BoardExams.in
Class 6sanskritCBSE 2026-27

NCERT Solutions for Class 6 sanskrit Chapter 7: Class 6 Sanskrit Chapter 7

1 Solved Questions & Exercises9 min estimated readingUpdated 2026-09-16
Top Sponsor / Ad Space

CBSE 2026-27 Board Exam Preparation & Practice Papers

Free Chapter Notes & Question Bank by BoardExams.in

NCERT Solutions • Class 6 Sanskrit (Deepakam - दीपकम्)
Chapter 7: Class 6 Sanskrit Chapter 7
Latest Rationalised Syllabus (NEP 2026-27)

Click here to access the bestDeepakam Chapter 7 Question Answer अतिथिदेवो भव textbook exercise questions and answers.

अतिथिदेवो भव Class 6th Sanskrit Deepakam Chapter 7 Question Answer

वयम् अभ्यासं कुर्मः

१. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु।

(क) राधिका कथं चलति स्म ?
उत्तरम्:
कूर्दमाना

(ख) गृहे कति अतिथयः सन्ति ?
उत्तरम्:
पञ्च

(ग) कां दृष्ट्वा शावकाः भीताः न भवन्ति ?
उत्तरम्:
राधिकां

(घ) मार्जार्याः कति शावका: ?
उत्तरम्:
चत्वारः

(ङ) राधिका मार्जार्यै किं ददाति ?
उत्तरम्:
क्षीरं

(च) चित्रवर्णः कः अस्ति ?
उत्तरम्:
शबल:

२. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु।

(क) मार्जारीशावकानां नामानि कानि ?
उत्तरम्:
मार्जारीशावकानां नामानि सन्ति – तन्वी, मृद्वी, शबलः, भीमः च इति।

(ख) राधिका मार्जारीशावकान् किं पाठयति ?
उत्तरम्:
राधिका मार्जारीशावकान् – ‘अतिथिदेवो भव’ पाठयति।

(ग) विशिष्टाः अतिथयः के?
उत्तरम्:
मार्जारी चत्वारः शावका: च विशिष्टाः अतिथयः सन्ति।

(घ) पितामही राधिकां किं वदति ?
उत्तरम्:
पितामही राधिकां वदति – “ राधिके ! अतिथयः कदा आगच्छति इति न जानीमः। ”

(ङ) मार्जारी कदा राधिकायाः पृष्ठतः आगच्छति ?
उत्तरम्:
यदा शावकानां समीपं राधिका गच्छति मार्जारी मन्दं मन्दं पृष्ठतः आगच्छति।

(च) मार्जार्या: शावकाः कीदृशाः सन्ति ?
उत्तरम्:
तन्वी आकृत्या सुन्दरी मृद्वी स्पर्शेन अतीव कोमला। शबल: चित्रवर्णः तथा च भीमः किञ्चित् स्थूलः सन्ति।

३. अधोलिखितानां वाक्यानां प्रश्न-सूचक- वाक्यानि लिखन्तु।

यथा – लेखनी अत्र अस्ति। लेखनी कुत्र अस्ति ?

(क) वृक्षः तत्र अस्ति।
उत्तरम्:

(ख) देवालयः अन्यत्र अस्ति।
उत्तरम्:

(ग) वायुः सर्वत्र अस्ति।
उत्तरम्:

(घ) बालकाः एकत्र तिष्ठन्ति।
उत्तरम्:

(ङ) माता अत्र अस्ति।
उत्तरम्:
माता कुत्र अस्ति ?

