NCERT Solutions • Class 7 Sanskrit (Deepakam - दीपकम्) |
Students rely onand Class 7th Sanskrit Deepakam Chapter 7 Question Answer ईशावास्यम् इदं सर्वम् to clarify their doubts after class.
Sanskrit Class 7 Chapter 7 Question Answer ईशावास्यम् इदं सर्वम्
Class 7 Sanskrit Chapter 7 NCERT Solutions ईशावास्यम् इदं सर्वम्
कक्षा 7 संस्कृत पाठ 7 के प्रश्न उत्तर ईशावास्यम् इदं सर्वम्
१. अधः प्रदत्तानां प्रश्नानाम् एकपदेन उत्तराणि लिखन्तु।
(पाठ के आधार पर प्रश्नों के उत्तर एक पद में दीजिए।)
(क) दैत्यराजः कः ? ………………………
(ख) के हिरण्यकशिपुं ध्यायन्ति ? ………………………
(ग) किं देवेभ्यः न दास्यन्ति ? ………………………
(घ) कस्य दलनेन अपि सः जीवति ? ………………………
(ङ) राक्षसाः कुतः प्रह्लादं पातितवन्तः ? ………………………
(च) हिरण्यकशिपुः कस्मात् वरं प्राप्तवान्? ………………………
(छ) हरिः कुत्र अस्ति इति कः वदति ? ………………………
उत्तर:
(क) हिरण्यकशिपुः
(ख) जनाः
(ग) यज्ञभागादिकम्
(घ) गजस्य
(ङ) उत्तुङ्गशिखरात्
(च) ब्रह्मदेवात्
(छ) सर्वत्र
२. अधः प्रदत्तानां प्रश्नानाम् पूर्णवाक्येन उत्तराणि लिखन्तु।
(नीचे दिए प्रश्नों के उत्तर पूर्ण वाक्य में लिखिए।)

(क) के भीताः तिष्ठन्ति ?
(ख) प्रह्लाद : अहर्निशं किं करोति ?
(ग) प्रह्लादं कथं समुद्रे क्षिप्तवन्तः ?
(घ) नृसिंहः कथं बहिः आगच्छति ?
(ङ) हिरण्यकशिपुः केन स्तम्भं भक्ष्यामि इति वदति ?
उत्तर:
(क) सुराः असुराः यक्ष – गन्धर्व – किन्नराः भवतः सर्वे भीताः तिष्ठन्ति।
(ख) प्रह्लादः अहर्निशं हिरण्यकशिपुस्य शत्रोः हरेः गुणगानं करोति।
(ग) प्रह्लादं रज्ज्वा बद्ध्वा समुद्रमध्ये क्षिप्तवन्तः।
(घ) हिरण्यकशिपुः स्तम्भं प्रहरति। महता गर्जनेन नृसिंह: बहिः आगच्छति।
(ङ) हिरण्यकशिपुः खड्गेन स्तम्भं भक्ष्यामि इति वदति।
३. उदाहरणानुसारं रिक्तस्थानानि पूरयन्तु।
(उदाहरण के अनुसार खाली स्थानों को भरिए।)
उत्तर:


४. उदाहरणानुसारं रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुर्वन्तु।
(उदाहरण के अनुसार रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए।)

