NCERT Solutions • Class 6 Sanskrit (Deepakam - दीपकम्) |
Click here to access the bestDeepakam Chapter 14 Question Answer माधवस्य प्रियम् अङ्गम् textbook exercise questions and answers.
माधवस्य प्रियम् अङ्गम् Class 6th Sanskrit Deepakam Chapter 14 Question Answer
वयम् अभ्यासं कुर्मः
१. चित्रं दृष्ट्वा अङ्गस्य नाम लिखन्तु।
उत्तरम्:


२. कोष्ठकात् समुचितं क्रियापदं चित्वा उदाहरणानुसारम् अङ्गस्य कार्यं लिखन्तु।

यथा – नयनं – पश्यति
(क) मुखम् – ………. (चलति, हसति वदति)
उत्तरम्:
मुखम् – वदति
(ख) पादः – ……….. (लिखति, चलति पश्यति)
उत्तरम्:
पादः – चलति
(ग) कर्णः – ……….. (हसति वदति, शृणोति)
उत्तरम्:
कर्णः – शृणोति
(घ) नासिका – ……….. (आघ्राणं करोति, नृत्यति धावति)
उत्तरम्:
नासिका – आघ्राणं करोति
(ङ) जिह्वा – ………… (धावनं करोति, आस्वादनं करोति, पश्यति)
उत्तरम्:
जिह्वा – आस्वादनं करोति
३. कोष्ठकात् समुचितां संख्यां चित्वा रिक्तस्थानं पूरयन्तु।

(क) मम …………. शिरः अस्ति। (एकम् अनेकं चत्वारि )
उत्तरम्:
मम एकम् शिरः अस्ति।
(ख) मम …….. पादौ स्तः। (त्रयः, द्वौ, पञ्च)
उत्तरम्:
मम द्वौ पादौ स्तः।
(ग) मम ……. केशाः सन्ति। (दश, अष्ट, बहव:)
उत्तरम्:
मम बहवः केशाः सन्ति।
(घ) मम ……….. दन्ताः सन्ति। (चत्वारः, अष्टाविंशतिः, द्वात्रिंशत् )
उत्तरम्:
मम अष्टाविंशतिः दन्ताः सन्ति।
(ङ) मम हस्तयोः …….. अङ्गुल्यः सन्ति। (अष्ट, दश, पञ्चदश )
उत्तरम्:
मम हस्तयो: दश अङ्गुल्यः सन्ति।
४. कोष्ठकात् समुचितं क्रियापदं चित्वा उदाहरणानुसारं शरीराङ्गस्य नाम लिखन्तु।

यथा- नयनम्।पश्यति
(क) शृणोति – …………। (गुल्फ : चिबुकम् कर्ण:)
उत्तरम्:
शृणोति – कर्णः।
(ख) धावति – ………..। (पादद्वयम्, हस्तद्वयम्, नयनद्वयम् )
उत्तरम्:
धावति – पादद्वयम्।
(ग) नमति – ……….। (शिर:, कूर्पर:, जङ्घा)
उत्तरम्:
नमति – शिरः।
(घ) सूचयति – ……….। (अङ्गुली, नख:, चरण:)
उत्तरम्:
सूचयति – अंगुली।
(ङ) लिखति – …………। (हस्त:, मणिबन्ध:, कटि:)
उत्तरम्:
लिखति – हस्तः।
5. पट्टिकातः शब्दान् चित्वा यथायोग्यं गणेषु लिखन्तु।
नासिका मणिबन्धः चिबुकम् कूर्पर: हस्त: मणिबन्धः कपोल:
भुजः ललाटम् स्कन्धः जङ्घा नयनम् जानु ऊरु:
उत्तरम्:


