BoardExams.in
Class 6sanskritCBSE 2026-27

NCERT Solutions for Class 6 sanskrit Chapter 15: Class 6 Sanskrit Chapter 15

0 Solved Questions & Exercises6 min estimated readingUpdated 2026-09-16
Top Sponsor / Ad Space

CBSE 2026-27 Board Exam Preparation & Practice Papers

Free Chapter Notes & Question Bank by BoardExams.in

NCERT Solutions • Class 6 Sanskrit (Deepakam - दीपकम्)
Chapter 15: Class 6 Sanskrit Chapter 15
Latest Rationalised Syllabus (NEP 2026-27)

Click here to access the bestDeepakam Chapter 15 Question Answer वृक्षाः सत्पुरुषाः इव textbook exercise questions and answers.

वृक्षाः सत्पुरुषाः इव Class 6th Sanskrit Deepakam Chapter 15 Question Answer

वयम् अभ्यासं कुर्मः

१. पाठे लिखितानि सुभाषितानि सस्वरं पठन्तु, अवगच्छन्तु, लिखन्तु स्मरन्तु च।

२. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु।

(क) वृक्षा: स्वयं कुत्र तिष्ठन्ति ?
उत्तरम्:
आतपे

(ख) परोपकाराय का वहन्ति ?
उत्तरम्:
नद्यः

(ग) दशवापीसमः कः भवति ?
उत्तरम्:
हृदः

(घ) सत्पुरुषाः इव के सन्ति?
उत्तरम्:
वृक्षा:

(ङ) अर्थिनः केभ्यः विमुखाः न यान्ति ?
उत्तरम्:
वृक्षेभ्यः महीरुहेभ्यः

(च) वृक्षा: स्वयं कानि न खादन्ति ?
उत्तरम्:
फलानि

३. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु।

Class 6 Sanskrit Chapter 15 Diagram 1

(क) नद्यः किं न पिबन्ति ?
उत्तरम्:
नद्यः स्वयमेव अम्भः न पिबन्ति।

(ख) वृक्षाः अस्मभ्यं किं किं यच्छन्ति ?
उत्तरम्:
वृक्षाः अस्मभ्यं पुष्पं फलं, छायां, मूलं वल्कलं, दारूं च यच्छन्ति।

(ग) इदं शरीरं किमर्थम् अस्ति ?
उत्तरम्:
इदं शरीरं परोपकाराय अस्ति।

(घ) दशपुत्रसमः कः भवति ?
उत्तरम्:
दशपुत्रसम: द्रुमः भवति।

(ङ) केषां विभूतयः परोपकाराय भवन्ति ?
उत्तरम्:
सतां विभूतयः परोपकाराय भवन्ति।

(च) अन्यस्य छायां के कुर्वन्ति ?
उत्तरम्:
अन्यस्य छायां वृक्षाः कुर्वन्ति।

४. पट्टिकातः उचितानि पदानि चित्वा रिक्तस्थानानि पूरयन्तु।

Class 6 Sanskrit Chapter 15 Diagram 2

तिष्ठन्ति सुजनस्येव विभूतयः वृक्षा: फलानि दशपुत्रः परोपकाराय

यथा – छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे।.

(क) फलान्यपि परार्थाय ………… सत्पुरुषा इव।
उत्तरम्:
वृक्षा:

(ख) दशह्रदसमः पुत्र ……… समो द्रुमः।
उत्तरम्:
दशपुत्रः

(ग) ……….. येषां वै विमुखा यान्ति नार्थिनः।
उत्तरम्:
सुजनस्येव

(घ) ………. इदं शरीरम्।
उत्तरम्:
परोपकाराय

(ङ) स्वयं न खादन्ति ……… वृक्षाः।
उत्तरम्:
फलानि

(च) परोपकाराय सतां ………।
उत्तरम्:
विभूतयः

५. उदाहरणानुसारम् अधोलिखितेषु वाक्येषु स्थूलाक्षरपदानां विभक्तिं निर्दिशन्तु।

Class 6 Sanskrit Chapter 15 Diagram 3

यथा – वृक्षाः अन्यस्य कृते छायां कुर्वन्ति।द्वितीया विभक्तिः

(क) वृक्षाः परार्थाय फलानि यच्छन्ति। ………..
उत्तरम्:
फलानि – द्वितीया विभक्ति

(ख) वृक्षाः सत्पुरुषाः इव सन्ति। ……………
उत्तरम्:
सत्पुरुषाः – प्रथमा विभक्ति

(ग) द्रुमः दशसन्तानसमः भवति। …………
उत्तरम्:
द्रुमः – प्रथमा विभक्ति

(घ) वृक्ष: प्राणिभ्यः काष्ठानि यच्छति। ……………
उत्तरम्:
प्राणिभ्यः – चतुर्थी विभक्ति