४. उत्पीठिकायां किम् अस्ति ? किं नास्ति ? इति चित्रं दृष्टवा लिखन्तु।

यथा – उत्पीठिकायां पुस्तकम् अस्ति।
उत्पीठिकायां घटी नास्ति।
(पुस्तकम्, घटी, लेखनी, चषक:, कूपी, स्यूतः, सङ्गणकम्, वृक्षः, फलम्, कन्दुक:)

उत्तरम्:

Class 6 Sanskrit Chapter 7 Diagram 1

५. रेखाचित्रं दृष्ट्वा उदाहरणानुसारं वाक्यानि लिखन्तु।

यथा – मार्जारः कुत्र अस्ति ? मार्जारः अत्र अस्ति।
सेवकः कुत्र अस्ति ? सेवक: तत्र अस्ति।


उत्तरम्-
अत्र-

Class 6 Sanskrit Chapter 7 Diagram 2

Class 6 Sanskrit Chapter 7 Diagram 3

(1) छात्रः कुत्र अस्ति ? छात्रः अत्र अस्ति।
(2) काकः कुत्र अस्ति? काकः अत्र अस्ति।
(3) दीपक: कुत्र अस्ति ? दीपकः अत्र अस्ति।
(4) घटः कुत्र अस्ति ? घटः अत्र अस्ति।
(5) सुधाखण्डः कुत्र अस्ति ? सुधाखण्डः अत्र अस्ति।
(6) शिक्षकः कुत्र अस्ति ? शिक्षकः अत्र अस्ति।
(7) बालिका कुत्र अस्ति ? बालिका अत्र अस्ति।
(8) लेखनी कुत्र अस्ति ? लेखनी अत्र अस्ति।
(9) माला कुत्र अस्ति ? माला अत्र अस्ति।

तत्र-

(1) विद्यालयः कुत्र अस्ति ? विद्यालयः तत्र अस्ति।
(2) गायक : कुत्र अस्ति ? गायकः तत्र अस्ति।
(3) घटी कुत्र अस्ति ? घटी तत्र अस्ति।
(4) फलम् कुत्र अस्ति ? फलम् तत्र अस्ति।
(5) गृहम् कुत्र अस्ति ? गृहम् तत्र अस्ति।
(6) वाटिका कुत्र अस्ति ? वाटिका तत्र अस्ति।
(7) हरिणः कुत्र अस्ति ? हरिणः तत्र अस्ति।
(8) अजः कुत्र अस्ति ? अजः तत्र अस्ति।
(9) मूषकः कुत्र अस्ति ? मूषकः तत्र अस्ति।

सर्वत्र-

(1) प्रकाशः कुत्र अस्ति ? प्रकाश: सर्वत्र अस्ति।
(2) परमेश्वरः कुत्र अस्ति ? परमेश्वरः सर्वत्र अस्ति।
(3) ज्ञानम् कुत्र अस्ति ? ज्ञानम् सर्वत्र अस्ति।
(4) आकाशः कुत्र अस्ति? आकाशः सर्वत्र अस्ति।
(5) अणवः कुत्र अस्ति ? अणवः सर्वत्र अस्ति।
(6) प्रकृतिः कुत्र अस्ति ? प्रकृतिः सर्वत्र अस्ति।
(7) पुष्पाणि कुत्र अस्ति ? पुष्पाणि सर्वत्र अस्ति।
(8) वायुः कुत्र अस्ति ? वायुः सर्वत्र अस्ति।
(9) प्रेम कुत्र अस्ति ? प्रेम सर्वत्र अस्ति।

एकत्र –

(1) बालकः कुत्र अस्ति ? बालक: एकत्र अस्ति।
(2) मयूरः कुत्र अस्ति ? मयूर : एकत्र अस्ति।
(3) मित्रम् कुत्र अस्ति ? मित्रम् एकत्र अस्ति।
(4) पुत्रः कुत्र अस्ति ? पुत्रः एकत्र अस्ति।
(5) महिला कुत्र अस्ति ? महिला एकत्र अस्ति।
(6) सेविका कुत्र अस्ति ? सेविका एकत्र अस्ति।
(7) चटका कुत्र अस्ति ? चटका एकत्र अस्ति।
(8) दोला कुत्र अस्ति ? दोला एकत्र अस्ति।

६. भोजनशालायां किं किम् अस्ति ? इति पञ्चभिः वाक्यैः लिखन्तु।

यथा- भोजनशालायां पाचकः अस्ति।
(सूचकपदानि पाचकः, पात्रम्, तण्डुलाः शाकानि, अग्निः, जलम्)
उत्तरम्:

७. अधोलिखितेभ्यः वाक्येभ्यः अव्ययपदानि चित्वा लिखन्तु ?