६. कोष्ठकात् समुचितं पदं चिन्वा वाक्यानि ‘रचयन्तु।

(क) अहं ………… गायनं करोमि।
(पादेन, नासिकया, मुखेन)
उत्तरम्:
अहं मुखेन गायनं करोमि।
(ख) अहं ……….. धावनं करोमि।
(पादाभ्यां, ललाटेन, कूर्परेण)
उत्तरम्:
अहं पादाभ्यां धावनं करोमि।
(ग) अहं ……….. आघ्राणं करोमि।
(नखै:, नासिकया, चरणेन)
उत्तरम्:
अहं नासिकया आघ्राणं करोमि।
(घ) अहं ……….. श्रवणं करोमि।
(कर्णाभ्याम्, नासिकया, अङ्गुष्ठैः)
उत्तरम्:
अहं कर्णाभ्याम् श्रवणं करोमि।
(ङ) अहं ………. भोजनं करोमि।
(मुखेन पादेन, नासिकया)
उत्तरम्:
अहं मुखेन भोजनं करोमि।
७. पट्टिकातः समुचितं शरीराङ्गं चित्वा भगिनी कुत्र किं धरति इति सूचयन्तु।
कण्ठे ललाटे नयनयोः ओष्ठयोः पादयोः
कर्णयोः हस्तयोः वामहस्ते अङ्गुल्यां नेत्रयोः

भगिनी ……….. पादुकाद्वयं धरति।
उत्तरम्:
भगिनीपादयोःपादुकाद्वयं धरति।
भगिनी ………… कङ्कणानि धरति।
उत्तरम्:
भगिनीहस्तयोःकङ्कणानि धरति।
भगिनी …………. मुद्रिका धरति।
उत्तरम्:
भगिनीअङगुल्यांमुद्रिकां धरति।
भगिनी ……….. घटीयन्त्रं धरति।
उत्तरम्:
भगिनीवामहस्तेघटीयन्त्रं धरति।
भगिनी ……….. मालां धरति।
उत्तरम्:
भगिनीकण्ठेमालां धरति।
भगिनी ………… कुण्डलद्वयं धरति।
उत्तरम्:
भगिनीकर्णयोःकुण्डलद्वयं धरति।
भगिनी ……….. उपनेत्रं धरति।
उत्तरम्:
भगिनीनेत्रयोःउपनेत्रं धरति।
भगिनी ………. कुङ्कुमं धरति।
उत्तरम्:
भगिनीललाटेकुङ्कुमं धरति।
भगिनी ……… ओष्ठरागं धरति।
उत्तरम्:
भगिनीओष्ठयोःओष्ठरागं धरति।
भगिनी ……….. कज्जलं धरति।
उत्तरम्:
भगिनीनयनयोःकज्जलं धरति।
८. वाक्यं शुद्धम् अशुद्धं वा इति सूचयन्तु
(क) अहं कर्णाभ्यां भोजनं करोमि। (शुद्ध / अशुद्धम् )
उत्तरम्:
अशुद्धम्
(ख) अहं नासिकाद्वारा श्वासं स्वीकरोमि। (शुद्धम् / अशुद्धम्)
उत्तरम्:
शुद्धम्
(ग) अहम् अङ्गुष्ठैः गणनां करोमि। (शुद्धम् / अशुद्धम्)
उत्तरम्:
शुद्धम्
(घ) अहं नयनाभ्यां श्रवणं करोमि। (शुद्धम् / अशुद्धम्)
उत्तरम्:
अशुद्धम्
(ङ) अहं हस्तेन कार्यं करोमि। (शुद्धम् / अशुद्धम्)
उत्तरम्:
शुद्धम्
योग्यताविस्तरः

