृहद्-शिलया आच्छाद्य गृहम् आगतः।
(च) जीर्णधनः नद्यां स्नानार्थं अगच्छत्।
(छ) श्रेष्ठी सभ्यानाम् अग्रे सर्वं वृत्तान्तं निवेदयामास।
प्रश्ना:
(क) जीर्णधनः किमर्थं देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्?
(ख) कैः तुला भक्षिता?
(ग) विवदमानौ तौ कुत्र गतौ?
(घ) कुतः बालकः श्येनेन हृतः?
(ङ) वणिक्पुत्रः गुहाद्वारं कया आच्छाद्य गृहम् आगतः?
(च) जीर्णधनः कुत्र स्नानार्थं अगच्छत्?
(छ) श्रेष्ठी केषाम् अग्रे सर्वं वृत्तान्तं निवेदयामास?

III. ‘क’ भावार्थः

अधोलिखितश्लोकयोः अन्वयपूर्तिं कुरुत

(1) यत्र देशेऽथवा स्थाने भोगा भुक्ताः स्ववीर्यतः।
तस्मिन् विभवहीनो यो वसेत् स पुरुषाधमः।। अन्वयः- यत्र देशे (i)………………… स्थाने स्ववीर्यतः (ii)…….. … भुक्ताः (iii) …….. विभवहीनः य (iv)…………………. सः पुरुषाधमः।
उत्तर:
यत्र देशे (i) अथवा स्थाने स्ववीर्यतः (ii) भोगाः भुक्ताः (iii) तस्मिन् विभवहीनः य (iv) वसेत् सः पुरुषाधमः।

(2) तुला लौहसहस्रस्य यत्र खादन्ति मूषकाः।
राजन्तत्र हरेच्छ्येनो बालकम्, नात्र संशयः।।
अन्वयः- राजन्! यत्र (i)………………… तुलां (ii)…………………. खादन्ति। तत्र (ii)…………………. बालकः हरेत् अत्र (iv)…………………. न।
उत्तर:
राजन्! यत्र (i) लौहसहस्रस्य तुला (ii) मूषकाः खादन्ति। तत्र (iii) श्येनः बालकः हरेत् अत्र (iv) संशयः न।

III. ‘ख’ भावार्थः

अधोलिखितयोः श्लोकयोः भावार्थं मञ्जूषातः उचितपदानि चित्वा पूरयत (क) तुला लौहसहस्रस्य यत्र खादन्ति मूषकाः।
राजन्तत्र हरेच्छ्येनो बालकं, नात्र संशयः॥
भावार्थ:-जीर्णधनः धर्माधिकारिणम् कथयति यत् यदि (i)…….. लौहनिर्मिता (ii)…….. तत्र निःसन्देहं (iii)……….अपि बालकं (iv)……….. शक्नोति। खादन्ति
मञ्जूषा-  श्येनः, हर्तुम्, मूषकाः, तुलाम्
उत्तर:
(क) जीर्णधनः धर्माधिकारिणम् कथयति यत् यदि मूषकाः लौहनिर्मितां तुलाम् खादन्ति तत्र निःसन्देहं श्येनः अपि बालकं हर्तुम् शक्नोति।

(ख) यत्र देशेऽथवा स्थाने भोगा भुक्ताः स्ववीर्यतः।
तस्मिन् विभवहीनो यो वसेत् स पुरुषाधमः॥
भावार्थ:-धनाभावात् जीर्णधनः अचिन्तयत् यत् (i)……… देशे नराः (ii)………भोगाः प्राप्नुवन्ति। तत्र यः (iii)……………… वसेत् सः तु निश्चयमेव (iv)…………………. भवति।
मञ्जूषा- धनहीनः, यस्मिन्, नराधमः, स्वपराक्रमेण
उत्तर:
(ख) धनाभावात् जीर्णधनः अचिन्तयत् यत् यस्मिन् देशे नराः स्वपराक्रमेण भोगा: प्राप्नुवन्ति। तत्र यः धनहीनः वसेत् सः तु निश्चयमेव नराधमः भवति।