(ङ) नद्यः जलं स्वयमेव न पिबन्ति। ………..
उत्तरम्:
नद्यः – प्रथमा विभक्ति

(च) सज्जनानां सङ्गतिं करोतु। ……………
उत्तरम्:
सङ्गतिं – द्वितीया विभक्ति

६. अधोलिखितानां पदानां द्विवचने बहुवचने च रूपाणि लिखन्तु।

Class 6 Sanskrit Chapter 15 Diagram 4

यथा- वृक्षःवृक्षौवृक्षा:

(क) मेघः ………….. ……………..
(ख) हृदः ………….. ……………..
(ग) सत्पुरुषः ………….. ……………..
(घ) छाया ………….. ……………..
(ङ) वापी ………….. ……………..
(च) नदी ………….. ……………..
(छ) शरीरम् ………….. ……………..
(ज) पुष्पम् ………….. ……………..
उत्तरम्:

(क) मेघ: मेघौ मेघाः
(ख) हृदः हृदौ हृदा:
(ग) सत्पुरुषः सत्पुरुषौ सल्पुरुषाः
(घ) छाया छाये छाया:
(ङ) वापी वाप्यौ वाप्यः
(च) नदी नद्यौ नद्यः
(छ) शरीरम् शरीरे शरीराणि
(ज) पुष्पम् पुष्पे पुष्पाणि

Class 6 Sanskrit Chapter 15 Diagram 5

७. अधोलिखितानां पदानां परस्परं समुचितं मेलनं कृत्वा ‘कः किं ददाति’ इति लिखन्तु।


(क) वृक्षः दुग्धम्वृक्षः शुद्धं वायुं ददाति।
(ख) गौ: प्रकाशं …………………
(ग) सूर्य: विद्यां ……………..
(घ) नदी शुद्धं वायुं ……………
(ङ) अग्निः जलम्ं ………………
(च) शिक्षक: तापं ……………
उत्तरम्:
(क) वृक्षः – वृक्षः शुद्धं वायुं ददाति।
(ख) गौ: – गौ: दुग्धं ददाति।
(ग) सूर्य: – सूर्य: प्रकाशं ददाति।
(घ) नदी – नदी जलं ददाति।
(ङ) अग्निः – अग्निः तापं ददाति
(च) शिक्षक: – शिक्षक: विद्यां ददाति।

Class 6 Sanskrit Chapter 15 Diagram 6

८. अधोलिखितानां क्रियापदानां लट्लकारे प्रथमपुरुषस्य रूपाणि लिखन्तु।

Class 6 Sanskrit Chapter 15 Diagram 7

यथा – कुर्वन्ति – करोति कुरुतः कुर्वन्ति
तिष्ठन्ति – …… …….. ………
फलन्ति – …… …….. ………
यान्ति – …… …….. ………
पिबन्ति – …… …….. ………
खादन्ति – …… …….. ………
उत्तरम्:
तिष्ठन्ति – तिष्ठति तिष्ठतः तिष्ठन्ति
फलन्ति – फलति फलतः फलन्ति
यान्ति – याति यातः यान्ति
पिबन्ति – पिबति पिबतः पिबन्ति
खादन्ति – खादति खादतः खादन्ति

योग्यताविस्तारः

१. अधोलिखितां प्रहेलिकां पठित्वा उत्तरं वदन्तु।

Class 6 Sanskrit Chapter 15 Diagram 8

वृक्षाग्रवासी न च पक्षिराज:
त्रिनेत्रधारी न च शूलपाणिः।
त्वग्वस्त्रधारी न च सिद्धयोगी
जलं च बिभ्रन्न घटो न मेघः ॥
उत्तरम्:
नारिकेलम्।

परियोजनाकार्यम्

१. विद्यालयं गृहं वा परितः विद्यमानानां पञ्च-पादपानां (वृक्षाणां) संरक्षणं कुर्वन्तु।
उत्तरम्:
छात्राः स्वयमेव कुरुत।

२. अन्तर्जालस्य साहाय्येन परोपकारविषये दश- सुभाषितानां संग्रहणं कुर्वन्तु।
उत्तरम्:
परोपकारविषये सुभाषितानि

1. अष्टादश पुराणेषु व्यासस्य वचनद्वयम्।
परोपकारः पुण्याय पापाय परपीडनम्।।

2. परोपकारशून्यस्य धिक् मनुष्यस्य जीवितम्।
जीवन्तु पशवः येषां चर्माप्युपकरिष्यति।।

3. आत्मार्थं जीवलोकेऽस्मिन् को न जीवति मानवः।
परं परोपकारार्थं यो जीवति सः जीवति।।

4. परोपकरणं येषां जागर्ति हृदये सताम्।
नश्यन्ति विपदः तेषां सम्पदः स्युः पदे पदे।।