(क) अमितः गृहात् बहिः गच्छति। …………
(ख) एक वानरः वृक्षस्य उपरि तिष्ठति। …………
(ग) सः फलानि अधः क्षिपति। ………….
(घ) तत्र एक: बिडालः अस्ति। ………..
(ङ) बिडाल : गृहस्य अन्तः प्रविशति। …………

(क) अमितः गृहात् बहिः गच्छति।
उत्तरम्:
बहि:

(ख) एक वानरः वृक्षस्य उपरि तिष्ठति।
उत्तरम्:
उपरि

(ग) सः फलानि अधः क्षिपति।
उत्तरम्:
अधः

(घ) तत्र एक: बिडालः अस्ति।
उत्तरम्:
तत्र

(ङ) बिडाल : गृहस्य अन्तः प्रविशति।
उत्तरम्:
अन्तः

८. उदाहरणानुसार कः कुत्र अस्ति ? कुत्र नास्ति ? इति लिखन्तु।

यथा-

Class 6 Sanskrit Chapter 7 Diagram 4

यथा-

सिंह:

वने

कार्यालये

सिंह: वने अस्ति। कार्यालये नास्ति।

छात्र:

आकाशे

विद्यालये

छात्रः आकाशे नास्ति। छात्रः विद्यालये अस्ति।

मत्स्य:

समुद्रे

वृक्षे

मधुरता

लड्डुके

कषाये

उष्णता

सूर्ये

चन्द्रे

वानरः

नद्याम्

वृक्षे

नौका

जले

पर्वते

अज्ञानम्

पण्डि

मूर्खे

चन्द्रः

अमावस्यायाम्

पूर्णिमायाम्

अवकाश:

सोमवासरे

रविवासरे

Solution:
म्:
(1) मत्स्यः समुद्रे अस्ति। मत्स्यः वृक्षे नास्ति।
(2) मधुरता लड्डुके अस्ति। लड्डुके कषाय नास्ति।
(3) उष्णता सूर्ये अस्ति। चन्द्रे नास्ति।
(4) वानरः वृक्षे अस्ति। नद्याम् नास्ति।
(5) नौका जले अस्ति। पर्वते नास्ति।
(6) अज्ञानम् पण्डिते नास्ति। मूर्खे अस्ति।
(7) चन्द्रः पूर्णिमायाम् अस्ति। अमावस्यायाम् नास्ति।
(8) अवकाश: रविवासरे अस्ति। सोमवासरें नास्ति।

योग्यताविस्तरः

१. एतत् गीतं सर्वेऽपि मिलित्वा पठन्तु आलपन्तु च।

मार्जाल ! रे मार्जाल ! कुत्र गतोऽसि त्वम्
अत्रैवास्मि आगतोऽस्मि राजगृहादेवम्
मार्जाल ! रे मार्जाल ! किं दृष्टं तत्र ?
तावदीर्घः मूषकपुत्रः न हि दृष्टोऽन्यत्र।

Class 6 Sanskrit Chapter 7 Diagram 5

२. पाठे स्थूलाक्षरैः लिखिताः शब्दाः अव्ययपदानि सन्ति। ‘अत्र’ इति अव्ययं परिशीलयामः।

Class 6 Sanskrit Chapter 7 Diagram 6

Class 6 Sanskrit Chapter 7 Diagram 7

३. अव्ययलक्षणम्

सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥

अव्ययपदेषु वचनभेदः, विभक्तिभेदः लिङ्गभेदः च न भवति। एतानि अव्ययपदानि सर्वदा समानरूपेण वाक्ये भवन्ति।

४. निम्नलिखितानि वाक्यानि सावधानं पठन्तु लिखन्तु च।


• छात्रः अत्र अस्ति।
• क्रीडाङ्गणं तत्र अस्ति।
• कन्दुक : कुत्र अस्ति ?
• नगरम् अन्यत्र अस्ति।
• परमेश्वरः सर्वत्र अस्ति।
• भोजनम् अत्र नास्ति।