(क)हिरण्यकशिपुःआगच्छति।
(ख)सुरासुराःसर्वे भीताः भविष्यन्ति।
(ग) दैत्यराजःखड्गेनप्रहरति।
(घ) अहंप्रह्लादंमारयिष्यामि।
(ङ) तात ! हरिस्तुसर्वत्रअस्ति।
(च)पुत्रस्यविषये वक्तुम् इच्छति।
(छ) नृसिंह:निजनखैःहिरण्यकशिपुं मारितवान्।
उत्तर:
(क)कःआगच्छति ?
(ख)केसर्वे भीताः भविष्यन्ति ?
(ग) दैत्यराजःकेनखड्गेन प्रहरति?
(घ) अहंकंमारयिष्यामि ?
(ङ) तात ! हरिस्तुकुत्रअस्ति ?
(च)कस्यविषये वक्तुम् इच्छति ?
(छ) नृसिंह:कै:हिरण्यकशिपुं मारितवान् ?
५. अधः प्रदत्तेषु रिक्तस्थानेषु तृतीया – विभक्त्यन्तानि रूपाणि लिखन्तु।
(नीचे दिए गए खाली स्थानों में तृतीया विभक्ति के रूप लिखिए।)
(क) अहं मम ………. (खड्ग) स्तम्भं भक्ष्यामि।
(ख) प्रह्लादः गजस्य ………. (पददलन) अपि जीवति।
(ग) सर्वे जनाः ……… (नारायण) अनुगृहीताः।
(घ) अहं ……….. (निजनख) तव वक्ष:स्थलं विदीर्य मारयिष्यामि।
(ङ) बालिकाः ……… (शिक्षिका) सह चर्चां कुर्वन्ति।
उत्तर:
(क) अहं ममखड्गेनस्तम्भं भक्ष्यामि।
(ख) प्रह्लादः गजस्यपददलनेनअपि जीवति।
(ग) सर्वे जनाःनारायणेनअनुगृहीताः।
(घ) अहंनिजनखैःतव वक्षःस्थलं विदीर्य मारयिष्यामि।
(ङ) बालिकाःशिक्षिकयासह चर्चां कुर्वन्ति।
६. उदाहरणानुसारं संयोज्य. लिखन्तु। (उदाहरणानुसार जोड़कर लिखिए |)

(क) रमा + ईश: =रमेशः
(ख) सुर + ईश्वरः = ………….
(ग) नाग + इन्द्रः = ………….
(घ) गज + इन्द्रः = ………….
(ङ) माता + इव = ………….
(च) राम + इति = ………….
(छ) पर + उपकारः = ………….
(ज) मम + उपरि = ………….
(झ) सूर्य + उदयः = ………….
(ञ) रामेण + उक्तम् = ………….
(ट) तस्य + उपरि = ………….
उत्तर:
(ख) सुरेश्वरः
(ग) नागेन्द्रः
(घ) गजेन्द्रः
(ङ) मातेव
(च) रामेति
(छ) परोपकारः
(ज) ममोपरि
(झ) सूर्योदय:
(ञ) रामेणोक्तम्
(ट) तस्योपरि
७. उदाहरणानुसारं वाक्यानि वर्तमानकालतः भविष्यत् काले परिवर्तयन्तु। –
(उदाहरण के अनुसार वाक्यों को वर्तमान से भविष्यत् काल में बदलिए।)
उत्तर:
(ख) रमा क्रीडाङ्गणे क्रीडिष्यति।
(ग) बालाः फलानि खादिष्यन्ति।
(घ) ताः योगासनं करिष्यन्ति।
(ङ) अहं नित्यं पठिष्यामि।
(च) त्वं कस्मिन् विषये वदिष्यसि ?
सा आपणं गमिष्यति।

८. उदाहरणानुसारं रिक्तस्थानानि पूरयन्तु।
(उदाहरण के अनुसार खाली स्थान भरिए।)
उत्तर:


NCERT Class 7 Sanskrit Chapter 7 Extra Questions and Answers ईशावास्यम् इदं सर्वम्
प्रश्न 1
|
(क) (हिरण्यकशिपोः सभा)
राजभटः – अयि भोः सावधानाः तिष्ठन्तु। राजाधिराजः राजगम्भीरः त्रैलोक्याधिपतिः देवाधिदेवः दैत्यराजः हिरण्यकशिपुः आगच्छति।
सभासदः – विजयतां महाराज! विजयताम्। विजयतां महाराज! विजयताम्।
हिरण्यकशिपुः – ह ह ह. ह …… (अट्टहासेन सह) अहम् एव सर्वशक्तिमान् अस्मि। अहम् अमरः अस्मि।
मन्त्री ― सत्यं दैत्यराज! सुराः असुराः यक्ष-गन्धर्व – किन्नराः भवतः सर्वे भीताः तिष्ठन्ति।
दैत्यपुरोहितः – भगवन्! देशे सर्वत्र भवतः एव पूजा भवति। अन्यदेवतानाम् पूजाराधनम् न भवति। इतः परं यज्ञभागादिकम् अपि देवेभ्यः न दास्यन्ति।
हिरण्यकशिपुः – साधु साधु। अयि भोः मन्त्रिन् ! सर्वत्र जनाः मामेव ध्यायन्ति खलु !
मन्त्री – देव! सर्वत्र भवतः एव नामकीर्तनं भवति, किन्तु…….(अधोमुखः मौनं तिष्ठति।)
हिरण्यकशिपुः – (सक्रोधम्) आ जानामि जानामि। भवान् मम पुत्रस्य विषये वक्तुम् इच्छति खलु।
मन्त्री – (मन्दध्वनिना) सत्यं देव !
हिरण्यकशिपुः – मम पुत्रकः एव मम शत्रुः अस्ति। कुलकलङ्कः सः प्रह्लाद : अहर्निशं मम शत्रोः हरेः गुणगानं करोति।
एकपदेन उत्तरत।
(i) हिरण्यकशिपोः : शत्रुः कः अस्ति ?
(ii) त्रैलोक्याधिपतिः कः अस्ति ?
उत्तर:
हिरण्यकशिपुः
(iii) देशे सर्वत्र कस्य एव पूजा भवति ?
उत्तर:
हिरण्यकशिपोः
II. पूर्णवाक्येन उत्तरत।
(i) राजभटः हिरण्यकशिपोः विषये किं कथयति ?
उत्तर:
राजभटः हिरण्यकशिपोः विषये कथयति- राजाधिराजः राजगम्भीर: त्रैलोक्याधिपतिः देवाधिदेवः दैत्यराज हिरण्यकशिपुः आगच्छति सावधानाः तिष्ठन्तु।
(ii) के सर्वे भीताः तिष्ठन्ति ?
उत्तर:
सुराः असुराः यक्ष- गन्धर्व – किन्नराः भवतः सर्वे भीताः तिष्ठन्ति।
III. भाषिककार्यम्।
(i) ” दैत्यराज हिरण्यकशिपुः ” अत्र विशेषणपदं किं अस्ति ?
(क) दैत्यराजः
(ख) हिरण्यः
(ग) कश्यपः
उत्तर:
(क) दैत्यराजः
(ii) ‘सर्वे भीताः तिष्ठन्ति’ अत्र क्रियापदं किं आगतम् ?
(क) भीताः
(ख) सर्वे
(ग) तिष्ठन्ति
उत्तर:
(ग) तिष्ठन्ति
(iii) ‘अहम् अमरः अस्मि।’ अत्र कर्तापदं कः अस्ति ?
(क) अमर:
(ख) अहम्
(ग) अस्मि
उत्तर:
(ख) अहम्
(iv) ‘कुलदीपक:’ इति पदस्य विपर्ययपदं किं आगतम् ?
(क) कुलकलङ्कः
(ख) प्रह्लादः
(ग) सः
उत्तर:
(क) कुलकलङ्कः
(ख) हिरण्यकशिपुः – अयि भोः अनुजे ! होलिके!! होलिके!!! कुत्र असि त्वम्? इत इतः।
होलिका – प्रणमामि भ्रातः ! किमर्थं दुःखितः भासि ? वद भ्रातः ! वद।
