BoardExams.in
Class 6sanskritCBSE 2026-27

NCERT Solutions for Class 6 sanskrit Chapter 5: Class 6 Sanskrit Chapter 5

0 Solved Questions & Exercises7 min estimated readingUpdated 2026-09-16
Top Sponsor / Ad Space

CBSE 2026-27 Board Exam Preparation & Practice Papers

Free Chapter Notes & Question Bank by BoardExams.in

NCERT Solutions • Class 6 Sanskrit (Deepakam - दीपकम्)
Chapter 5: Class 6 Sanskrit Chapter 5
Latest Rationalised Syllabus (NEP 2026-27)

Click here to access the bestDeepakam Chapter 5 Question Answer शूराः वयं धीराः वयम् textbook exercise questions and answers.

शूराः वयं धीराः वयम् Class 6th Sanskrit Deepakam Chapter 5 Question Answer

१. एतत् सम्पूर्णं गीतं सस्वरं गायन्तु लिखन्तु, कण्ठस्थं च कुर्वन्तु।

२. पाठस्य आधारेण प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु।

(क) शूराः के?
उत्तरम्:
भारतीयाः/ वयम्

(ख) वयं कीदृशमानसाः स्मः ?
उत्तरम्:
दृढ़मानसाः

(ग) वयं कीदृशचिन्तकाः स्मः ?
उत्तरम्:
शुभचिन्तकाः

(घ) वयं कुत्र अतिनिश्चलाः स्मः ?
उत्तरम्:
विजये

(ङ) वयं विजयार्थिनः कुत्र याम: ?
उत्तरम्:
समराङ्गणम्।

३. उदाहरणानुसारम् अधोलिखितानां पदानां वचनपरिवर्तनं कुर्वन्तु।

Class 6 Sanskrit Chapter 5 Diagram 1

(क) शूराः वयम् =‘शूरः “अहम्’
वीराः वयम् – …………..।
उत्तरम्:
वीर: अहम्।

(ख) ………….. = बलशालिनः
…………. जयगामिनः।
उत्तरम्:
बलशाली
जयगामी।

(ग) दृढमानसाः = ……………..
प्रियसाहसा: = …………..।
उत्तरम्:
दृढ़मानसः
प्रियसाहसः।

(घ) ……….. = अतिभावुकाः
शुभचिन्तका: = …………….।
उत्तरम्:
अतिभावुकः
शुभचिन्तक:

(ङ) धनकामना = ……………
वञ्चना = ……………।
उत्तरम्:
धनकामना:
वञ्चनाः।

(च) ………… = वर्चस्वलाः
………… अतिनिश्चलाः।
उत्तरम्:
वर्चस्वल
अतिनिश्चलः।

४. ‘क’ स्तम्भेन सह ‘ख’ स्तम्भस्य उचितं मेलनं कृत्वा रिक्तस्थाने लिखन्तु।

उत्तरम्:
(क) गतभीतयो धृतनीतयो दृढशक्तयो निखिलाः।
(ख) यामो वयं समराङ्गणं विजयार्थिनो बालाः।
(ग) जगदीश हे ! परमेश हे! सकलेश हे भगवन्।
(घ) जय मङ्गलं परमोज्ज्वलं नो देहि परमात्मन्।
(ङ) जनसेवकाः अतिभावुकाः शुभचिन्तकाः नियतम्।
(च) ऊर्जस्वला वर्चस्वला अतिनिश्चला विजये।

Class 6 Sanskrit Chapter 5 Diagram 2

५. उदाहरणानुसारम् अधोलिखितानां पदानां वचनपरिवर्तनं कुर्वन्तु।

Class 6 Sanskrit Chapter 5 Diagram 3

एकवचनम् – बहुवचनम्

यथा –शूरः–शूरा:
(क) धीरः – …………
(ख) ……….. – वीराः
(ग) जनसेवकः – ……….
(घ) ……….. – धनकामना:
(ङ) निखिल: – ……….
(च) ……….. – बाला:
उत्तरम्:
(क) धीर: –धीराः
(ख)वीरः– वीराः
(ग) जनसेवक: –जनसेवकाः
(घ)धनकामना– धनकामनाः
(ङ) निखिल: –निखिलाः
(च)बालः– बाला:

६. उदाहरणं दृष्ट्वा अधोलिखितानि पदानि परस्परं संयोज्य वाक्यानि रचयन्तु।

Class 6 Sanskrit Chapter 5 Diagram 4

‘क’ – ‘ख’