IV. कथाक्रमसंयोजनम्

घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लेखनीयानि
(i) सः वणिक् स्नात्वा तं शिशुं गिरिगुहायां प्रक्षिप्य, तद्द्वार बृहत् शिलया आच्छादय् सत्वरं गृहमागतः।
(ii) “तत् त्वम आत्मीयं एनं शिशु धनदेवनामानं मया सह स्नानोपकरणहस्तं प्रेषय” इति।
(iii) आसीत् कस्मिंश्चिद् अधिष्ठाने जीर्णधनो नाम वणिक्पुत्रः।
(iv) तां च कस्यचित् श्रेष्ठिनो गृहे निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः।
(v) तस्य च गृहे लौहघटिता पूर्वपुरुषोपार्जिता तुला आसीत्।
(vi) जीर्णधनः अवदत्-” भोः श्रेष्ठिन्! नास्ति दोषस्ते, यदि मूषकैः भक्षिता।”
(vii) तौ द्वावपि संबोध्य तुला-शिशु-प्रदानेन तोषितवन्तः।।
(viii) “मिथ्यावादिन्! किं क्वचित् श्येनो बालं हर्तुम् शक्नोति? तत् समर्पय मे सुतम् अन्यथा राजकुले निवेदयिष्यामि।”
उत्तर:
(i) आसीत् कस्मिंश्चिद् अधिष्ठाने जीर्णधनो नाम वणिक्पुत्रः।
(ii) तस्य च गृहे लौहघटिता पूर्वपुरुषोपार्जिता तुला आसीत्।
(iii) तां च कस्यचित् श्रेष्ठिनो गृहे निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः।
(iv) जीर्णधनः अवदत्-” भोः श्रेष्ठिन्! नास्ति दोषस्ते, यदि मूषकैः भक्षिता।”
(v) “तत् त्वम् आत्मीयं एनं शिशुं धनदेवनामानं मया सह स्नानोपकरणहस्तं प्रेषय” इति।
(vi) सः वणिक् स्नात्वा तं शिशुं गिरिगुहायां प्रक्षिप्य, तद्द्वारं बृहत् शिला आच्छाद्य सत्वरं गृहमागतः।
(vii) “मिथ्यावादिन्! किं क्वचित् श्येनो बालं हर्तुम् शक्नोति? तत् समर्पय मे सुतम् अन्यथा राजकुले निवेदयिष्यामि।”
(viii) तौ द्वावपि संबोध्य तुला-शिशु-प्रदानेन तोषितवन्तः।

Question 1 (V)

प्रसङ्गानुकूलम् उचितार्थम्

I. रेखांकितपदानाम् प्रसङ्गानुसारं शुद्धम् अर्थं चित्वा लिखत
(i) यत्र देशे स्ववीर्यतः भोगा भुक्ताः।
(क) स्वधनेन
(ख) स्वकर्मणा
(ग) स्वपुत्रेण
(घ) स्वपराक्रमेण

Solution:
(घ) स्वपराक्रमेण

(ii) अब्रह्मण्यम्! मम शिशुः चौरेण अपहृतः।
(क) अनुचितम्
(ख) ब्राह्मणम्
(ग) ब्रह्मां
(घ) वहयति
उत्तर:
(क) अनुचितम्

(iii) श्रूयतां मद् वचः
(क) मत्
(ख) मनः
(ग) मम
(घ) मानः
उत्तर:
(ग) मम

(iv) त्वदीय तुला मूषकैः भक्षिता।
(क) खादिता
(ख) भक्ष्यम्
(ग) खादितम्
(घ) भोजनम्
उत्तर:
(क) खादिता

VI. पर्यायपदानि/विलोमपदानि

प्रश्न: 1.
अधोलिखितपदानां पर्यायपदानि लिखत
श्येनः, मूषकः, पुत्रः, नदी
उत्तर:
श्येनः — शशदिनः, कपोतारिः, बाजः।
मूषकः – मूसा, उंदूरः, मूसः।
पुत्रः — सुतः, तनयः, आत्मजः।
नदी — सरिता, तटिनी, तरणी।

प्रश्न: 2.
‘क’ स्तम्भे लिखितानां पदानां विलोमपदानि ‘ख’ स्तम्भे लिखिताः। तान् यथासमक्षं योजयत
“क’ स्तम्भः — ‘ख’ स्तम्भः
(क) इच्छन् — रुदित्वा
(ख) विहस्य — अनिच्छन्
(ग) दोषः — असमर्थः
(घ) समर्थः — गुणः
(ङ) सुचिरं — अचिरम्
उत्तर:
‘क’ स्तम्भः — ‘ख’ स्तम्भः
(क) इच्छन् — अनिच्छन्
(ख) विहस्य — रुदित्वा
(ग) दोषः — गुणः
(घ) समर्थः — असमर्थः
(ङ) सुचिरं — अचिरम्

In-Article Ad Slot

CBSE 2026-27 Board Exam Preparation & Practice Papers

Free Chapter Notes & Question Bank by BoardExams.in