हिरण्यकशिपुः – सत्यम् अनुजे! त्वं जानासि एव, मम पुत्रः एव मम शत्रुः जातः।
होलिका – भ्रातः ! अलं चिन्तया, ब्रह्मणः वरप्रसादात् अग्निः मां न दहति, अहं ज्वालयिष्यामि प्रह्लादम्। आश्वस्तो भव।
(होलिका प्रह्लादकक्षं प्रविशति)
(होलिका प्रह्लादस्य नेत्रयोः पट्टिकां बध्नाति। किञ्चित् दूरे अग्निं प्रज्वालयति। स्वयम् अग्नौ उपविश्य करतलध्वनिना आह्वयति।)
होलिका – अत्र, अहम् अत्र अस्मि इत इतः।
प्रह्लादः – अहो तापम् अनुभवामि खलु अहम्।
(प्रह्लाद: अग्निकुण्डस्य समीपं गच्छति। होलिका तम् अङ्के स्वीकरोति।)
होलिका – ह………..ह……..ह… प्रह्लाद्! अहं तव मृत्युः अस्मि। अहं त्वाम् अग्नये दास्यामि।
प्रह्लादः – (करौ बद्ध्वा हरिं स्मरति ) ॐ नमो नारायणाय, ॐ नमो नारायणाय, ॐ नमो नारायणाय….
एकपदेन उत्तरत।
(i) मम पुत्रः एव मम शत्रुः जातः कः कथयति ?
(ii) प्रह्लादः किं अनुभवति ?
उत्तर:
तापम्
II. पूर्णवाक्येन उत्तरत।
(i) होलिका कस्य प्रसादात् अग्नौ उपविशति ?
उत्तर:
होलिका ब्रह्मणः वरप्रसादात् अग्नौ उपविशति।
(ii) होलिका कस्य नेत्रयोः पट्टिकां बध्नाति ?
उत्तर:
होलिका प्रह्लादस्य नेत्रयोः पट्टिकां बध्नाति।
(iii) प्रह्लादः किं कृत्वा हरिं स्मरति ?
उत्तर:
प्रह्लादः करौ बद्ध्वा हरिं स्मरति।
III. भाषिककार्यम्।
(i) ‘मम पुत्रः एव मम …… जातः।’
(क) रिपुः
(ख) शत्रुः
(ग) मित्रम्
उत्तर:
(ख) शत्रुः
(ii) ‘समीपे’ इति पदस्य विपर्ययपदं किं आगतम् ?
(क) दूरे
(ख) नेत्रे
(ख) अनुजे
उत्तर:
(क) दूरे
(iii) ‘अग्रजा’ इति पदस्य विलोमपदं किं आगतम् ?
(क) अनुजा
(ख) पट्टिका
(ग) अग्निना
उत्तर:
(क) अनुजा
(iv) अलं चिन्तया ………. वरप्रसादात् अग्निः मां न दहति।
(क) ब्रह्मणः
(ख) ब्राह्मण:
(ग) ब्रह्मणेन
उत्तर:
(क) ब्रह्मणः
(ग) (ततः प्रविशति प्रह्लादः हिरण्यकशिपुः च)
प्रह्लादः – ॐ नमो नारायणाय, ॐ नमो नारायणाय…
हिरण्यकशिपुः – (सक्रोधं दन्तान् विघट्टयन) आः नारायण! नारायण! दर्शय, कुत्र अस्ति तव नारायणः ?
प्रह्लादः – तात ! श्रीहरिः सर्वत्र अस्ति।
हिरण्यकशिपुः – किं ते हरिः अत्र अस्ति ? तत्र अस्ति ? सोपानेषु अस्ति ? अथवा अस्मिन् स्तम्भे अस्ति?
प्रह्लादः – नूनं हरिः सर्वत्र अस्ति। अस्मिन् स्तम्भे अपि अस्ति।
हिरण्यकशिपुः – आः! मूढ! पश्य पश्य, अनेन खड्गेन स्तम्भं भक्ष्यामि।
(हिरण्यकशिपुः स्तम्भं प्रहरति। महता गर्जनेन नृसिंह: स्तम्भात् बहिः आगच्छति)
