NCERT Solutions • Class 7 Sanskrit (Deepakam - दीपकम्) |
Students rely onand Class 7th Sanskrit Deepakam Chapter 5 Question Answer सेवा हि परमो धर्मः to clarify their doubts after class.
Sanskrit Class 7 Chapter 5 Question Answer सेवा हि परमो धर्मः
Class 7 Sanskrit Chapter 5 NCERT Solutions सेवा हि परमो धर्मः
कक्षा 7 संस्कृत पाठ 5 के प्रश्न उत्तर सेवा हि परमो धर्मः
१. अधोलिखितानां प्रश्नानाम् एकपदेन पदद्वयेन वा उत्तराणि लिखन्तु।
(निम्नलिखित प्रश्नों के उत्तर एक या दो पदों में लिखिए।)
(क) कः प्रसिद्ध: चिकित्सकः आसीत्?
(ख) अन्यस्मिन् दिवसे कौ आगतौ ?
(ग) कः खिन्नः आसीत्?
(घ) रुग्णस्य परिस्थितिः कथम् आसीत्?
(ङ) नागार्जुनः सहायकरूपेण कं चितवान्?
(च) कां विना चिकित्सकः न भवति ?
(छ) नागार्जुनः युवकौ केन मार्गेण गन्तुं सूचितवान्?
उत्तर:
(क) नागार्जुनः
(ख) द्वौ युवकौ
(घ) शोचनीया
(ङ) द्वितीयम्
(छ) राजमार्गेण
(ग) द्वितीयः युवक:
(च) सेवाभावनाम्
२. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु।
(निम्नलिखित प्रश्नों के उत्तर पूर्णवाक्य में लिखिए।)
(क) अहोरात्रं नागार्जुनः कुत्र कार्यं करोति स्म ?
(ख) नागार्जुन: महाराजं किं निवेदितवान्?
(ग) प्रथमः युवकः कथं कार्यं कृतवान्?
(घ) द्वितीयः युवक: राजमार्गे रोगिणं दृष्ट्वा किं कृतवान्?
(ङ) सेवायाः भावनां विना किं न भवेत् ?
उत्तर:
(क) अहोरात्रं नागार्जुनः प्रयोगशालायां कार्यं करोति स्म।
(ख) नागार्जुन: महाराजं निवेदितवान्- “महाराज ! मम चिकित्साकार्याय एक: सहायक: आवश्यक: इति।
(ग) प्रथमः युवकः स्वनिष्ठां दर्शयितुं स्वगृहस्य समस्याः वर्णितवान्– “पितुः उदरवेदना, मातुः ज्वरः च आसीत्। तथापि अहं सर्वं परित्यज्य औषधं निर्मितवान्” इति उक्त्वा नागार्जुनाय रसायनं दत्तवान्।
(घ) द्वितीयः युवकः राजमार्गे रोगिणं दृष्ट्वा तं स्वगृहं नीतवान् | दिनद्वयस्य तस्य एव सेवायां निरतः आसीत्।
(ङ) सेवायाः भावनां विना चिकित्सकः न भवेत्।
३. उदाहरणानुसारम् अधोलिखितानां पदानां स्त्रीलिङ्ग रूपाणि लिखन्तु।
(उदाहरण के अनुसार निम्नलिखित पदों के स्त्रीलिंग रूप लिखिए।)
उत्तर:


४. उदाहरणानुसारम् अधोलिखितानां पदानां पुंलिङ्गरूपाणि लिखन्तु।
(उदाहरण के अनुसार निम्नलिखित पदों के पुल्लिंग रूप लिखिए।)
उत्तर:


५. उदाहरणानुसारं वाक्यानि परिवर्तयन्तु।
(उदाहरणानुसार वाक्यों को बदलिए।)
यथा- पिता कषायं पिबति। पिता कषायं पीतवान्।
अहं पुस्तकं नयामि। अहं पुस्तकं नीतवान् / नीतवती।
उत्तर:
(क) युवक: आपणं गतवान्।
(ख) सः रोटिकां खादितवान्।
(ग) महिला वस्त्रं दत्तवती।
(घ) बालकः द्विचक्रिकातः पतितवान्।
(ङ) पितामही चलचित्रं दृष्टवती।
(च) अहं गृहपाठं लिखितवान्/लिखितवती।
(छ) त्वं कुत्र गतवान् / गतवती ?