Class 6 Sanskrit Chapter 7 Diagram 8

परियोजनाकार्यम्

१. पाठे मार्जारशावकानां नामानि पश्यन्तु। तेषां नामकरणे राधिकायाः किं चिन्तनम् आसीत्? तदनुसारं स्वनामधेये किम् उद्देश्यं स्यात् इति विमर्श कुर्वन्तु।
उत्तरम्:
मार्जारशावकानाम् नामकरणे राधिकायाः चिन्तनम् आसीत् यत् तन्वी शरीरस्य सौंदर्येण सुन्दरी आसीत्। मृद्वी स्पर्शेन अतीव कोमला आसीत्। शबल: चित्रवर्ण : आसीत्। भीमः स्थूलः आसीत्। राधिका तेषाम् नामानि शरीरस्य गुणानुसारेण अचिन्तयत्।

Class 6 Sanskrit Chapter 7 Diagram 9

२. विद्यालयपरिसरे किम् अस्ति किं नास्ति इति लिखन्तु कक्षायां च श्रावयन्तु।
उत्तरम्:
विद्यालयपरिसरे एकं क्रीडाक्षेत्रम् अस्ति। विद्यालयस्य भवनम् भव्यम् विशालम् च अस्ति। विद्यालयं परितः वृक्षाः सन्ति। पादपेषु सुन्दराणि पुष्पाणि विकसन्ति। विद्यालयस्य भवने अनेके कक्षाः प्रकोष्ठाः च सन्ति। एक: पुस्तकालयः अस्ति। तत्र एक भोजनालयः अपि अस्ति। तत्र सर्वत्र स्वच्छं क्षेत्रम् अस्ति। अस्वच्छता नास्ति।

• बिडालः कुत्र अस्ति ?

उपरि – बिडाल: फलकस्य उपरि अस्ति।
अधः – बिडालः फलकस्य अधः अस्ति।
कोणे – बिडालः फलकस्य कोणे अस्ति।
केन्द्रे – बिडाल: आसनस्य केन्द्रे अस्ति।
समीपे – बिडाल: पेटिकायाः समीपे अस्ति।
दूरे – बिडाल: पेटिकायाः दूरे अस्ति।
अन्तः – बिडाल: पेटिकायाः अन्तः अस्ति।
बहि: – बिडाल: पेटिकायाः बहिः अस्ति।
पुरतः – बिडालः कन्दुकस्य पुरतः अस्ति।
पृष्ठतः – बिडालः कन्दुकस्य पृष्ठतः अस्ति।
दक्षिणतः – बिडाल : बालकस्य दक्षिणतः अस्ति।
वामतः – बिडालः बालकस्य वामतः अस्ति।

पठित-अवबोधनम्

I. पठित सामग्रीम् आधृत्य अवबोधनकार्यम्

१. निम्नलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
(निम्नलिखित गद्यांश को पढ़कर प्रश्नों के उत्तर लिखिए)
राधिका एषु दिनेषु कूर्दमाना एव चलति। यतः गृहे नूतनाः अतिथयः सन्ति। ते च विशिष्टाः सन्ति। माता, पुत्रौ पुत्र्यौ च मिलित्वा ते तत्र पञ्च सन्ति। अहोरात्रं तस्याः चिन्ता एकत्र एव। गृहस्य छद्याः उपरि। तत्र एव तस्याः मनः अस्ति। कुतूहलम् अस्ति के ते इति ? ते न अन्ये, काचित् मार्जारी तस्याः चत्वारः शावकाः च। आम्, एव विशिष्टाः अतिथयः। सा तु तेषां नामानि अपि चिन्तितवती – तन्वी, मृद्वी, शबलः, भीमः च इति।

प्रश्ना:-

प्रश्न 1


एकपदेन उत्तरत-

(i) मार्जार्या: कति शावका: ?
उत्तरम्:
चत्वारः

(ii) चित्रवर्ण : का अस्ति ?
उत्तरम्:
शबल:

(iii) अतिथयः कति सन्ति?
उत्तरम्:
पञ्च

(iv) राधिका कथम् चलति ?
उत्तरम्:
कूर्दमाना

II. पूर्णवाक्येन उत्तरत-

विशिष्टाः अतिथयः के सन्ति?
उत्तरम्:
मार्जारी, तस्याः चत्वारः शावका:
च विशिष्टाः अतिथयः सन्ति।

III. निर्देशानुसारं उत्तरत-,

(i) ‘विशिष्ट:’ इति पदस्य विलोमशब्द लिखत |
(क) सामान्यः
(ख) अतिविशिष्य्
(ग) उच्चतर
(घ) निम्नतर
उत्तरम्:
(क) सामान्यः

(ii) ‘शावका:’ इत्यत्र का विभक्तिः ?
(क) द्वितीया
(ख) प्रथमा
(ग) तृतीया
(घ) षष्ठी
उत्तरम्:
(ख) प्रथमा

(iii) ‘चलति’ इत्यत्र कः लकारः ?
(क) लोट् लकार
(ख) लट् लकार
(ग) लृट लकार
(घ) लङ् लकार
उत्तरम्:
(क) लोट् लकार

II रिक्तस्थानपूर्तिः कुरुत

२. अधोलिखिते संदर्भे रिक्तस्थानानि मञ्जूषायाः उचितपदैः पूरयत-

मञ्जूषा –
अतीव, मार्जार्यै, राधिकां, सुंदरी, भीमः, मार्जारी, चित्रवर्णः

तन्वी आकृत्या …………, मृद्वी स्पर्शेन …………. कोमला। शबलः ………… तथा च ………….. किञ्चित् स्थूलः। ………….. कदा गच्छति, कदा आगच्छति एतत् सर्वम् अपि राधिका जानाति। सा ……….. क्षीरं ददाति। मार्जारी पिबति। अनन्तरं सा सधन्यवादं ………… पश्यति।
उत्तरम्:
तन्वी आकृत्या सुंदरी, मृद्वी स्पर्शेन अतीव कोमला। शबल: चित्रवर्णः तथा च भीमः किञ्चित् स्थूलः। मार्जारी कदा गच्छति, कदा आगच्छति एतत् सर्वम् अपि राधिका जानाति। सा मार्जार्यै क्षीरं ददाति। मार्जारी पिबति। अनन्तरं सा सधन्यवादं राधिकां पश्यति।

३. अधोलिखितानां पर्यायपदानां मेलनं कुरुत-

उत्तरम्:

Class 6 Sanskrit Chapter 7 Diagram 10

Class 6 Sanskrit Chapter 7 Diagram 11

III. पाठक्रमानुसारं क्रमसंयोजनम्

४. पाठक्रमानुसार अधोलिखितानि वाक्यानि पुनः लेखनीयानि।

(पाठ के क्रमानुसार क्रम संयोजित कर पुनः लिखिए।)

(क) माता, पुत्र, पुत्र्यौ च मिलित्वा ते तत्र पञ्च सन्ति।
उत्तरम्:
राधिका एषु दिनेषु कूर्दमाना एव चलति।

(ख) आम्, ते एव विशिष्टाः अतिथयः।
उत्तरम्:
यतः गृहे नूतनाः अतिथयः सन्ति।

(ग) तत्र एव तस्याः मनः अस्ति।
उत्तरम्:
माता, पुत्रौ पुत्र्यौ च मिलित्वा ते तत्र पञ्च सन्ति।

(घ) राधिका एषु दिनेषु कूर्दमाना एव चलति।
उत्तरम्:
गृहस्य छद्याः उपरि।

(ङ) यतः गृहे नूतनाः अतिथयः सन्ति।
उत्तरम्:
तत्र एव तस्याः मनः अस्ति।

(च) गृहस्य छद्याः उपरि।
उत्तरम्:
आम्, ते एव विशिष्टाः अतिथयः।

In-Article Ad Slot

CBSE 2026-27 Board Exam Preparation & Practice Papers

Free Chapter Notes & Question Bank by BoardExams.in