5. भवन्ति नम्रः तरवः फलोद्गमैः।
नवाम्बुभिर्दूरविलम्बनो घनाः।
अनुद्धताः सत्पुरुषाः समृद्धिभिः। स्वभाव एवैष परोपकारिणाम्।।

6. रत्नाकरः किं कुरुते स्वरत्नैः, विन्ध्याचलः किं करिभिः करोति।
श्रीखण्डखण्डैर्मलयाचलः किं परोपकाराय सतां विभूतयः।।

7. ‘परेषाम् उपकारः एव परोपकारः कथ्यते।

8. ‘स्वार्थम् विहाय अन्येषां हितं क्रियते तदेव परोपकारः।

9. ‘फलानि अपि परार्थाय वृक्षाः सत्पुरुषाः इव।’

10. पिबनि नद्यः स्वयमेव नाम्भः
स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहाः
परोपकाराय सतां विभूतयः ॥

पठित-अवबोधनम्

१. अधोलिखितं श्लोकं पठित्वा प्रश्नानाम् उत्तरत-

परोपकाराय फलन्ति वृक्षाः, परोपकाराय वहन्ति नद्यः।
परोपकाराय दुहन्ति गावः, परोपकाराय इदं शरीरम्।।

प्रश्ना:-

I. एकपदेन उत्तरत-

प्रश्न i.
परोपकाराय का : वहन्ति ?
उत्तरम्:
नद्य:

प्रश्न ii.
वृक्षाः किमर्थम् फलन्ति ?
उत्तरम्:
परोपकाराय

प्रश्न iii.
परोपकाराय का : दुहन्ति ?
उत्तरम्:
गाव:

प्रश्न iv.
परोपकाराय के फलन्ति ?
उत्तरम्:
वृक्षा:

II. पूर्णवाक्येन उत्तरत-

(i) इदम् शरीरम् किमर्थम् अस्ति ?
उत्तरम्:
इदम् शरीरम् परोपकाराय अस्ति।

III. निर्देशानुसारं उत्तरत-

(i) ‘परोपकाराय ‘ इति पदे का विभक्तिः ?
(क) चतुर्थी
(ख) पञ्चमी
(ग) प्रथमा
(घ) तृतीया
उत्तरम्:
(क) चतुर्थी

(ii) ‘फलन्ति’ इत्यत्र किम् वचनम् ?
(क) त्रिवचनम्
(ख) द्विवचनम्
(ग) एकवचनम्
(घ) बहुवचनम्
उत्तरम्:
(घ) बहुवचनम्

२. मञ्जूषातः समुचितं पदं चित्वा श्लोकस्य अन्वयं पूरयत-

छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे।
फलान्यपि परार्थाय वृक्षाः सत्पूरुषाः इव।।

मञ्जूषा – सत्पुरुषाः, आतपे, छायाम्, फलानि

Class 6 Sanskrit Chapter 15 Diagram 9

अन्वयः – (वृक्षाः) स्वयम् ……..(i)…….. तिष्ठन्ति, अन्यस्य ……(ii)…… कुर्वन्ति …..(iii)….. अपि परार्थाय, वृक्षा: …….(iv)…… इव (सन्ति)।
उत्तरम्:
(i) आतपे
(ii) छायां
(iii) फलानि
(iv) सत्पुरुषा:

३. रेखांकितपदानि आधृत्य प्रश्ननिर्माण कुरुत-

(i) नद्यः अम्भं स्वयं न पिबन्ति।
उत्तरम्:
नद्यः किम् स्वयं न पिबन्ति ?

(ii) दशपुत्रसम: द्रुमः भवति।
उत्तरम्:
दशपुत्रसमः कः भवति ?

(iii) वृक्षाः सत्पुरुषाः इव सन्ति।
उत्तरम्:
के सत्पुरुषाः इव सन्ति?

(iv) वृक्षा: अन्यस्य छायाम् कुर्वन्ति।
उत्तरम्:
वृक्षाः कस्य छायाम् कुर्वन्ति ?

(v) वृक्षाः फलानि न खादन्ति।
उत्तरम्:
वृक्षाः कानि न खादन्ति ?

४. मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

Class 6 Sanskrit Chapter 15 Diagram 10

महीरुहाः, वारिवाहाः, याचकाः, अम्भः, सज्जनाः

(i) मेघाः ………..
(ii) अर्थिनः ………..
(iii) वृक्षा: ……….
(iv) सत्पुरुषा: ……….
(v) जलम् ………..
उत्तरम्:

(i) मेघाः वारिवाहाः
(ii) अर्थिनः याचकाः
(iii) वृक्षा: महीरुहाः
(iv) सत्पुरुषा: सज्जनाः
(v) जलम् अम्भः

Class 6 Sanskrit Chapter 15 Diagram 11

In-Article Ad Slot

CBSE 2026-27 Board Exam Preparation & Practice Papers

Free Chapter Notes & Question Bank by BoardExams.in