(ज) अश्वाः वने धावितवन्तः।
(झ) बालिकाः शीघ्रम् आगतवत्यः।
(ञ) वयं समुद्रतीरे पयोहिमं खादितवन्तः।

अत्र इदम् अवधेयम्
वर्तमानकाल-क्रियापदेन सह ‘स्म’ इति अव्ययस्य योजनेन भूतकालस्य अर्थः भवति।
यथा- सः बाल्ये पुस्तकानि पठति।
सः बाल्ये पुस्तकानि पठति स्म (अपठत्)।
६. अनुच्छेदे कोष्ठकेषु केचन धातवः दत्ताः सन्ति। उपरि दत्तम् अवधेयांशं पठित्वा ‘स्म’ इति अव्ययपदम् उपयुज्य अनुच्छेदं पुनः लिखन्तु।
(अनुच्छेद में कोष्ठकों में कुछ धातुएँ दी गई हैं। उपर दिए हुए अवधेयांश को पढ़कर ‘स्म’ अव्ययपद को जोड़कर अनुच्छेद पुन: लिखिए।)
……….. ( शीर्षकं लिखन्तु )
कृषक : प्रतिदिनं कृषिक्षेत्रं …………… (गच्छ्)। जलसेचनं’ ………… (कृ)। कीटानां निवारणार्थं जैवौषधं ………… ‘(स्थापय्)। सः कृषिकार्यं सम्यक् ……..(ज्ञा)। अतः अन्ये कृषकाः संशयेन …….. ‘(पृच्छ्)। सः स्वाभिमानेन ……. (जीव्)। अतः ‘अहं कृषकः भूमिपुत्रः’ इति साभिमानं …….. (वद्)। सः क्षेत्रे गोमयं ……… (योजय्), न तु कृतकान् पदार्थान्। अतः व्रीहेः गुणवत्ता अधिका …….. (भव्)। जनाः जालपुटमाध्यमेन तस्य तण्डुलं …….. (क्रीण)। एवं तस्य परिवारस्य सर्वे जनाः कृषिकार्येण ससुख ……… (जीव्)। सः सर्वान् ………. (वद्) “कृषकः न दीनः न च दरिद्रः, परं सर्वेषां पोषकः” इति।
उत्तर:
कृषक : प्रतिदिनं कृषिक्षेत्रंगच्छति स्मजलसेचनं’करोति स्म। कीटानां निवारणार्थं जैवौषधंस्थापयति स्म।सः कृषिकार्यं सम्यक्जानाति स्म। अतः अन्ये कृषकाः संशयेनपृच्छन्ति स्म।सः स्वाभिमानेनजीवति स्म। अतः ‘अहं कृषक : भूमिपुत्रः’ इति साभिमानंवदति स्म। सः क्षेत्रे गोमयंयोजयति स्म, न तु कृतकान् पदार्थान्। अतः व्रीहेः गुणवत्ता अधिकाभवति स्म। जनाः जालपुटमाध्यमेन तस्य तण्डुलंक्रीणाति स्म। एवं तस्य परिवारस्य सर्वे जनाः कृषिकार्येण ससुखंजीवन्ति स्म। स सर्वान्वदति स्म। “कृषकः न दीनः न च दरिद्रः। परं सर्वेषां पोषकः ” इति।
शीर्षक:- सर्वेषां पोषकः कृषकः
NCERT Class 7 Sanskrit Chapter 5 Extra Questions and Answers सेवा हि परमो धर्मः
प्रश्न 1
|
(निम्नलिखित गद्यांश को पढ़कर प्रश्नों के उत्तर लिखिए |)
(क) नागार्जुन: प्रसिद्ध : रसायनशास्त्रज्ञः चिकित्सकः च आसीत्। सः अहोरात्रं प्रयोगशालायां कार्यं करोति स्म। एकदा सः महाराजं निवेदितवान्- “महाराज ! मम चिकित्साकार्याय एक: सहायक : आवश्यकः” इति। राजा एतद् अङ्गीकृतवान् उक्तवान् च- ‘अस्तु, अहं व्यवस्थां करोमि। श्वः केचन योग्याः युवकाः आगमिष्यन्ति। भवान् परीक्षां कृत्वा तेषु युवकेषु कमपि योग्यं स्वीकरोतु’ इति। अन्यस्मिन् दिने द्वौ युवकौ आगतवन्तौ। नागार्जुनः द्वयोः विद्याभ्यासविषये पृष्टवान्। द्वयोः अपि विद्याभ्यासविषयः समानः एव आसीत्। तदा नागार्जुनः तौ एक विशिष्टं रसायनं निर्माय आगच्छताम् इति सूचितवान्। तदर्थं दिनद्वयस्य अवसरं दत्तवान्। ” गमनसमये राजमार्गेण गच्छताम्” इत्यपि सूचितवान्।
दिनद्वयानन्तरं नागार्जुनस्य समीपे प्रथमः युवकः आगतवान्। “ औषधनिर्माणे किमपि कष्टं न अभवत् खलु ?” इति नागार्जुनः पृष्टवान्। युवकः स्वनिष्ठां दर्शयितुं स्वगृहस्य समस्याः वर्णितवान्- “ पितुः उदरवेदना, मातुः ज्वरः च आसीत्। तथापि अहं तत्सर्वं परित्यज्य औषधं निर्मितवान् ” इति उक्त्वा नागार्जुनाय रसायनं दत्तवान्।
एकपदेन उत्तरत।
(i) चिकित्सकः कः आसीत्?
