BoardExams.in
Class 6sanskritCBSE 2026-27

NCERT Solutions for Class 6 sanskrit Chapter 6: Class 6 Sanskrit Chapter 6

0 Solved Questions & Exercises5 min estimated readingUpdated 2026-09-16
Top Sponsor / Ad Space

CBSE 2026-27 Board Exam Preparation & Practice Papers

Free Chapter Notes & Question Bank by BoardExams.in

NCERT Solutions • Class 6 Sanskrit (Deepakam - दीपकम्)
Chapter 6: Class 6 Sanskrit Chapter 6
Latest Rationalised Syllabus (NEP 2026-27)

Click here to access the bestDeepakam Chapter 6 Question Answer सः एव महान् चित्रकारः textbook exercise questions and answers.

सः एव महान् चित्रकारः Class 6th Sanskrit Deepakam Chapter 6 Question Answer

वयम् अभ्यासं कुर्मः

१. पाठस्य आधारेण प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु।

(क) श्रद्धा सर्वत्र किं पश्यति?
उत्तरम्:
पुष्पाणि / पर्णानि / खगा: जन्तवः च

(ख) शुकः केन वर्णेन शोभते ?
उत्तरम्:
हरितवर्णेन

(ग) श्रद्धायाः इष्टवर्ण: क: ?
उत्तरम्:
हरित:

(घ) क: महान् चित्रकार: ?
उत्तरम्:
परमेश्वरः

(ङ) आदित्यः कान् द्रष्टुम् इच्छति ?
उत्तरम्:
चित्रवर्णाः शुकाः।

२. पाठस्य आधारेण प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु।

(क) आचार्यस्य प्रावारकस्य वर्णः कः ?
उत्तरम्:
आचार्यस्य प्रावारकस्य वर्णः श्वेतः अस्ति।

(ख) कुत्र विविधेषु वर्णेषु पाटलपुष्पाणि सन्ति ?
उत्तरम्:
मञ्जुलस्य उद्याने विविधेषु वर्णेषु पाटलपुष्पाणि सन्ति।

(ग) किं बहुवर्णमयम् इति मञ्जुलस्य अभिप्रायः ?
उत्तरम्:
इन्द्रधनुः बहुवर्णमयम् इति मञ्जुलस्य अभिप्रायः अस्ति।

(घ) चित्रवर्णशुकाः कीदृशाः भवन्ति ?
उत्तरम्:
चित्रवर्णशुकानाम् पक्षाः नीलाः, पीताः, रक्ताः च भवन्ति।

(ङ) कस्य कस्य वर्णः कृष्णः ?
उत्तरम्:
काकस्य पिकस्य च वर्णः कृष्णः भवति।

३. उचितवर्णेन सह शब्द योजयन्तु।

रक्तवर्णः
नीलवर्ण:
कृष्णवर्णः
हरितवर्ण:
पीतवर्ण:
श्वेतवर्ण:
पाटलवर्ण:
नीललोहितः

Class 6 Sanskrit Chapter 6 Diagram 1

Solution:
म्:
रक्तवर्ण: – शुकस्य चञ्चुः
नीलवर्ण: – गगनः
कृष्णवर्णः – काक:
हरितवर्ण: – पर्णः
पीतवर्णः – सूर्यकान्तिः पुष्पम्
श्वेतवर्णः – मल्लिका पुष्पम्
पाटलवर्णः – पाटल पुष्पम्
नील लोहितः – जम्बूफलम्।

४. राष्ट्रध्वजस्य समुचितैः वर्णैः अधः प्रदत्तेषु वाक्येषु रिक्तस्थानानि पूरयन्तु।

Class 6 Sanskrit Chapter 6 Diagram 2

(क) उपरि ………. वर्णः अस्ति।
उत्तरम्:
केसर वर्ण:

(ख) मध्ये ……… वर्णः अस्ति।
उत्तरम्:
श्वेतः

(ग) अधः ………. वर्णः अस्ति।
उत्तरम्:
हरितः

(घ) ध्वजस्य केन्द्रे ………. वर्णः अस्ति।
उत्तरम्:
नीलः

५. प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु।

(क) केशानां वर्ण: क: ?
उत्तरम्:
कृष्ण:

(ख) आकाशस्य वर्णः कः ?
उत्तरम्:
नीलः

(ग) कदलीफलस्य वर्णः कः ?
उत्तरम्:
पीतः

(घ) तृणस्य वर्णः कः ?
उत्तरम्:
हरितः

(ङ) महिषस्य वर्ण: क: ?
उत्तरम्:
कृष्ण: श्यामः

(च) मयूरस्य वर्ण: क: ?
उत्तरम्:
चित्रवर्णः

६. रेखाचित्रेषु निर्दिष्टान् वर्णान् पूरयन्तु।


उत्तरम्:
छात्राः स्वयमेव कुरुत।

Class 6 Sanskrit Chapter 6 Diagram 3

Class 6 Sanskrit Chapter 6 Diagram 4

योग्यताविस्तरः

सायङ्काले त्वम्बरकोणे

Class 6 Sanskrit Chapter 6 Diagram 5

नित्यं वयं प्रकृत्यां वर्णान् पश्यामः। एतत् पद्यं सर्वेषां वर्णानां रचयिता भगवान् परमेश्वरः एव’ इति भावं प्रकटयति।

सायङ्काले त्वम्बरकोणे विलिखति प्रकृतिर्वर्णचयम्।
रक्तं पीतं श्वेतं चित्रं नीलं शबलितदृग्विभवम्।।
वर्णविचित्रं गगनं दृष्ट्वा बालास्सर्वे तुष्यन्ति।
द्रष्टुं सर्वं तस्य समीपं विहगाः विविधाः गच्छन्ति।।
प्रतिनिमिषं स हि वर्णविशेषः नव्यं रूपं प्राप्नोति।
गन्धर्वाणां मन्दिरमित्यपि सर्वे मर्त्याः कथयन्ति।।
प्रतिदिनमेवं गगने सायं रचिता वर्णाः केनैते।
तुभ्यं सर्वकलाकाराणां नायक ! भगवन् नमो नमः।।
कल्लडि-कृष्णमूर्ति:

Class 6 Sanskrit Chapter 6 Diagram 6

अमरकोशे वर्णानां वर्गीकरणम् (धीवर्ग:)

शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डराः।
अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः।।
शुक्लः, शुभ्रः शुचिः, श्वेतः, विशदः श्येत:, पाण्डरः, अवदातः, सितः, गौर:, वलक्षः, धवलः, अर्जुनः।

हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः। कृष्णे नीलासितश्यामकालश्यामलमेचकाः ॥
हरिणः, पाण्डुरः, पाण्डुः, ईषत्पाण्डुः, धूसरः, कृष्णः, नील:, असितः, श्यामः कालः, श्यामलः, मेचकः।

पीतो गौरो हरिद्राभः पलाशो हरितो हरित्।
लोहितो रोहितो रक्तः शोणः कोकनदच्छविः ॥
पीतः, गौर:, हरिद्राभ:, पालाश:, हरितः, हरित् लोहितः, रोहितः, रक्तः, कोकनदच्छविः
अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः।
श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते।।

रक्तोत्पलाभ:, शोण:, अव्यक्तरागः, ईषद्रक्त:,
अरुणः, श्वेतरक्तः, पाटल:, श्यावः कपिशः, धूम्र:, धूमल:, कृष्णलोहितः।

कडार: कपिलः पिङ्गपिशङ्गौ कटुपिङ्गली | चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे ॥
कडार:, कपिलः, पिङ्गः, पिशङ्गः, कद्रुः, पिङ्गलः, चित्रम्, किर्मीर:, कल्माष:, शबल:, कर्बुरः (विचित्रवर्ण:)

परियोजनाकार्यम्

Class 6 Sanskrit Chapter 6 Diagram 7

Class 6 Sanskrit Chapter 6 Diagram 8

• उपरितनानां चित्राणां नामानि वर्णाः च के इति अभिजानन्तु लिखन्तु च।
उत्तरम्:

Class 6 Sanskrit Chapter 6 Diagram 9

• कक्षायां विद्यमानानां 10 वस्तूनां नामानि वर्णान् च अभिजानन्तु लिखन्तु च।
उत्तरम्:

Class 6 Sanskrit Chapter 6 Diagram 10

पठित-अवबोधनम्

पठित- सामग्रीम् आधृत्य अवबोधनकार्यम्

१. निम्नलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-

श्रद्धा – अत्र वृक्षस्य उपरि शुकः अस्ति। सः अपि हरितवर्णेन शोभते।
शिक्षक: – श्रद्धे! तव इष्टवर्णः हरित: इति चिन्तयामि। अतएव हरितवर्णम् एव पश्यसि खलु।
मेधा – आचार्य ! अत्र काकः अपि अस्ति, यस्य वर्णः कृष्णः। एवं पिकस्य वर्ण: अपि वर्णः कृष्णः।