मधुराष्टकम्
अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम्।
हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ॥१॥
वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम्।
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥२॥
वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ।
नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् ||३||
गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम्।
रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् ||४||
करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम्।
वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥५॥
गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा।
सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् ||६||
गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम्।
दृष्टं मधुरं सृष्टं मधुरं मधुराधिपतेरखिलं मधुरम् ॥७॥
गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा।
दलितं मधुरं फलितं मधुरं मधुराधिपतेखिलं मधुरम् ||८||
श्रीवल्लभाचार्य कृतं मधुराष्टकम्
गतिविधि-कार्यम्
कक्षायां सर्वे छात्राः शिक्षकस्य मार्गदर्शनेन अस्य पाठस्य नाट्याभिनयं कुर्वन्तु।
परियोजनाकार्यम्|
योग्यताविस्तरभागे विद्यमानं चित्रं स्फोरकपत्रे रचयित्वा अङ्गानां नामानि लिखन्तु।
उत्तरम्:
छात्राः स्वमेव कुर्वन्तु।
पठित-अवबोधनम्
I. अवबोधन कार्यम्
१. निम्नलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत-
माधव: विचारयति बोधयति च-
‘मम शरीरस्य सर्वाणि अङ्गानि मम कृते उपकारकाणि सन्ति। अहम् नेत्राभ्याम् पश्यामि, कर्णाभ्याम् शृणोमि मुखेन भाषणं करोमि भोजनं करोमि च, उदरेण पाचनात् शक्तिं प्राप्नोमि पादाभ्याम् च चलामि। अतः भवन्तः सर्वेऽपि श्रेष्ठाः।
प्रश्ना:-
I. एकपदेन उत्तरत-
(i) माधव: काभ्याम् चलति ?
उत्तरम्:
पादाभ्याम्
(ii) माधव: काभ्याम् पश्यति?
उत्तरम्:
नेत्राभ्याम्
(iii) सः उदरेण पाचनात् किं प्राप्नोति ?
उत्तरम्:
शक्तिं
(iv) सर्वाणि अङ्गानि कीदृशनि सन्ति?
उत्तरम्:
उपकारकाणि
II. पूर्णवाक्येन उत्तरत-
(i) माधव: मुखेन किम् – किम् करोति ?
उत्तरम्:
माधव मुखेन भाषणं करोति भोजनं च करोति।
III. निर्देशानुसारं उत्तरत-
(i) ‘चलामि’ इत्यंत्र कः पुरुषः ?
(क) प्रथम पुरुष:
(ख) मध्यम पुरुष:
(ग) उत्तम पुरुष:
उत्तरम्:
(ग) उत्तम पुरुष:
(ii) ‘अहम्’ नेत्राभ्याम् पश्यामि।’ अस्मिन् वाक्ये क्रियापदं किम् ?
(क) पश्यामि
(ख) अहम्
(ग) नेत्राभ्याम्
(घ) माधवः
उत्तरम्:
(क) पश्यामि
२. वाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(i) माधवः स्वपनेस्वशरीरस्यअङ्गानि दृष्टवान्।
उत्तरम्:
माधवः स्वपने कस्य अङ्गानि दृष्टवान् ?
(ii)कर्णःस्मितं कृत्वा कथयति।
उत्तरम्:
कः स्मितं कृत्वा कथयति ?
(iii)भवन्तःसबलाः भवन्ति।
उत्तरम्:
के सबलाः भवन्ति ?
(iv)माधव:विचारयति।
उत्तरम्:
कः विचारयति ?
(v) सःनेत्राभ्याम्पश्यति।
उत्तरम्:
स: काभ्याम् पश्यति?
३. कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानं पूरयत-
द्वौ पादाभ्याम्, नेत्रेण, मुखेन, एका, नेत्राभ्याम्
(i) मोहन ……………. काणः अस्ति।
उत्तरम्:
नेत्रेण
(ii) नायक: ……… अन्धः अस्ति।
उत्तरम्:
नेत्राभ्याम्
(iii) नरस्य ………. कर्णौ स्तः।
उत्तरम्:
द्वौ
(iv) मुखे …….. नासिका भवति।
उत्तरम्:
एका
(v) नरः …… जलं पिबति।
उत्तरम्:
मुखेन
(vi) अहम् …….. चलामि।
उत्तरम्:
पादाभ्याम्
४. पर्यायपदान् समुचितं मेलयत-
उत्तरम्:


CBSE 2026-27 Board Exam Preparation & Practice Papers
Free Chapter Notes & Question Bank by BoardExams.in