(ii) सः कदा प्रयोगालायां कार्यं करोति स्म ? –
उत्तर:
अहोरात्रं
(iii) द्वौ कौ आगतवन्तौ ?
उत्तर:
युवकौ
II. पूर्णवाक्येन उत्तरत।
(i) नागार्जुनः युवकौ किं पृष्टवान् ?
उत्तर:
नागार्जुन : द्वयोः विद्याभ्यासविषये पृष्टवान्।
(ii) द्वयोः युवकयोः किं समानः एव आसीत् ?
उत्तर:
द्वयोः युवकयोः विद्याभ्यासविषयः समानः एव आसीत्।
III. भाषिककार्यम्।
(i) ‘अहः च रात्रिः च’ इति अर्थे किं समानपदं प्रयुक्तम् ?
(क) अहोरात्रं
(ख) अहोरात्रे:
(ग) अर्हरात्रि:
उत्तर:
(क) अहोरात्रं
(ii) ‘अपृच्छत्’ इति अर्थे किं समानपदं प्रयुक्तम् ?
(क) वर्णितवान्
(ख) दत्तवान्
(ग) पृष्टवान्
उत्तर:
(ग) पृष्टवान्
(iii) ‘त्यक्त्वा’ इति अर्थे किं पर्यायपदं अत्र प्रयुक्तम् ?
(क) परित्यज्य
(ख) व्यवस्था
(ग) चिकित्सा
उत्तर:
(क) परित्यज्य
(iv) “एकदा सः महाराजं निवेदितवान् ” अत्र क्रियापदं किं प्रयुक्तम् ?
(क) एकदा
(ख) सः
(ग) निवेदितवान्
उत्तर:
(ग) निवेदितवान्
(ख) तदभ्यन्तरे द्वितीयः युवकः अपि आगतवान्। सः खिन्नः आसीत्। तमपि नागार्जुनः पृष्टवान्। तदा युवकः उक्तवान् “अहम् औषधं निर्मातुं न शक्तवान्” इति। “किमर्थं न शक्तवान्?” इति नागार्जुनः पृच्छति।
युवक: उक्तवान्- “ राजमार्गे अहं कञ्चित् रोगिणं दृष्टवान्। तस्य परिस्थितिः शोचनीया आसीत्। अहं तं स्वगृहं नीतवान्। दिनद्वयं तस्य एव सेवायां निरतः आसम्। अद्य प्रातः सः स्वस्थः अभवत्। अहं ततः साक्षात् अत्र आगतवान्। रसायननिर्माणार्थं समयम् एव न प्राप्तवान् ” इति।
तदनन्तरं नागार्जुन: द्वितीयं युवकं सहायकत्वेन स्वीकृतवान्। राजा एतं वृत्तान्तं श्रुत्वा आश्चर्यं प्रकटितवान्। सः नागार्जुनं पृष्टवान्– “प्रथमः युवक: औषधं कृत्वा आनीतवान्। द्वितीयः तथा न कृतवान्। तथापि भवान् किमर्थं द्वितीयं चितवान् ” ?
नागार्जुनः अवदत्- “द्वितीयः अपि औषधनिर्माणे कुशल: अस्ति। किन्तु तेन समयः न प्राप्तः। यतः सः सेवायां निरतः आसीत्। तं रोगिणम् अहं पूर्वमेव मार्गे दृष्टवान्। अतः ‘राजमार्गेण गन्तव्यम्’ इति अहं युवकद्वयं सूचितवान्। प्रथमः रोगिणं दृष्ट्वा अपि अग्रे गतवान्। सः यन्त्रवत् कार्यं करोति। तस्मिन् सेवायाः भावना नास्ति। सेवाभावनां विना चिकित्सकः कथं भवेत् ? अतः अहं द्वितीयस्य चयनं कृतवान्” इति।
एकपदेन उत्तरत।
(i) द्वितीयः युवकः कीदृशः आसीत्?