नृसिंह: – (क्रोधेन सिंहगर्जनम्) रे पापात्मन्! अद्य तव मृत्युः सन्निहितः। कालोऽहं तव।
हिरण्यकशिपुः – (आदौ आश्चर्येण पश्यति पुनः कथय. ति) आह्! असत्यवादिन् ! अहं ब्रह्मद. ‘वात् वरं प्राप्य अमरः अस्मि। त्वाम् एव मृत्युलोकं प्रेषयिष्यामि।
(तस्मिन् सन्ध्याकाले नृसिंह: हिरण्यकशिपुं केशेषु गृहीत्वा कर्षति)
एकपदेन उत्तरत।
(i) श्रीहरिः कुत्र अस्ति ?
(ii) हिरण्यकशिपुः कं प्रहरति?
उत्तर:
स्तम्भं
(iii) ‘कालोऽहं तव’ इति कः कथयति ?
उत्तर:
नृसिंह:
II. पूर्णवाक्येन उत्तरत।
(i) हिरण्यकशिपुः कस्मात् वरं प्राप्य अमरः अस्ति ?
उत्तर:
हिरण्यकशिपुः ब्रह्मदेवात् वरं प्राप्य अमर: अस्ति।
(ii) नृसिंह: हिरण्यकशिपुं कथं कर्षति ?
उत्तर:
नृसिंह: हिरण्यकशिपुं केशेषु गृहीत्वा कर्षति।
III. भाषिककार्यम्।
(i) ‘नृसिंहः बहिः आगच्छति।’ अत्र कर्तृपदं किम् ?
(क) नृसिंह:
(ख) बहि:
(ग) आगच्छति
उत्तर:
(क) नृसिंह:
(ii) ‘नूनं हरि सर्वत्र अस्ति।’ अत्र कति अव्ययपदानि सन्ति?
(क) द्वि
(ख) त्रि
(ख) चत्वारि
उत्तर:
(क) द्वि
(iii) ‘हिरण्यकशिपुः स्तम्भं प्रहरति।’ अत्र क्रियापदं किम् ?
(क) स्तम्भं
(ख) प्रहरति
(ग) हिरण्यकशिपुः
उत्तर:
(ख) प्रहरति
(iv) श्रीहरिः तु ……… अस्ति।
(क) सर्वत्र
(ख) कुत्र
(ग) अत्र-तत्र
उत्तर:
(क) सर्वत्र
प्रश्न 2
|
(उचित अव्ययपदों को चुनकर रिक्त स्थान भरिए।)
नूनं, सर्वत्र, अत्र, तत्र, एव, न
(क) ईश्वरः ………. अस्ति।
(ख) …….. एषः मालाकारः अस्ति।
(ग) ……… एकं उद्यानं अस्ति।
(घ) …….. मम विद्यालयः अस्ति।
(ङ) ……… सर्वे जनाः माम् ………. ध्यायन्ति।
(च) ……… अहम् मनुष्यः ….. च पशुः।
उत्तर:
(क) ईश्वरः सर्वत्र अस्ति।
(ख) नूनं एषः मालाकारः अस्ति।
(ग) तत्र एकं उद्यानं अस्ति।
(घ) अत्र मम विद्यालयः अस्ति।
(ङ) सर्वे जनाः माम् एव ध्यायन्ति।
(च) न अहं मनुष्यः न च पशुः।
प्रश्न 3
|
(तृतीया विभक्ति का प्रयोग करके रिक्त स्थान भरिए।)
(क) नृसिंह:- ………. ‘हिरण्यकशिपुं मारितवान्। (निजनख)
(ख) हिरण्यकशिपुः ……. प्रहरति। (खड्ग)
(ग) महता …….. नृसिंहः बहिः आगच्छति। (गर्जन)
(घ) होलिका तं ………. आह्वयति। (करतलध्वनि)
(ङ) सर्वं जगत् …….. व्याप्तम् अस्ति। (ईश)
(च) गजस्य …….. अपि सः जीवति। (पद-दलन)
उत्तर:
(क) निजनखैः
(ख) खड्गेन
(ग) गर्जनेन
(घ) करतलध्वनिना
(ङ) ईशेन
प्रश्न 4
|

प्रश्न 5
|

प्रश्न 6
|

CBSE 2026-27 Board Exam Preparation & Practice Papers
Free Chapter Notes & Question Bank by BoardExams.in