(क) छात्र: पठामि
(ख) छात्रौ पठसि
(ग) छात्राः पठति
(घ) अहम् पठन्ति
(ङ) आवाम् पठथः
(च) वयम् पठथ
(छ) त्वम् पठतः
(ज) युवाम् पठामः
(झ) यूयम् पठाव:
उत्तरम्:
(क) छात्रः पठति।
(ख) छात्रौ पठतः।
(ग) छात्राः पठन्ति।
(घ) अहम् पठामि।
(ङ) आवाम् पठावः।
(च) वयम् पठामः।
(छ) त्वम् पठसि।
(ज) युवाम् पठथः।
(झ) यूयम् पठथ |

७. कोष्ठकात् उचितं पदं स्वीकृत्य रिक्तस्थाने लिखन्तु।

Class 6 Sanskrit Chapter 5 Diagram 5

यथा – तद्, स्त्रीलिङ्गम् प्रथमा विभक्तिः एकवचनम् – ……… सा (एषा / अहम् / सा)

(क) अस्मद् प्रथमा विभक्तिः, एकवचनम् – ………. वयम् / त्वम् / अहम्)
उत्तरम्:
अहम्

(ख) युष्मद्, प्रथमा विभक्तिः, द्विवचनम् – ……….. (त्वम्/स: /युवाम्)
उत्तरम्:
युवाम्

(ग) तद्, पुंलिङ्गम्, प्रथमा विभक्तिः, बहुवचम् – ……… (एष: /ते/सा)
उत्तरम्:
ते

(घ) एतद्, नपुंसकलिङ्गम् प्रथमा विभक्तिः बहुवचनम् – …….. (एतानि / वयम् / तत्)
उत्तरम्:
एतानि

(ङ) एतद्, स्त्रीलिङ्गम् प्रथमा विभक्तिः, एकवचनम् – ……… (अहम् / एषा / एतत्)
उत्तरम्:
एषा

(च) तद्, स्त्रीलिङ्गम् प्रथमा विभक्तिः द्विवचनम् – ……… (ते / अहम् / एषा)
उत्तरम्:
ते

८. उदाहरणमनुसृत्य उचितेन पदेन रिक्तस्थानं पूरयन्तु।

Class 6 Sanskrit Chapter 5 Diagram 6

यथा – नायिका नृत्यति। (नृत्)

(क) बालक: ………….। (लिख)
(ख) छात्रौ …………… | (क्रीड्)
(ग) अहम् …………। (गच्छ)
(घ) कविः ……….। (पश्य्)
(ङ) महिला …………। (वद्)
(च) देवा: ………..। (आगच्छ्)
(छ) फलानि …….। (पत्)
(ज) गृहिण्यः ……..। (उपविश्)
उत्तरम्-
(क) बालकःलिखति।
(ख) छात्रौक्रीडतः।
(ग) अहम्गच्छामि।
(घ) कविःपश्यति।
(ङ) महिलाःवदन्ति।
(च) देवाःआगच्छन्ति।
(छ) फलानिपतन्ति।
(ज) गृहिण्यःउपविशन्ति।

योग्यताविस्तरः

१. गीतस्य रचनाकारः।

अस्य गीतस्य रचनाकार: श्रीधरः भास्करः वर्णेकर : अस्ति। एषः सुप्रसिद्धः आधुनिकः कविः अस्ति।
वर्णेकरमहोदयस्य जन्म महाराष्ट्र राज्ये नागपुरनगरे अभवत्। एषः अनेकानि काव्यानि नाटकानि गीतानि च रचितवान्। वर्णेकरमहोदयः राष्ट्रपतिपुरस्कारेण अपि सम्मानितः अस्ति।

हिंदी अर्थ – इस गीत के रचनाकार श्रीधर भास्कर वर्णेकर हैं। यह सुप्रसिद्ध आधुनिक कवि हैं। वर्णेकर महोदय का जन्म महाराष्ट्र के नागपुर नगर में हुआ। इन्होंने अनेक काव्य, नाटक और गीत लिखें। वर्णेकर महोदय राष्ट्रपति पुरस्कार से भी सम्मानित हैं।