(ii) राजा वृत्तान्तं श्रुत्वा किं प्रकटितवान् ?
उत्तर:
आश्चर्यम्
II. पूर्णवाक्येन उत्तरत।
(i) द्वितीयः युवकः राजमार्गे कं दृष्टवान् ?
उत्तर:
द्वितीयः युवक: राजमार्गे कञ्चित् रोगिणं दृष्टवान्।
(ii) नागार्जुनः कं सहायकत्वेन स्वीकृतवान् ?
उत्तर:
नागार्जुनः द्वितीयं युवकं सहायकत्वेन स्वीकृतवान्।
III. भाषिककार्यम्।
(i) ‘चयनं कृतवान्’ इति अर्थे किं पदं प्रयुक्तम् ?
(क) चितवान्
(ख) आनीतवान्
(ग) कृतवान्
उत्तर:
(क) चितवान्
(ii) ‘तं रोगिणम्’ अत्र विशेषणं पदं किं प्रयुक्तम् ?
(क) रोगिणम्
(ख) तम्
(ग) प्राप्तम्
उत्तर:
(ख) तम्
(iii) ‘सः यन्त्रवत् कार्यं करोति। ‘ अत्र कर्तृपदं किम् ?
(क) सः
(ख) कार्यम्
(ग) करोति
उत्तर:
(क) सः
(iv) ‘प्रसन्नः’ इति पदस्य विपर्ययपदं किं आगतवान्?
(क) युवक:
(ख) खिन्नः
(ग) स्वस्थः
उत्तर:
(ख) खिन्नः
प्रश्न 2
|
प्रश्न 3
|
प्रश्न 4
|

प्रश्न 5
|

६. प्रदत्तविकल्पेभ्यः उचितं उत्तरं चित्वा लिखन्तु।
(दिए गए विकल्पों से उचित उत्तर चुनकर लिखिए।)
(क) नागार्जुन: महाराजंनिवेदितवान्।
(i) नि + विद् + क्तवतु
(ii) निवेदित + वान्
(iii) नि + विद् + तवान्।
उत्तर:
(i) नि + विद् + क्तवतु
(ख) राजाउक्तवान्।
(i) उक् + तवान्
(ii) वच् + क्तवतु
(iii) वच्+ तवान्
उत्तर:
(ii) वच् + क्तवतु
(ग) राजा एतद्अङ्गीकृतवान्।
(i) अङ्ग + कृ + क्तवतु
(ii) अङ्गी + कृ + क्तवतु
(iii) अङ्गीकार + तवतु
उत्तर:
(i) अङ्ग + कृ + क्तवतु
(घ) द्वौ युवकौआगतवन्तौ।
(i) आ + गम् + क्तवतुं
(ii) आगम् + तवतु
(iii) आ + गम् + तवन्तौ
उत्तर:
(i) आ + गम् + क्तवतुं
(ङ) नागार्जुनः युवकंपृष्टवान्।
(i) प्रच्छत् + वान्
(ii) प्रच्छ + क्तवतु
(iii) पृष्ट + वान्
उत्तर:
(ii) प्रच्छ + क्तवतु
(च) औषधं निर्मातुं नशक्तवान्।
(i) शक् + क्तवतु
(iii) शक् + तवान्
(ii) शक्त + वान्
उत्तर:
(i) शक् + क्तवतु
(छ) राजमार्गे अहं रोगिणंदृष्टवान्।
(i) दृष्ट + वान्
(ii) दृश् + क्तवतु
(iii) दृश्य + क्तवतु
उत्तर:
(ii) दृश् + क्तवतु
(ज) रसायननिर्माणार्थं समयं न प्राप्तवान्।
(i) प्र + आप् + क्तवतु
(ii) प्रा + आप्त + वान्
(iii) प्राप्य + क्तवतु
उत्तर:
(i) प्र + आप् + क्तवतु
(झ) भवान् किमर्थं द्वितीयंचितवान् ?
(i) चि + क्तवतु
(ii) ची + क्तवतु
(iii) चित + वान्
उत्तर:
(i) चि + क्तवतु
CBSE 2026-27 Board Exam Preparation & Practice Papers
Free Chapter Notes & Question Bank by BoardExams.in