प्रश्ना:-

1. एकपदेन उत्तरत-

(i) वृक्षस्य उपरि कः अस्ति ?
उत्तरम्:
शुक:

(ii) काकस्य वर्णः कः अस्ति?
उत्तरम्:
कृष्ण:

(iii) पिकस्य वर्णः कः अस्ति ?
उत्तरम्:
कृष्ण:

(iv) हरित: वर्ण: कस्य अस्ति ?
उत्तरम्:
शुकस्य

II. पूर्णवाक्येन उत्तरत-

(i) श्रद्धायाः इष्टवर्णः कः अस्ति ?
उत्तरम्:
श्रद्धायाः इष्टवर्ण: हरितः अस्ति।

III. निर्देशानुसारं उत्तरत-

(i) ‘पश्यसि’ इत्यत्र कः लकारः ?
(क) लङ्
(ख) लृट्
(ग) लट्
(घ) लोट्
उत्तरम्:
(ग) लट्

(ii) ‘वृक्षस्य’ इति पदे का विभक्तिः ?
(क) षष्ठी
(ख) पञ्चमी
(ग) सप्तमी
(घ) द्वितीया
उत्तरम्:
(क) षष्ठी

२. रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत –

(i)परमेश्वर:महान् चित्रकारः अस्ति।
उत्तरम्:
क: महान् चित्रकारः अस्ति ?

(ii)काकःकृष्णः अस्ति।
उत्तरम्:
कः कृष्णः अस्ति ?

(iii)पर्णस्यवर्ण: हरितः अस्ति।
उत्तरम्:
कस्य वर्ण: हरितः अस्ति ?

(iv)शुकस्यवर्ण: हरितः अस्ति।
उत्तरम्:
कस्य वर्ण: हरितः अस्ति ?

(v)उद्यानेपाटलपुष्पाणि सन्ति।
उत्तरम्:
कुत्र पाटलपुष्पाणि सन्ति?

३. मञ्जूषात: समानार्थकानि पदानि चित्वा लिखत-


खगाः, वायसः, मरालः, कोकिलः, शश:

Class 6 Sanskrit Chapter 6 Diagram 11

(i) हंसः …………..
(ii) पिक: ……….
(iii) पक्षिणः …………..
(iv) काक: …………..
(v) शशक: ………

(i) हंसः ………….
उत्तरम्:
मराल:

Solution:
म्:
कोकिलः

(iii) पक्षिणः …………..
उत्तरम्:
खगाः

(iv) काक: …………..
उत्तरम्:
वायसः

(v) शशक: …………..
उत्तरम्:
शश:

४. अधोलिखितानि वाक्यानि घटनाक्रमानुसार लिखत-

१. अत्र काकः अपि अस्ति, यस्य वर्णः कृष्णः।
उत्तरम्:
शिक्षक : छात्रान् पृच्छति यत् ते किं किं पश्यन्ति।

२. शिक्षक : छात्रान् पृच्छति यत् ते किं किं पश्यन्ति।
उत्तरम्:
अत्र काकः अपि अस्ति, यस्य वर्णः कृष्णः।

३. वर्णयोजक: चित्रकारः कः अस्ति ?
उत्तरम्:
मनीषः वदति यत् शुकस्य चञ्चुः अपि रक्तवर्णा।

४. परमेश्वरः एव महान् चित्रकारः अस्ति।
उत्तरम्:
आदित्य चित्रवर्णान् शुकान् द्रष्टुम् इच्छति।

५. मञ्जुलः कथयति यत् इन्द्रधनुः तु बहुवर्णमयः भवति।
उत्तरम्:
मञ्जुलः कथयति यत् इन्द्रधनुः तु बहुवर्णमयः भवति।

६. शिक्षक छात्रान् स्वस्य अन्येषां च वस्त्राणां वर्णान् अवलोकयितुम् कथयति।
उत्तरम्:
शिक्षक: छात्रान् स्वस्य अन्येषां च् वस्त्राणां वर्णान् अवलोकयितुम् कथयति।

७. मनीषः वदति यत् शुकस्य चञ्चुः अपि रक्तवर्णा।
उत्तरम्:
वर्णयोजक : चित्रकारः कः अस्ति ?

८. आदित्य चित्रवर्णान् शुकान् द्रष्टुम् इच्छति।
उत्तरम्:
परमेश्वरः एव महान् चित्रकारः अस्ति।

In-Article Ad Slot

CBSE 2026-27 Board Exam Preparation & Practice Papers

Free Chapter Notes & Question Bank by BoardExams.in