२. अधोलिखितानि शब्दरूपाणि पठन्तु अवगच्छन्तु स्मरन्तु च।

Class 6 Sanskrit Chapter 5 Diagram 7

३. महापुरुषाणां राष्ट्रनायकानां च चित्राणि अधः सन्ति। एते शूराः वीराः धीराः च
आसन्। गीते लिखितान् सर्वान् भावान् एतेषां महापुरुषाणां जीवने वयं पश्यामः।


हिंदी अर्थ – महापुरुषों और राष्ट्रनायकों के नाम दिए गए हैं। ये शूर वीर और धीर थे। गीत में लिखे सभी भाव इन महापुरुषों के जीवन में हम देखते हैं। जैसे- शङ्कराचार्य, शिवाजी महाराज, स्वामी दयानन्द सरस्वती मदनमोहन मालवीय, रानी लक्ष्मीबाई, स्वामी विवेकानन्द, महर्षि अरविन्द, सुभाषचंद्र बोस, ए. पीजे. अब्दुल कलाम।

Class 6 Sanskrit Chapter 5 Diagram 8

४. एतत् स्तोत्रं ध्यानेन पठन्तु, अवगच्छन्तु स्मरन्तु च।

भारतवर्षस्य केषाञ्चन धीराणां वीराणां कासाञ्चन वीराङ्गनानां च नामोल्लेख:
अधोदत्तेषु श्लोकेषु अस्ति। एतान् श्लोकान् सस्वरं गायन्तु स्मरन्तु च।

Class 6 Sanskrit Chapter 5 Diagram 9

अरुन्धत्यनसूया च सावित्री जानकी सती।
द्रौपदी कण्णगी गार्गी मीरा दुर्गावती तथा।।
लक्ष्मीरहल्या चन्नम्मा रुद्रमाम्बा सुविक्रमा |
निवेदिता सारदा च प्रणम्याः मातृदेवताः।
अगस्त्यः कम्बुकौण्डिन्यौ राजेन्द्रश्चोलवंशजः।
अशोकः पुष्यमित्रश्च खारवेलः सुनीतिमान्।
रामकृष्णो दयानन्दो रवीन्द्रो राममोहनः।
रामतीर्थोऽरविन्दश्च विवेकानन्द उद्यशाः।

छात्राः सस्वरं गायन्तु।

परियोजनाकार्यम्

१. अधः प्रदत्तेषु महापुरुषेषु एकस्य लघुजीवनवृतं लिखन्तु। स्वामी विवेकानन्दः / शिवाजि / राणाप्रतापः
उत्तरम्:
स्वामी विवेकानन्दः
स्वामिविवेकानन्दस्य बाल्यकालस्य नाम ‘नरेन्द्रनाथ: आसीत्। तस्य जन्म जनवरिमासे द्वादश दिनांके 1863 ख्रिस्ताब्दे कोलकातानगरे अभवत्। तस्य मातुः नाम ‘भुवनेश्वरी देवी’ आसीत्। तस्य पिता विश्वनाथदत्तः प्रतिष्ठितः अभिभावकः आसीत्। नरेन्द्रनाथः बाल्यकालात् एव कुशाग्रबुद्धि:, मल्लक्रीडायाम् पारंगत: धार्मिकः च आसीत्। तस्य आध्यात्मिक गुरुः रामकृष्णपरमहंसः आसीत्। ‘उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत’ इति वेदान्तवाणीं सः प्रचारितवान्।

देशवासिनां दुर्दशां पराधीनतां च दृष्ट्वा तस्य मनः अति दुखितः अभवत्। अमेरिकादेशे शिकागोनगरे अखिलविश्वधार्मिकसम्मेलने भाषणं कृत्वा अयं परमां प्रसिद्धिम् अलभत्। अयं युगपुरुषः अस्माकं देशे संसारे च प्रातः स्मरणीयः अस्ति।

२. अस्मिन् पाठे प्रयुक्तानां प्रथमाविभक्तेः बहुवचनान्त-पदानां सङ्ग्रहणं कुर्वन्तु।
दशशब्दानां वाक्ये प्रयोगम् अपि कुर्वन्तु।
उत्तरम्:
प्रथमा विभक्तेः बहुवचनान्तं पदानां वाक्य प्रयोगम्-

(i) शूराः – भारतीयाः शूराः सन्ति।
(ii) वीराः – वीराः युद्धे पराजिताः न भवन्ति।
(iii) वयम् – वयम् देशभक्ताः स्मः।
(iv) भारतीयाः – भारतीयाः स्नेहशीलाः भवन्ति।
(v) गुणशालिनः – वयम् गुणशालिनः स्मः।
(vi) जनसेवकाः – जनसेवकाः सेवां कुर्वन्ति।
(vii) शुभचिन्तकाः – महापुरुषाः शुभचिन्तकाः भवन्ति।
(viii) बाला: – बालाः क्रीडाक्षेत्रे खेलन्ति।
(ix) अतिनिश्चला: – वयम् अतिनिश्चलाः स्मः।
(x) गतभीतयः भारतीयाः गतभीतयः सन्ति।

३. अन्यत् संस्कृतदेशभक्तिगीतम् अन्विष्य तस्य सामूहिकं वाचनं कुर्वन्तु।
उत्तरम्:
देशभक्तिगीतम्-

अमृतस्य पुत्राः वयं
सबलं सदायं नो हृदयम्
गतमितिहासं पुनरुन्नेतुम्
युवसंघटनं नवमिह कर्तुम्।।
भारतकीर्ति दिशि दिशि नेतुं
दृढ़संकल्पा विपदि विजेतुम्।।
ऋषिसन्देशं जगति नयेम
सत्त्वशालिनो मनसि भवेम।
कष्टिसमुद्रं सपदि
तेरेम चालितकार्यम् नहि त्यजेम ||

पठित-अवबोधनम्|

१. अधोलिखितं श्लोकं पठित्वा प्रश्नान् उत्तरत-

धनकामना सुखवासना न च वञ्चना हृदये।
ऊर्जस्वला वर्चस्वला अतिनिश्चला विजये।।

प्रश्ना:-

I. एकपदेन उत्तरत-

(i) वञ्चना कुत्र न भवेत् ?
उत्तरम्:
हृदये

(ii) कस्य कामना न भवेत् ?
उत्तरम्:
धनस्य

(iii) अतिनिश्चलाः कुत्र भवेत् ?
उत्तरम्:
विजये

(iv) सुखस्य वासना कुत्र न भवेत् ?
उत्तरम्:
हृदये

II. पूर्णवाक्येन उत्तरत-

(i) विजये कीदृशाः भवेयुः ?
उत्तरम्:
विजये ऊर्जस्वला वर्चस्वला अतिनिश्चला भवेयुः।

III. निर्देशानुसारं उत्तरत-

(i) ‘हृदये’ इत्यत्र का विभक्तिः ?
(क) प्रथमा
(ख) सप्तमी
(ग) तृतीया
(घ) द्वितीया
उत्तरम्:
(ख) सप्तमी

(ii) ‘कपट:’ इति पदस्य पर्यायः कः ?
(क) विजये
(ख) कामना
(ग) वञ्चना
(घ) निश्चला
उत्तरम्:
(ग) वञ्चना

२. अधोलिखितश्लोकस्य अन्वयं मञ्जूषायाः पदैः कुरुत |

गतभीतयो धृतनीतयो दृढ़शक्तयो निखिला।
यामो वयं समराङ्गणं विजयार्थिनो बालाः ||

अन्वयः – …….. (i) ……….. धृतनीतयो निखिला दृढ़शक्तयो …….. (ii)…… विजयार्थिनो ………… (iii) …… समराङ्गण ……………. (iv) …………।
मञ्जूषा:- यामः बालाः, गतभीतयो, वयम्

उत्तरम्:
गतभीतयोधृतनीतयो निखिला दृढ़शक्तयोवयम्विजयार्थिनोबालाःसमराङ्गणंयामः।

Class 6 Sanskrit Chapter 5 Diagram 10

३. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(i)वयम्समराङ्गणं गच्छामः।
(ii) शूराः वीराःवयम्।
(iii) वयम्जनसेवकाःस्मः।
(iv)धनस्यकामना न भवेत्।
(v)दृढ़मानसाःवयम् स्मः।
उत्तरम्:
(i)केसमराङ्गणं गच्छामः ?
(ii) शूराः वीराके?
(iii) वयम्केस्म: ?
(iv)कस्यकामना न भवेत् ?
(v)कीदृशाःवयम् स्म: ?

४. पर्यायपदैः सह मेलनं कुरुत-

उत्तरम्:

Class 6 Sanskrit Chapter 5 Diagram 11

Class 6 Sanskrit Chapter 5 Diagram 12

In-Article Ad Slot

CBSE 2026-27 Board Exam Preparation & Practice Papers

Free Chapter Notes & Question Bank by BoardExams.in